भाषा

ENहिગુ
ग्रंथ पाठ

गुरु गीता · अध्याय 1

1

।
॥गुरु गीता ॥
॥श्री गुरुगीता ॥
॥प्रथमोऽध्यायः ॥
अचिन्त्याव्यक्तरूपाय निर्गुणाय गणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः

2

ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ निगमागमपारगम् ।
गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम्

3

यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते ।
येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे

4

यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् ।
तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया

5

गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः ।
त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः

6

इति संप्रार्थितः सूतो मुनिसङ्घैर्मुहुर्मुहुः ॥
कुतूहलेन महता प्रोवाच मधुरं वचः

7

सूत उवाच ।
श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा ।
वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम्

8

पुरा कैलासशिखरे सिद्धगन्धर्वसेविते ।
तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे

9

व्याघ्राजिने समासीनं शुकादिमुनिवन्दितम् ।
बोधयन्तं परं तत्त्वं मध्ये मुनिगणे क्वचित्

10

प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् ।
दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति

11

पार्वत्युवाच ।
ॐ नमो देव देवेश परात्पर जगद्गुरो ।
त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा

12

विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् ।
नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल

13

दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे ।
किमेतन्न विजानेऽहं कृपया वद मे प्रभो

14

भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् ।
ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम्

15

केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् ।
तत्कृपां कुरु मे स्वामिन्नमामि चरणौ तव

16

इति संप्रार्थितः शश्वन्महादेवो महेश्वरः ।
आनन्दभरतिः स्वान्ते पार्वतीमिदमब्रवीत्

17

श्री महादेव उवाच ।
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् ।
न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत्

18

मम रूपासि देवि त्वमतस्तत्कथयामि ते ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा

19

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः

20

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः

21

दुर्लभं त्रिषु लोकेषु तच्छृणुश्व वदाम्यहम् ।
गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने

22

वेदशास्त्रपुराणानि चेतिहासादिकानि च ।
मन्त्रयन्त्रादिविद्यानां मोहनोच्चाटनादिकम्

23

शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः ।
अपभ्रंशाः समस्तानां जीवानां भ्रान्तचेतसाम्

24

जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च ।
गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये

25

गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः

26

गूढाविद्या जगन्माया देहश्चाज्ञानसम्भवः ।
विज्ञानं यत्प्रसादेन गुरुशब्देन कथयते

27

यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् ।
तारकं भवसिन्धोश्च तं गुरुं प्रणमाम्यहम्

28

देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् ।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्

29

सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन्

30

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम्

31

अज्ञानमूलहरणं जन्मकर्मनिवारकम् ।
ज्ञानविज्ञानसिद्ध्यर्थं गुरुपादोदकं पिबेत्

32

गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम्नः सदा जपः

33

स्वदेशिकस्यैव च नामकीर्तनं
भवेदनन्तस्य शिवस्य कीर्तनम् ।
स्वदेशिकस्यैव च नामचिन्तनं
भवेदनन्तस्य शिवस्य चिन्तनम्

34

यत्पादरेणुर्वै नित्यं कोऽपि संसारवारिधौ ।
सेतुबन्धायते नाथं देशिकं तमुपास्महे

35

यदनुग्रहमात्रेण शोकमोहौ विनश्यतः ।
तस्मै श्रीदेशिकेन्द्राय नमोऽस्तु परमात्मने

36

यस्मादनुग्रहं लब्ध्वा महदज्ञान्मुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये

37

काशीक्षेत्रं निवासश्च जान्हवी चरणोदकम् ।
गुरुविश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः

38

गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः ।
तत्पादं विष्णुपादं स्यात् तत्र दत्तमनन्तकम्

39

गुरुमूर्ति स्मरेन्नित्यं गुरुर्नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत्

40

गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा

41

स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत्

42

अनन्याश्चिन्तयन्तो ये सुलभं परमं सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

43

गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते ।
त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः

44

गुकारश्चान्धकारो हि रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः

45

गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् ।
भवरोगहरत्याच्च गुरुरित्यभिधीयते

46

गुकारश्च गुणातीतो रूपातीतो रुकारकः ।
गुणरूपविहीनत्वात् गुरुरित्यभिधीयते

47

गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम्

48

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
गरुडोरगगन्धर्वसिद्धादिसुरपूजितम्

49

ध्रुवं देहि मुमुक्षूणां नास्ति तत्त्वं गुरोः परम् ।
गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत्

