गुह्यसमाजमण्डलविधि · भाग 2123
तद् उक्तम् ॥
वज्राधिपतयः सर्वे रागतत्त्वार्थचिन्तकाः ।
कुर्वन्ति रागजां बोधिं सर्वसत्त्वहितैषिनिईं ॥ 375
अतो बोध्यर्थिको मन्त्री कायवाक्चित्तचेष्टितम् ।
कर्म कुर्याद् विधानेन सर्वं तद् बोधये मतम् ॥ 376
यथा प्रविष्टशिष्येभ्यो ऽनुशंसार्थिभ्य इत्य् अपि ।
समाश्वासां त्रिसमयम् अतो दद्याद् विधानतः ॥ 377
दृष्ट्वा प्रविष्ट्वा परमं रहस्योत्तममण्डलम् ।
सर्वपापैर् विनिर्मुक्ता भवन्तो ऽद्यैव सुस्थिताः ॥ 378
न भूयो मरणं वो ऽस्ति यानाद् अस्मान् महासुखात् ।
अधृष्याश् चाप्य् अबद्धाश् च रमध्वम् अकुतोभयाः ॥ 379
निवृत्तं भवदुःखं वो ऽत्यन्तभवशुद्धये ।
संभूताः शासिनाम् अग्रा अत्यन्तभवसिद्धये ॥ 380
अयं वः सततं रक्ष्यः सिद्धः समयसंवरः ।
सर्वबुद्धैः समं प्रोक्ता आज्ञा परमशाश्वती ॥ 381
बोधिचित्तं न वै त्याज्यं यद् वज्रम् इति मुद्रया ।
यस्योत्पादनमात्रेण बुद्ध एव न संशयः ॥ 382
सद्धर्मो न प्रतिक्षेप्यो न च त्याज्यः कदाचन ।
अज्ञानाद् वाथ मोहाद् वा न वै विवृणुयात् स तु ॥ 383
स्वम् आत्मानं परित्याज्य तपोभिर् न च पीडयेत् ।
यथासुखं सुखं धार्यं संबुद्धो ऽयम् अनागतः ॥ 384
वज्रं घण्टा च मुद्रा च न वै त्याज्या कदाचन ।
अचार्यो नावमन्तव्यः सर्वबुद्धसमो ह्य् असौ ॥ 385
यो वावमन्येताचार्यं सर्वबुद्धसमं गुरुम् ।
सर्वबुद्धापमानेन स नित्यं दुःखं आप्नुयात् ॥ 386
ज्वरैर् गरैर् विषैर् रोगैर् डाकिन्युपद्रवैर् ग्रहैः ।
विघ्नैर् विनायकैर् घोरैर् मारितो नरकं व्रजेत् ॥ 387
तस्मात् सर्वप्रयत्नेन वज्राचार्यं महागुरुम् ।
प्रच्छन्नवरकल्याणं नावमन्येत् कदाचन ॥ 388
अनुरूपं च ते देयं गुरुभक्तं सदक्षिणम् ।
ततो ज्वरादयस् तापा न भूयः प्रभवन्ति हि ॥ 389
नित्यं स्वसमयः साध्यो नित्यं पूज्यास् तथागताः ।
नित्यं च गुरवे देयं सर्वबुद्धसमो ह्य् असौ ॥ 390
तद्दानात् पुण्यसंभारः संभाराद् बोधिर् उत्तमा ।286
दत्ते ऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ॥ 391
अद्य वः सफलं जन्म यद् अस्मिन् सुप्रतिष्ठिताः ।
समाः समयदेवानां भविता स्थ न संशयः ॥ 392
अद्याभिषिक्ता आयुष्मन्तः सर्वबुद्धैः सवज्रिभिः ।
त्रैधातुकमहाराज्यं राजाधिपतयः स्थिराः । 393
अद्य मारान् विनिर्जित्य प्रविष्टाः परमं पुरम् ।
प्राप्तम् अद्यैव बुद्धत्वं भवद्भिर् नात्र संशयः ॥ 394
इति कुरुत मनः प्रसादवज्रं स्वसमयम् अक्षयसौखदं भजध्वम् ।
जगति लघु सुखे ऽद्य वज्रसत्त्वप्रतिसमशाश्वतताम् गता भवन्तः ॥ 395
प्रणिपत्य गुरोः पदौ शिष्याः सद्भक्तिवत्सलाः ।
ब्रूयुर् एवं करिष्यामो यथाज्ञापयसे विभो ॥ 396
सत्य् एव संभवे तेषां प्रत्येकं वामपाणिना ।
सव्याङ्गुष्ठकम् आगृह्य शान्तिं कुर्याद् विधानतः ॥ 397