50

आसनं शयनं वस्त्रं वाहनं भूषणादिकम् ।
साधकेन प्रदातव्यं गुरुसन्तोषकारणम्

51

कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जौ गुरुसन्निधौ

52

शरीरमिन्द्रियं प्राणमर्थस्वजनबान्धवान् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत्

53

गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम्

54

सर्वश्रुतिशिरोरत्नविराजितपदांबुजम् ।
वेदान्तार्थप्रवक्तारं तस्मात् संपूजयेद्गुरुम्

55

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसंपत्तिः तस्मात्संपूजयेद्गुरुम्

56

कृमिकोटिभिराविष्टं दुर्गन्धकुलदूषितम् ।
अनित्यं दुःखनिलयं देहं विद्धि वरानने

57

संसारवृक्षमारूढाः पतन्ति नरकार्णवे ।
यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः

58

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः

59

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः

60

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः

61

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
त्वंपदं दर्शितं येन तस्मै श्रीगुरवे नमः

62

चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः

63

निमिषन्निमिषार्ध्वाद्वा यद्वाक्यादै विमुच्यते ।
स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः

64

चैतन्यं शाश्वतं शांतं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः

65

निर्गुणं निर्मलं शान्तं जंगमं स्थिरमेव च ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः

66

स पिता स च मे माता स बन्धुः स च देवता ।
संसारमोहनाशाय तस्मै श्रीगुरवे नमः

67

यत्सत्त्वेन जगत्सत्यं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः

68

यस्मिन्स्थितमिदं सर्वं भाति यद्भानरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः

69

येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः

70

यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरूपरूपाय तस्मै श्रीगुरवे नमः

71

यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः

72

यस्मै कारणरूपाय कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः

73

नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः

74

ज्ञानशक्तिसमारूढतत्त्वमालाविभूषणे ।
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः

75

अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने ।
ज्ञानानिलप्रभावेन तस्मै श्रीगुरवे नमः

76

शोषणं भवसिन्धोश्च दीपनं क्षरसंपदाम् ।
गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः

77

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः

78

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः

79

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः

80

एक एव परो बन्धुर्विषमे समुपस्थिते ।
गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः

81

गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः ।
गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः

82

भवारण्यप्रविष्टस्य दिङ्मोहभ्रान्तचेतसः ।
येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः

83

तापत्रयाग्नितप्तनामशान्तप्राणिनां भुवि ।
यस्य पादोदकं गङ्गा तस्मै श्रीगुरवे नमः

84

अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः ।
सम्यग्ज्ञानमहामन्त्रवेदिनं सद्गुरु विना

85

हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः

86

ध्यानमूलं गुरोर्मूतिःर् पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा

87

सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत् ।
गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम्

88

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
लब्ध्वा कुलगुरु सम्यग्गुरुमेव समाश्रयेत्

89

मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुवर्न्तरं व्रजेत्

90

वन्दे गुरुपदद्वन्द्वं वाङ्मनातीतगोचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम्

91

गुकारं च गुणातीतं रूकारं रूपवर्जितम् ।
गुणातीतमरूपं च यो दद्यात् स गुरुः स्मृतः

92

अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः ।
योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये

93

अयं मयाञ्जलिर्बद्धो दयासागरसिद्धये ।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक्

94

श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः ।
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा

95

कुलानां कुलकोटीनां तारकस्तत्र तत्क्षणात् ।
अतस्तं सद्गुरु ज्ञात्वा त्रिकालमभिवादयेत्

96

श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये

97

साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत्

98

दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोष्टाङ्ग उच्यते

99

तस्यै दिशे सततमज्जलिरेष नित्यम्
प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वस्थितिप्रलयनाटकनित्यसाक्षी

100

अभैस्तैः किमु दीर्घकालविमलैर्व्यादिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुजर्यैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम्

101

ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोः प्रसादतो नान्यत् साधनं गुरुमार्गिणाम्

102

यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव सत्यमाराधयेद्गुरुम्

103

गुरोः कृपाप्रसादेन ब्रह्मविष्णुशिवादयः ।
सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यन्तकर्मणि

104

देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरुः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम्

105

तार्किकाश्छान्दसाश्चैव दैवज्ञाः कर्मठाः प्रिये ।
लौकिकास्ते न जानन्ति गुरुतत्त्वं निराकुलम्

106

महाहङ्कारगर्वेण ततोविद्याबलेन च ।
भ्रमन्त्येतस्मिन् संसारे घटीयन्त्रं यथा पुनः

107

यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा ।
तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः

108

न मुक्तास्तु गन्धर्वाः पितृयक्षास्तु चारणाः ।
ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः

109

॥इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां प्रथमोऽध्यायः ॥
॥अथ द्वितीयोऽध्यायः ॥
ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् ।
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम्

110

श्रीमत्परं ब्रह्म गुरुं स्मरामि
श्रीमत्परं ब्रह्म गुरुं भजामि ।
श्रीमत्परं ब्रह्म गुरुं वदामि
श्रीमत्परं ब्रह्म गुरुं नमामि

111

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि

112

हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम्
सच्चित्सुखाभीष्टवरं दधानम्

113

श्वेताम्बरं श्वेतविलेपपुष्पम्
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामाङ्कपीठस्थितदिव्यशक्तिम्
मन्दस्मितं पूर्णकृपानिधानम्

114

ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् ।
योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि

115

वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् ।
जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै

116

यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत्

117

पादाब्जे सर्वसंसारदावकालानलं स्वके ।
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम्

118

अकथादित्रिरेखाब्जे सहस्रदलमण्डले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम्

119

नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् ।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्

120

सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः ।
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः

121

सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः

122

न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः

123

इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् ।
हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः

124

विदितं विदितं विदितं विदितं
विजनं विजनं विजनं विजनम् ।
विधिशासनतो विधिशासनतो
विधिशासनतो विधिशासनतः

125

एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत्

126

गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम्

127

ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः

128

किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि ।
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम्

129

करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः ।
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते

130

एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः ।
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ

131

यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् ।
गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत्

132

हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन ।
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन

133

गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः ।
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः

134

अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा ।
कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ

135

दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् ।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः

136

अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा ।
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम्

137

गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् ।
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः

138

गुरौ सति स्वयं देवि परेषां तु कदाचन ।
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत्

139

न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् ।
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत्

140

नोपाश्रमं च पर्यकं न च पादप्रसारणम् ।
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि

141

गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत् ।
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो

142

अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् ।
दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते

143

पादुकासनशय्यादि गुरुणा यदभीष्टितम् ।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित्

144

गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् ।
नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान्

145

गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् ।
स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि

146

नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् ।
कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम्

147

नानृतं नाप्रियं चैव न गर्व नापि वा बहु ।
न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत्

148

प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर ।
इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ

149

मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति

150

अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा ।
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित्

151

स्मृतिवेदपुराणानां सारमेव न संशयः

152

सत्कारमानपूजार्थं दण्डकाषयधारणः ।
स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः

153

विजानन्ति महावाक्यं गुरोश्चरण सेवया ।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः

154

नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् ।
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते

155

गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् ।
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते

156

आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम् ।
स्थावरं जंगमं चैव प्रणमामि जगन्मयम्

157

वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम्

158

परात्परतरं ध्यायेन्नित्यमानन्दकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम्

159

स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा ।
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत

160

अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि ।
तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते

161

अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम् ।
अविकारश्चिदानन्दो ह्यणीयान्महतो महान्

162

अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्

163

अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति

164

यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु ।
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम्

165

यथा निजस्वभावेन कुण्डलकटकादयः ।
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम्

166

स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् ।
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः

167

गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः

168

श्रीपार्वती उवाच ।
पिण्डं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किं एतदाख्याहि शंकर

169

श्रीमहादेव उवाच ।
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् ।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम्

170

पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः

171

गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् ।
स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः

172

ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः ।
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये

173

गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् ।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते

174

एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः ।
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते

175

न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके ।
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले

176

चार्वाकवैष्णवमते सुखं प्राभाकरे न हि ।
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम्

177

न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् ।
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः

178

नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि ।
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा

179

यतः परमकैवल्यं गुरुमार्गेण वै भवेत् ।
गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः

180

एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः ।
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम्