त्रिसप्ताहुतिम् एकां वा राज्ञो वा भूपतेर् अथ ।
दिक्पालस्वात्मशान्तौ च हुत्वा याचेत दक्षिणाम् ॥ 398
सर्वसत्त्वार्थकर्त्तव्ये श्रुतादौ वा प्रति प्रति ।
भूगजादिसुवर्णादौ स्वसिद्धौ वा सहायताम् ॥ 399
संगृह्य यत् तद् उत्सृष्टं संतोष्य दत्तदक्षिणान् ।
सर्वाहारविहारैस् तैः स्वपरैश् चक्रम् अर्चयेत् ॥ 400
संगृह्य योग्यसच्छिष्यान् विचित्रपरमायुभिः ।
संतर्प्य चोपसंहृत्य मुः-कारान्तैश् च त्र्यक्षरैः ॥ 401
आकारेत्यादिमन्त्रेण शून्यं तच् चक्रम् उत्तमम् ।
दत्त्वार्थिने रजः स्तोकं महत् तोये रजः सृजेत् ॥ 402
गर्त्तापूरे प्रतिष्ठायां होमे चक्रे च यद् धनम् ।
आचार्यस्यैव तत् सर्वम् इत्य् आह वरवज्रधृक् ॥ 403
इत्यादिकर्मिकस्यायम् उक्तश् चक्रविधिः स्फुटः ।
ज्ञानावेशसुलब्धस्य त्व् आवेशेनैव कथ्यते ॥ 404
द्वादशाब्दे समावेश्य संपूज्य बालबालिके ।
ताभ्यां यद् रचयेच् चक्रं चित्तवाक्कायिकं मतम् ॥ 405
चित्ते त्व् अक्षोभ्यमामक्योर् आदेशः समुदाहृतः ।
पाण्डरामितयोर् वाचि काये शाश्वतलोचने ॥ 406
चित्तवाक्कायसंस्तोभाद् रचनात् त्व् इयम् अद्भुता ।
चित्तस्तोभात् परिज्ञानं वाक्स्तोभान् मन्त्रभाषणम् ॥ 407
कायस्तोभाच् च खेस्थानं स्तोभावेशे विधिस् त्व् अयम् ।
आचार्यशिष्यसेको ऽत्र प्राङ्न्यायेनैव संस्थितः ॥ 408
प्राप्तज्ञानवशीकुर्याच् चेतसैव त्रिचक्रकम् ।
तदधिष्ठानतश् चक्रं दृश्यते स्वपरैर् यतः ॥ 409
प्रवेशो ऽत्राभ्यनुज्ञतः स्पष्टस्वप्नवद् इष्यते ।
यतस् तेनोत्तमो ज्ञेयश् चित्तमूर्तिदृढत्वतः ॥ 410
त्रियोगानाम् अपि प्राग्वद् विधिर् वाक्कायचक्रयोः ।
तत्स्थाने ऽक्षोभ्यचिह्नं स्याद् वाक्कायगुह्यशुद्धये ॥ 411
ज्ञानादिकर्मिसंवेशिसंप्राप्तवशिनाम् अपि ।
चेतसैव विधिः सर्वस् तद्धीनो नैव सिध्यति ॥ 412
वज्राचार्याग्रशिष्याणां निष्यन्दादिरतात्मनाम् ।
मनसोक्तो विधिः श्रेष्ठो वाङ्मात्रेणात्र किं भवेत् ॥ 413
वृत्तमात्रान् न बुद्धत्वं श्रुतमात्राच् च नो भवेत् ।
चिन्तयापि न यावच् च भावनातो निरुच्यते ॥ 413
यद् आह ॥
अलं बहुविसर्पिण्या कथया मन्त्रवादिनाम् ।
चेतः साध्यं विशेषेण चित्तात् संबोधिसम्भवः ॥ 414
यद् उक्तम् ॥
यत् फलं बोधिचित्तं तद् बुद्धज्ञानम् अनुत्तरम् ।
वज्रसत्त्वमयं तस्य धर्मसंभोगनिर्मितम् ॥ 415
प्राकृतकल्पनावृत्तेर् नान्यद् दुःखं भवात्मकम् ।
साक्षाद् अस्य विरोध्य् एवं प्रज्ञोपायात्म [...] 416
मूल पाठ: Guhyasamājamaṇḍalavidhi · Edition: : MS Niedersäsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257 Additional References: Dhīḥ 42 (2006:109-154) · Data entry S. Klein-Schwind · GRETIL (Göttingen) · CC BY-NC-SA 4.0