181

अभ्यासान्निमिषेणैवं समाधिमधिगच्छति ।
आजन्मजनितं पापं तत्क्षणादेव नश्यति

182

किमावाहनमव्यक्तै व्यापकं किं विसर्जनम् ।
अमूर्तो च कथं पूजा कथं ध्यानं निरामये

183

गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः ।
तामसो रुद्ररूपेण सृजत्यवति हन्ति च

184

स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् ।
परात्परतरं नान्यत् सर्वगं च निरामयम्

185

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः ।
एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः

186

लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः

187

सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि ।
सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित्

188

यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः ।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया

189

उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः

190

नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत् ।
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम्

191

यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये ।
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना

192

शिवपूजारतो वापि विष्णुपूजारतोऽथवा ।
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि

193

शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि ।
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये

194

सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः ।
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः

195

गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति ।
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम्

196

तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः ।
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत्

197

निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् ।
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम्

198

ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः ।
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम्

199

शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे ।
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम्

200

न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः ।
वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत्

201

पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः ।
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः

202

कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः ।
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा

203

ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये ।
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च

204

शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् ।
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम्

205

गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः ।
सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः

206

सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् ।
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत्

207

गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते ।
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत्

208

नतास्मि ते नाथ पदारविन्दं
बुद्धीन्द्रियाप्राणमनोवचोभिः ।
यच्चिन्त्यते भावित आत्मयुक्तौ
मुमुक्षिभिः कर्ममयोपशान्तये

209

अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये ।
लोकोपकारकं देवि लौकिकं तु विवर्जयेत्

210

लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे ।
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति

211

इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि ।
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते

212

गुरुगीतामिमां देवि हृदि नित्यं विभावय ।
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा

213

गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये ।
अन्ये च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम्

214

अनन्त फलमाप्नोति गुरुगीता जपेन तु ।
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी

215

अकालमृत्युहर्त्री च सर्वसंकटनाशिनी ।
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी

216

सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी ।
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत्

217

महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् ।
अथवा मोहने वश्ये स्वयमेव जपेत्सदा

218

कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः

219

शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये ।
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम्

220

वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः ।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम्

221

कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले

222

आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् ।
नैऋर्त्यां दर्शनं चैव ईशान्यां ज्ञानमेव च

223

उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा ।
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः

224

मोहनं सर्वभूतानां बन्धमोक्षकरं परम् ।
देवराज्ञां प्रियकरं राजानं वशमानयेत्

225

मुखस्तम्भकरं चैव गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम्

226

प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम्

227

मोहशान्तिकरं चैव बन्धमोक्षकरं परम् ।
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे

228

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् ।
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम्

229

सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम्

230

आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् ।
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात्

231

अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम्

232

सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्

233

काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः ।
चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम्

234

लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् ।
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा

235

जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः ।
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः

236

॥इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां द्वितीयोऽध्यायः ॥
॥अथ तृतीयः अध्यायः ॥
अथ काम्यजपस्थानं कथयामि वरानने ।
सागरान्ते सरितीरे तीर्थे हरिहरालये

237

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटस्य धात्र्या मूले वा मठे वृन्दावने तथा

238

पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतत् समारभेत्

239

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।
हीनं कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च

240

श्मशाने बिल्वमूले वा वटमूलान्तिके तथा ।
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ

241

पीतासनं मोहने तु ह्यसितं चाभिचारिके ।
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम्

242

जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे

243

जपन् जयमवाप्नोति मरणे मुक्तिदायिका ।
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः

244

गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा ।
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके

245

भवमूलविनाशाय चाष्टपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा

246

स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः

247

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च

248

आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा ।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा

249

शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये ।
तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते

250

समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् ।
भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि

251

तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा ।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम्

252

एवंविधो महायुक्तः सर्वत्र वर्तते सदा ।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत्

253

गुरुसन्तोषणादेव मुक्तो भवति पार्वति ।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते

254

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि ।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत्

255

अथ संसारिणः सर्वे गुरुगीताजपेन तु ।
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम्

256

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् ।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम्

257

गुरुर्देवो गुरुर्धमोर् गुरौ निष्ठा परं तपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते

258

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः ।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता

259

आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः ।
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः

260

शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता ।
मातृकुलं पितृकुलं गुरुरेव न संशयः

261

मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते ।
गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ

262

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् ।
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती

263

ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः

264

गुरुभावः परं तीर्थमन्यर्थं निरर्थकम् ।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम्

265

कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः ।
अतः परं मया देवि कथितन्न मम प्रिये

266

इदं रहस्यमस्पष्टं वक्तव्यं च वरानने ।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति

267

स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति ।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे

268

अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु ।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन

269

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम्

270

चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः ।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते

271

गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः ।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः

272

सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः ।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः

273

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् ।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः

274

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् ।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति

275

पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति ।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः

276

मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम् ।
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः

277

अनित्यमिति निर्दिश्य संसारं संकटालयम् ।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये

278

तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति ।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः

279

सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः ।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः

280

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः ।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम्

281

एवं बहुविधा लोके गुरवः सन्ति पार्वति ।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः

282

निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः ।
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम्

283

एवं श्रुत्वा महादेवी महादेववचस्तथा ।
अत्यन्तविह्वलमना शंकरं परिपृच्छति

284

पार्वत्युवाच ।
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे ।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः

285

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः ।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः

286

श्री महादेव उवाच ।
श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः ।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः

287

अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः

288

जलानां सागरो राजा यथा भवति पार्वति ।
गुरूणां तत्र सर्वेषां राजायं परमो गुरुः

289

मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः ।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः

290

सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी ।
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः

291

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः

292

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता ।
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः

293

सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् ।
तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः

294

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् ।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः

295

मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति ।
न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये

296

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः ।
यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः

297

गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि ।
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि

298

श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता ।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले

299

कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे ।
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः

300

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया ।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात्

301

गुरुरेको हि जानाति स्वरूपं देवमव्ययम् ।
तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः

302

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् ।
तपोजपादिअक्ं देवि सकलं बालजल्पवत्

303

शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन ।
शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः

304

न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः ।
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः

305

तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये ।
गुरूं विना न जानन्ति मूढास्तत्परमं पदम्

306

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे

307

कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः ।
मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः

308

दुःसंगं च परित्यज्य पापकर्म परित्यजेत् ।
चित्तचिह्नमिदं यस्य दीक्षा विधीयते

309

चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः ।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते

310

एतल्लक्षण संयुक्तं सर्वभूतहिते रतम् ।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते

311

क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् ।
मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम्

312

क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम् ।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः

313

शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् ।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम्

314

अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च ।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा

315

रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे ।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः

316

सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः ।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः

317

नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च ।
अभक्ताय विभक्ताय न वाच्येयं कदाचन

318

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः

319

सर्व पापप्रशमनं सर्वोपद्रववारकम् ।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे

320

श्रुतिसारमिदं देवि सर्वमुक्तं समासतः ।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे

321

बहुजन्मकृतात्पादयमर्थो न रोचते ।
जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा

322

अहमेव जगत्सर्वमहमेव परं पदम् ।
एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम्

323

अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम्

324

यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् ।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री

325

नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् ।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि

326

नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय ।
शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय

327

सच्चिदानन्दरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये

328

सत्यानन्दस्वरूपाय बोधैकसुखकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे

329

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह

330

नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते

331

स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे

332

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे

333

पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम्

334

श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् ।
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः

335

नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसंज्ञकम्

336

नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः ।
तत्कृतासारवेदेन गुरुचित्पदमच्युतम्

337

अच्युताय मनस्तुभ्यं गुरवे परमात्मने ।
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये

338

नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे ।
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे

339

ओमच्युताय गुरवे शिष्यसंसारसेतवे ।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने

340

गुरुनामसमं दैवं न पिता न च बान्धवाः ।
गुरुनामसमः स्वामी नेदृशं परमं पदम्

341

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते

342

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्

343

शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत्

344

संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम्

345

सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः ।
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम्

346

एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् ।
इदमेव परं तत्त्वं श्रुणु देवि सुखावहम्

347

गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः ।
रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित्

348

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी ।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले

349

गुरुगीतामिमां देवि भवदुःखविनाशिनीम् ।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित्

350

रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि ।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः

351

यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम्

352

अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः ।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो

॥इति श्रीगुरुगीतायां तृतीयोऽध्यायः ॥
॥इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती
संवादे गुरुगीता समाप्त ॥
॥श्रीगुरुदत्तात्रेयार्पणमस्तु ॥

मूल पाठ: guru gītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc