गुह्यसमाजमण्डलविधि · भाग 120
दीपंकरभद्रऽस् गुह्यसमाजमण्डलविधि
नमो वज्रसत्त्वाय ॥
ज्ञेयाद्यावृतिनिर्मुक्तं ज्ञानादर्शादिसंयुतम् ।
मञ्जुश्रीगुह्यसच्चक्रं नत्वा तद् वच्मी मत्स्मृतौ ॥ 1
श्रीमत्समाजसन्नीत्या चक्राम्नातक्रमाद् अतः ।
उदकाद्यम् अनुज्ञान्तं यो ऽभिषिक्तो गुरोस् ततः ॥ 2
तत्त्वाप्तौ गुह्यचक्रे ऽस्मिन् गुह्यप्रज्ञाभिषेकतः ।
गुह्यज्ञो योगतत्त्वज्ञस् त्रियानसन्धितत्त्ववित् ॥ 3
विद्याहृन्मन्त्रमुद्राणां समाधित्रितयस्य च ।
सामान्येतरसिद्धीनां तन्त्रनीत्या विभागवित् ॥ 4
समयसंवरस्थो वा प्रज्ञायोगसुतत्परः ।
मन्त्रतन्त्रप्रयोगज्ञो भव्यः सत्त्वार्थसाधने ॥ 5
योगधैर्यादियुक्तो ऽपि प्रोक्तैर् गुणैर् अनन्वितः ।
सत्त्वार्थे नैव भव्यो यत् सद्भिस् तैः स्युर् गुणा ह्य् अमी ॥ 6
कृपावान् सुव्रतो जापी श्राद्धो गम्भीरतत्त्ववित् ।
पूर्वसेवां स्वचक्रस्थः कृत्वा मण्डलम् आलिखेत् ॥ 7
क्वचिन् मनोऽनुगे स्थाने दिग्धे सच्चन्दनादिभिः ।
सुगन्धिकुसुमाकीर्णे प्राक् प्रअतर् विनिवेश्य च ॥ 8
विमोक्षमुखसंशुद्धौ हृदीन्दौ मं प्रभोज्ज्वलम् ।
ध्यात्वा शुभाभिवृद्ध्यर्थं प्रकुर्याद् देशनादिकम् ॥ 9
सर्वदिक्त्र्यध्वसंभूतबुद्धानां पुरतः स्थितः ।
हृद्प्रभोद्भवरूपाद्यैः पूजां कृत्वा विधानतः ॥ 10
स्वासत्संकल्पमात्रोत्थं त्र्यध्वजं दुष्कृतं कृतं ।
स्वप्नस्वप्नादिवत् सर्वं त्रिष्कृत्य देशयाम्य् अहम् ॥ 11
संबुद्धसत्सुतार्याणाम् अन्येषां यच् चुभं शुभम् ।
निःशेषम् अनुमोद्याहं संबोधौ नामयाम्य् अनु ॥ 12
याचे ऽहं सर्वबुद्धानां सर्वाशाश्वासदायिका ।
देशनाकाशसंस्थानां भातु लोके ऽखिले ऽनघा ॥ 13
शुद्धनिःशेषसंकल्पान् प्रत्यात्मानन्दवेदिनः ।
सम्बुद्धान् शरणं यामि स्वपरार्थफलप्रदान् 14
सत्सत्त्वाशेषसद्धर्मम् आगमाधिगमात्मकम् ।
सत्सम्पदाश्रयाचिन्त्यं शरणं समुपैम्य् अहम् ॥ 15
प्राप्ताश्वासम् अवैवर्त्यं निष्यन्दादिफलैर् युतम् ।
गुह्याभिषेकजं चैव गतो ऽस्मि शरणं गणम् ॥ 16
मुनीन्द्रसूनुसन्मार्गं चर्यानन्ताग्रबोधकम् ।
सर्वबुद्धात्मसद्बुद्ध्या समाश्रितो ऽस्म्य् अतो ऽधुना ॥ 17
सर्वावृतिसमुद्घात्यनन्तज्ञानामृतास्पदम् ।
भ्रमिदृष्टिप्रबोधाय बोधौ सर्वं दधे मनः ॥ 18
बोधिचित्ताच् च बुद्धत्वं फलहेतोर् असङ्गतः ।
प्रत्यात्मवेद्यधर्मत्वाच् छून्यज्ञानात्मको ह्य् अहम् ॥ 19
ओं शून्यताज्ञानवज्रस्वभावात्मको ऽहम् ।
हूङ्कारं चाप्य् अथोष्णीषान् शाश्वतादिकम् एव च ॥
रक्षार्थं क्रोधचक्रस्थो ध्यायाद् विघ्नान् प्रमर्दयन् ॥ 20
धर्मधातुं ततो ध्यायात् त्र्यश्रं शुक्लोर्ध्वसंस्थित ।
दिक्चक्रवर्तिचित्राभं अन्तःखाधोऽब्जवज्रगम् ॥ 21
तत्र भ्रूङ्कारचक्रोत्थसविद्यशाश्वतोद्भवम् ।
स्फरद्बुद्धौघखव्यापि चतुरश्रादिसंयुतम् ॥ 22
शशिसूर्यसमाक्रान्तं विश्वाब्जदेवतासनम् ।
विभक्ताशेषसद्रत्नं कूटागारं प्रभावयेत् ॥ 23
स्वरलक्षणसंयुक्तं कादिव्यञ्जनरश्मिकम् ।
मध्यचन्द्रासने चित्तं ज्ञानचन्द्रं विभाव्य तत् ॥ 24
तत्राद्यहृद्भवं वज्रं रक्तम् आद्यहृदा युतम् ।
कृतजिनाभदेह्यर्थस् तदहङ्कृतिमान् स्वयम् ॥ 25
स्फतिकेन्द्वङ्गमूलास्यं नीलसव्येतरारुणम् ।
सर्वाकारवरोदारं सद्गुणाभरणाम्बरम् ॥ 26
द्विभुजाश्लिष्टसत्प्रज्ञं वज्रपर्यङ्कसुस्थिरम् ।
वज्रखड्गभुजं सव्ये वामे सन्मणिपद्मिनम् ॥ 27
प्रज्ञोपायात्मकं श्रिमज् जगत्सम्पत्समाश्रयम् ।
समन्तभद्रम् आत्मनं भावयेत् स्फरणत्विषम् ॥ 28
महारागविनेयं तल् लोकम् आलोक्य भाजनं ।
सुरतध्वनिना स्वान्तर् जिनवृन्दं निवेशयेत् ॥ 29
तल् लोचनादिसद्विद्या रूपादिविषयात्मभिः ।
प्रोत्सृज्य नवधा देवीः स्वविद्यान्तर् निवेशयेत् ॥ 30
स्वयोषित्पद्मकर्कट्यां सुरतोद्भवमण्डलम् ।
निर्मायात्र जगत् कृत्स्नम् आश्वासाय प्रवेशयेत् ॥ 31
खव्यापिबुद्धसन्मित्रैः स्ववज्रान्तर्द्रवोद्भवैः ।
सेवयेद् अविवर्त्यर्थं तत्त्वज्ञानफलाप्तये ॥ 32
आश्वस्तं तज् जगद् दृष्ट्वा बीजैश् चातः स्वभावजैः ।
उत्सृजेत् सर्वसत्त्वांश् च जगच्चित्तात्मभावजान् ॥ 33
क्षितिगर्भादिकान् षट्कांश् चक्षुरादिस्वभावकान् ।
क्षिं ज्रं खं गं स्कं इत्य् एभिः सं-बीजाच् च यथाक्रमम् ॥ 34
रूपवज्रादिकान् षट्कान् बाह्याध्यात्मस्वभावजान् ।
जः हूं वं होः खं इत्य् एतै रं-बीजाच् च बहिः स्थितान् ॥35
लोचनाद्यास् तु ता विद्याः पृथिव्यादिस्वभावजान् ।
लां मां पां ताम् इति त्व् एभिर् जगद्धर्मात्मतत्त्वजाः ॥ 36
शाश्वताद्यांस् तु संबुद्धान् रूपादिस्कन्धस्वभावजान् ।
बुं-आं-ज्रीं-भिश् च खं-हूं-भ्यां सर्वधर्मान् समुत्सृजेत् ॥ 37
ओं आः हूं इति तच् चित्तं भास्वद्धोर्भ्यां विदर्भितम् ।
गुह्यपद्मोदरान्तस्थं मृदुनिष्यन्दशुद्धये ॥ 38
ते च रागाग्निसंदीप्ते कायद्वयद्रवीकृते ।
सन्मित्राभातदिग्देवीगीत्या ध्यायात् सुचोदनाः ॥ 39
त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिमनोज्ञा महार्थकामैः ।
कमाहि मां जनक सर्वमहाग्रबन्धो यदीच्छसे जीवितु मह्य नाथ ॥ 40
त्वं वज्रकाय बहुसत्त्वप्रियाज्ञचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शी ।
रागेण रागसमयां मम कामयस्व यदीच्छसे जीवितु मह्य नाथ ॥ 41
त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सदा संप्रवृत्त ।
कामहि मां सुरतचर्य समन्तभद्र यदीच्छसे जीवितु मह्य नाथ ॥ 42
त्वं वज्रकाम समयाग्र महाहितार्थ सम्बुद्धवंशतिलकः समतानुकम्पी ।
कामाहि मां गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवितु मह्य नाथ ॥ 43
उत्थापन्यनुरोधात् तद् द्रवं पश्यन् विपत्तिवत् ।
मायावद् वस्तु संचिन्त्य स्वमन्त्रार्थः पुनर् भवेत् ॥ 44
कुङ्कूमाकारमूलास्यो नीलसव्यसितेतरः ।
कुमाराभरणाकारः प्रज्ञानन्दैकसुन्दरः ॥ 45
द्विभुजाश्लिष्टसत्प्रज्ञः स्वाभप्रज्ञाधरास्यधृक् ।
भास्वत्कृपाणसद्बाणनीलोत्पलधनुःकरः ॥ 46
स्फरद्बुद्धौघनिर्माणनिष्पादितजगत्त्रयः ।
स्वबीजोद्भवचिह्नोत्थमञ्जुवज्रः स्वयं भवेत् ॥ 47
भवसङ्गाद् भवोऽ नन्तः शमसङ्गो विपत्तिभाक् ।
मायया कृतसंसेवो धर्मधात्वात्मको भवेत् ॥ 48
ओं धर्मधातुस्वभावात्मको ऽहम् ॥
सन्मित्रैः कृतनिष्यन्दः पाकात् सर्वज्ञताम् इयात् ।
तच्चक्षुराद्यधिष्ठानम् उपसाधनम् इष्यते ॥ 49
क्षितीशकुलिशाकाशलोकेशस्काम्भभद्रकैः ।
संपूर्य चक्षुरादीनि तद्बीजैः पौरुषं वहेत् ॥ 50
धर्मसंभोगनिर्माणवाहिनी जगदर्थता ।
चित्तगुह्याद्यधिष्ठानं साधनार्थम् अतो भवेत् ॥ 51
स्वहृत्कण्ठशिरश्चन्द्रे हूं-आः-ओं-जांश् च सत्प्रभून् ।
वज्राब्जचक्रमध्यस्थान् ध्यात्वा चित्तादिगुह्यकान् ॥ 52
तद्धृत्प्रज्ञाङ्गसङ्गार्चीरूपवज्रादिरश्मिभिः ।
संपूज्य सर्वदिक्त्र्यध्वव्याप्ताशेषविनायकान् ॥ 53
कृतार्थसंपदां तेषां ये हृत्कण्ठशिरोगताः ।
चित्तवज्रादयस् तांस् तु तदधिष्ठाने प्रयाचयेत् ॥ 54
चित्तवज्रधरः श्रीमांस् त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मे ऽद्य करोतु चित्तवज्रिणः ॥55
दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मे ऽद्य कुर्वन्तु चित्तवज्रिणः ॥56
ओं सर्वतथागतचित्तवज्रस्वभावात्मको ऽहम् ॥
धर्मो वै वाक्पथः श्रीमांस् त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मे ऽद्य करोतु वाग्वज्रिणः ॥57
दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मे ऽद्य कुर्वन्तु वाग्वज्रिणः ॥58
ओं सर्वतथागतवाग्वज्रस्वभावात्मको ऽहम् ॥
कायवज्रधरः श्रीमांस् त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मे ऽद्य करोतु कायवज्रिणः ॥ 59
दशदिक्संस्थिता बुद्धास् त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मे ऽद्य कुर्वन्तु कायवज्रिणः ॥ 60
ओं सर्वतथागतकायवज्रस्वभावात्मको ऽहम् ॥
षोडशानुस्मृतेः शुद्धौ कुर्वन्तीति तदुक्तवान् ।
तस्य चित्ताद्यधिष्ठानं नोक्तम् अप्रस्तुतोक्तितः ॥ 61
त्रिगुह्यालक्षणं वीक्ष्य मायाप्रज्ञाङ्गसङ्गतः ।
मृदुवैमल्यसंशुद्धौ महासाधनम् इष्यते ॥ 62
संचोद्य दिग्गतान् नाथान् ज्ञानसत्त्वहृदर्चिषा ।
तत्प्रभोद्भवविद्याभिर् भृतकुम्भामृताम्बुभिः ॥ 63
स्वभिषिक्तः प्रभुः श्रीमान् कुलेशमकुटोत्तमः ।
निष्यन्दाद्यैस् तथा मध्यैः स्वाभां प्रज्ञां विशोधयेत् ॥ 64
शिरोहृन्नाभिगुह्ये ऽस्याश् चरणान्ते च प्रत्यणून् ।
ओं-हूं-स्वा-हृद्भिः आः-हाभ्यां शाश्वतादिकुलात्मकैः ॥32 65
आपूर्य पञ्चसंबुद्धैः हूं-आः-अष्टदलाब्जिकाम् ।
संविशोध्य तया बुद्धान् हूं-सद्वज्रो ऽनुरागयेत् ॥ 66
ओं सर्वतथागतानुरागणवज्रस्वभावात्मको ऽहम् ॥
हृच्चन्द्रखद्गहृद्भाभिः खव्यापिबुद्धमण्डलम् ।
निवेश्यात्मनि सच्चित्तरूपम् वज्राब्जसंस्थितम् ॥ 67
निजचक्रं स्वबीजेन तत्रोत्पाद्य स्थिरीकृतम् ।
उत्सृजेद् विधिनानेन जगत्स्व् अज्ञानशुद्धये ॥ 68
संचोद्याधिपम् अक्षोभ्यं महाद्वेशार्थकृज्जिनम् ।
वज्रधृग् इति चोत्सृज्याङ्गेन्द्रनीलमणिप्रभम् ॥ 69
सितसव्येतरारक्तम् परमाद्यभुजान्वितम् ।
संहृत्यात्मनि सच्छ्रीमान् सर्वभावैर् निवेशयेत् ॥ 70
जिनजिग् इति चाद्याभं महामोहार्थकृद्विभुम् ।
सच्चक्राद्यन्वितं तद्वद् ध्यायात् पूर्वेन्दुमण्डले ॥ 71
रत्नधृग् इति रत्नेशं सुवर्णाभं समोद्यमम् ।
सद्रत्नाद्यन्वितं नाथं कुमारास्यं तु दक्षिणे ॥ 72
आरोलिग् इति वागीशं महारागार्थकृत्प्रभुम् ।
पद्मरागाभपद्माद्यां कुमारास्यं तु पृष्ठतः ॥ 73
प्रज्ञाधृग् इत्य् अमोघेशं महोग्रेर्ष्यार्थकृत्खजम् ।
वैदूर्याभं कुमारास्यं ध्यायात् खड्गाद्यम् उत्तरे ॥ 74
सजटामुकुटाः सर्वे स्वविद्याद्वयसन्गिणः ।
सर्वाभरणसद्वस्त्रा ध्येयाः पद्मार्कमण्डले ॥ 75
मोहरतीति चाग्नेयां कृपोपायजनार्थदा ।
कायेशवत्स्वरूपा स्याल् लोचना स्वेन्दुमण्डले ॥ 76
द्वेषरतीति नैरृत्यां मैत्रीप्रणिधिकामदा ।
चित्तेशवद्रतौत्सुक्या मामकी चन्द्रमण्डले ॥ 77
रागरतीति वायव्यां मोदबलसमाधिदा ।
वागीशाभार्थशुद्धा सा पाण्डरा चन्द्रमण्डले ॥ 78
वज्ररतीति चैषान्याम् उपेक्षज्ञानसाधिका ।
रत्नेशवत्स्वरूपा स्याच् चन्द्रे तारा मनोरमा ॥ 79
चक्रं रक्तोत्पलं दिव्यं पङ्कजं पीतं उत्पलम् ।
शिष्टं स्वाधिपवद् दिष्टं चिह्नम् आसां क्रमाद् अतः ॥ 80
आग्नेयादिचतुःकोणे पूर्वद्वारद्विपार्श्वयोः ।
रूपाद्या दर्पणाद्यैः स्युः कायाद्याभास् त्रितत्त्वतः ॥ 81
प्राग्द्वारे क्रोधपर्यङ्कश् चित्तेशाकारभासुरः ।
यमान्तकृद् इतीतिघ्नः स्कन्धज्ञेयविनाशतः ॥ 82
कायेशाभोग्रदृग् भीमो ऽवाग्द्वारे ऽपराजितः ।
प्रज्ञान्तकृद् इतीच्छाघ्नः स्वात्मदृक्क्लेशहानितः ॥ 83
मृत्युजन्माघसां घाती पृष्ठद्वारे ऽश्वकन्धरः ।
पद्मान्तकृद् इतीच्छाघ्नो वागीशाभोग्रघूर्णितः ॥ 84
अक्षोभ्याभोग्रविघ्नघ्न उत्तरे ऽमृतकुण्डलिः ।
विघ्नान्तकृद् इति द्वारक्रियासुरारिशुद्धितः ॥ 85
भ्रूभङ्गोर्ध्वज्वलत्केशबभ्रुभ्रूश्मश्रुलोचनाः ।
व्यावृताश्या ललज्जिह्वाः सदंष्ट्रोत्कटहासिनः ॥ 86
चण्डमुद्गरदण्डाब्जस्ववज्रादिकरास् त्व् अमी ।
क्रूरभुजङ्गभूषाङ्गाः स्वाभविद्याङ्गसङ्गिनः ॥ 87
निष्पन्नं चक्रम् आलोक्य निजभावेन सर्वतः ।
हृद्बीजाभाङ्कुशैर् बुद्धांश् चक्राकारसमाहृतान् ॥ 88
दृष्ट्वा विघ्नान् स्वविघ्नघ्नैः समुत्सार्याभिरक्ष्य च ।
दत्त्वार्घं मन्त्रसंजप्तं चन्द्रादिकुसुमान्वितम् ॥ 89
चक्रे निवेश्य तच् चक्रं चक्षुःकायाद्यधिष्ठितम् ।
प्राग्वत् सिक्तं च तद् ध्यायान् निष्यन्दाद्यधिमात्रतः ॥ 90
बुद्धानां मकुटे ऽक्षोभ्यः शेषाः स्वाधिपसेकिनः ।
कायेशाक्षोभ्यवागीशचित्तेशैर् द्वारिणो मताः ॥ 91
इत्य् आसिच्य स्वहृद्भाभिः प्रज्ञाब्जान्तर्निवेशितम् ।
रूपाद्यं रोमकूपोत्थं रूपवज्रादिरश्मिभिः ॥ 92
कूटागारप्रभोन्मुक्तैर् गगनान्तःप्रसर्पिभिः ।
सम्पूज्य स्वं मुनीन्द्रांश् च पूज्यपूजात्मको भवेत् ॥ 93
ओं सर्वतथागतपूजावज्रस्वभावात्मको ऽहम् ॥
सर्वधर्मैः स्तुयाच् चक्रं संबुद्धस्वात्ममूर्तिभिः ।
पञ्चज्ञानानि मुद्राभिः शतपञ्चकुलं त्रिकम् ॥ 94
अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध ।
त्रिमण्डल त्रिवज्राग्र घोषवज्र नमो ऽस्तु ते ॥ 95
वैरोचन महाशुद्ध वज्रशान्त महारते ।
प्रकृतिप्रभास्वराग्राग्र्य देशवज्र नमो ऽस्तु ते ॥ 96
रत्नराज सुगाम्भीर्य खवज्राकाशनिर्मल ।
स्वभावशुद्ध निर्लेप कायवज्र नमो ऽस्तु ते ॥ 97
वज्रामित महाराज निर्विकल्प खवज्रधृक् ।
रागपारमिताप्राप्त भाषवज्र नमो ऽस्तु ते ॥ 98
अमोघवज्र संबुद्ध सर्वाशापरिपूरक ।
शुद्धस्वभावसंभूत वज्रसत्त्व नमो ऽस्तु ते ॥ 99
चन्द्रार्कवारिभैषज्यगन्धं वाय्वग्निचक्रगम् ।
प्रणवाधिष्ठितं सार्चिस् त्रितत्त्वैर् अभिमन्त्रितम् ॥ 100
हूंन्यस्तवज्रसज्जिह्वो ध्यात्वा ज्ञानामृतैर् भृतम् ।
हृच्चन्द्रान्तर्गताशेषचक्रं तेन प्रतर्पयेत् ॥ 101
हृद्रश्मिनिर्मितैर् नाथैः स्वासत्संकल्पवर्जितैः ।
बुद्धात्मकं जगत् कृत्वा हृद्बीजान्तर् निवेशयेत् ॥ 102
हृच्चिह्नवरटान्तस्थं चन्द्रहृद्बिन्दुरूपकम् ।
प्रभास्वत् स्वमनो ध्यात्वा ज्ञानसत्त्वं प्रभासयेत् ॥ 103
चित्तवाक्कायवज्रं च प्रबोध्य रश्मिमालया ।
निविष्टां हृदि तां ध्यायात् स्वज्ञानामृतवाहिनीम् ॥ 104
अन्तस् तनुम् अतः सर्वां तयाभास्य समन्ततः ।
प्रतिरोमप्रभाव्यूहैर् जगदर्थं प्रपूरयन् ॥ 105
ध्यात्वा सूक्ष्मं स्वचिह्नं वा विद्यानासाग्रसंस्थितम् ।
मुनिचक्रं स्वसंवेद्यं सत्प्रज्ञासङ्गभास्वरम् ॥ 106
दृष्त्वा स्थैर्यनिमित्तं तु स्फरणं तद्रश्मिनिमित्तैः ।
बुद्धैर् नानाविधैश् चिह्नैर् विदधीत पुनः पुनः ॥ 107
कायवाक्चित्तसद्वज्रात् पञ्चसज्ज्ञानरश्मिकम् ।
स्फरन्मन्त्रं जपं कुर्याद् युगपत् क्रमशो ऽथवा ॥ 108
वज्राब्जधर्मतच्चक्रं कायवाक्चित्तवज्रगम् ।
निलयं तद् दृढीकुर्वञ् ज्ञानकायं स्फरञ् जपेत् ॥ 109
उच्चारयेत् स्फरन् प्राणैर् मन्त्रम् आयामसंहृतम् ।
कायादिस्फारसंहारैः कुर्याज् जापं क्रमाक्रमात् ॥ 110
उच्चार्यैवं वियद् व्याप्य कायाद्यैस् तैः स्वरश्मिभिः ।
प्राग्वत् सच्चित्तपूजार्हं प्राणाद् विद्यौघम् उत्सृजन् ॥ 111
परिगूढोल्लसद्विद्यासुखावेशवशीकृतम् ।
आयामाज्ञानबुद्धौघं स्वात्मन्य् अन्ते निवेशयेत् ॥ 112
निष्यन्दाद्यधिमोक्षैश् च बिन्दुसूक्ष्मत्रिगुह्यजाः ।
ध्येया मृद्वादिभिर् भेदैर् योगाः सेवादिवत् तथा ॥ 113
स्वहृत्तत्त्वपरामर्षात् परीत्तचित्तसंसृतेः ।
लोचनादिगणोद्गीतैश् चक्रम् अभ्यर्थ्य पूजयेत् ॥ 114
मूर्ध्नीन्दुप्रणवार्द्रां तु सचित्तवारिवाहिनीम् ।
विधिवत् पातयन् कुर्यात् कायवाक्चित्तप्रीणनम् ॥ 115
विश्रम्यैवं जपं कृत्वा कृतपूजादिको बुधः ।
त्रितत्त्वात्माहितान् बुद्धान् गतसङ्गो विसर्जयेत् ॥54 116
एवं तत्त्वदृशा मुक्तं जगत् कृत्स्नं विलोक्य च ।
प्रणिधिम् आमुखीकुर्यात् कृपया तद्धिताय च ॥ 117
समाधितः समुत्थाय गर्वं पत्युः समुद्वहन् ।
चारगतस् तु संबुद्धविषयैः संप्रपूजयेत् ॥ 118
श्रीमञ्जुवज्रसर्वात्मा स्वभावविषयानुगान् ।
विषयान् भावयन्न् एवं स्वस्वशुद्ध्या प्रतिष्ठितान् ॥ 119
शाश्वतादिस्वभावांस् तान् प्रत्यात्मधर्मसंस्थितान् ।
श्रीमद्वज्रधराकारान् शुद्धसत्त्वसमन्वितः ॥ 120
सर्वं संपादयेत् कृत्यं स्वासत्संकल्पवर्जितः ।
सच्चक्रानन्तपूजेयं सदामेया सुयोगिनः ॥ 121
स्वहृच्चन्द्रे स्वचक्रेशं निजबीजैः स्वभोजनम् ।
समालम्ब्य स्वहृत्तत्त्वैः सर्वबुद्धामृततायितम् ॥ 122
सर्वधर्मतया शुद्धं त्रितत्त्वैर् अभिमन्त्रितम् ।
स्वाधिदैवतसच्चक्रं प्रीणयंस् तेन पूजयेत् ॥ 123
होमो बाह्यो ऽनुमेयो ऽयं चित्तमात्रात् तु मानसः ।
अनुत्तरस् त्व् अयं ज्ञानाग्निस्कन्धेन्धनदाहतः ॥ 124
कामैर् एवं समस्तैः स्वं स्वदैवात्मस्वभावजम् ।
परांश् च पूजयेद् एवं समयः सुगतैर् मतः ॥ 125
तत् तत् कायादि यत् कर्म सर्वबुद्धांस् तु पूजयन् ।
अनुरूपं जगत् कार्यं कुर्यान् नित्यं समाहितः ॥ 126
यत् कायवाङ्मयं कर्म मुद्रामन्त्रात्मकं महत् ।
तत् तत् कर्म समासाद्य सर्वबुद्धांस् तु पूजयेत् ॥ 127
वस्तुन्य् एकत्र संकल्पा नानाकारावभासिनः ।
मुक्तिदुःखसुखोत्पादाः कर्माशेषा भवन्ति यत् ॥ 128
तस्माच् छुभाशुभं कर्म कायाद्यं कल्पनोद्भवम् ।
सर्वसत्कल्पनिर्मुक्ते ज्ञाने तत्कल्पना कथम् ॥ 129
अमोघवज्रसच्चक्री समयोत्थापनाय तु ।
हृत्कर्मवज्रखं ध्यात्वा सर्वशुद्ध्याभिषेचयेत् ॥ 130
गुर्ववज्ञादिके दोषे सदानं भोज्यम् आवहेत् ।
बाह्यस्नानं स्वचक्रस्थः कुर्यात् सेकविधानतः ॥ 131
सन्ध्यान्तरे ऽपि पूजादि जपं कृत्वा तु पूर्ववत् ।
हृद्यन्तर्गतसच्चक्रः सुप्यात् प्रज्ञाकृपान्वितः ॥ 132
उत्थानसमये श्रीमान् देवीसंगीतिचोदितः ।
प्रातर् उत्थाय प्राग्वत् तु संजपेद् आदिकर्मिकः ॥ 133
मन्त्रसीलव्रतैर् युक्तश् चक्षुःकायाद्यधिष्ठितः ।
ज्ञाने किञ्चित्समावेशी जपेत् सन्ध्यास्व् अतन्द्रितः ॥ 134
सर्वाकारसुनिष्पन्नं स्फरत्सम्हारकारकं ।
प्राप्तज्ञानवशी किञ्चिद् अनिशं योगम् आश्रयेत् ॥ 135
सम्यग्ज्ञानवशी ध्यायन् कुर्यात् कार्यं जगद्धितम् ।
धात्वण्वन्तस् त्रिसच्चक्रैः प्रतिबिम्बात्ममूर्तिभिः ॥ 136
संसिद्धाव् असकृल् लब्ध्वा योगी निमित्तम् एव तु ।
त्रितत्त्वां विधिवत् पूजां कृत्वा मण्डलम् आलिखेत् ॥ 137
चक्रस्थो विधिवज् जप्त्वा स्वयं वाध्येषितो ऽपि वा ।
परार्थं घटमानो ऽपि निमित्तं प्राप्य संलिखेत् ॥ 138
चक्रिमन्त्रं जपेल् लक्षं लक्षम् वा स्वाधिदैवतम् ।
अन्येषाम् अयुतं सम्यक् चक्रिणां वाज्ञया लिखेत् ॥ 139
त्रितत्त्वैर् गर्भितोत्सर्गान् अन्यान् हृद्बीजगर्भितान् ।
सानुस्वाराद्यवर्णांस् तु नाम्नो मन्त्रान् समुद्धरेत् ॥ 140
कायवाक्चित्तगुह्याख्या कर्मधर्ममहात्मिका ।
त्रिगुह्या समया मुद्रा बीजं हृदयम् उच्यते ॥ 141
कर्मकर्त्री तु विद्योक्ता शान्त्यादिप्रतिचोदनात् ।
मालामन्त्राश् च विद्योक्ता सर्वथा तां जपेत् बुधः ॥ 142
यथायोगं जपं कृत्वा लब्ध्वाज्ञां स्वाधिपादितः ।
निरोधचक्रम् आभुज्य स्वचित्तशुद्धितो लिखेत् ॥ 143
विघ्नान् उत्सार्य संकील्याभ्युक्ष्य क्ष्मां प्रार्थ्य याचयेत् ।
समाधित्रितयं कृत्वा बुद्धादीन् अधिवास्य च ॥ 144
दत्त्वा बल्यर्घम् आपूज्य होमैर् आप्याय्य खे न्यसेत् ।
खानयेत् क्ष्मां सुनिर्विघ्नां गर्तापूरे ऽपि अयं क्रमः ॥ 145
आचीर्णपूर्वसंसेवो मञ्जुवज्रात्मयोगवान् ।
संस्कृत्य मण्डलस्थानं संहार्यैः पूजयान्वितः ॥ 146
विघ्नारिचक्रयोगस्थः स्वाभिषेकं समादधेत् ।
दुष्टान् निकृन्तयेद् एवं योगाद् वा स्वाधिदैवतात् । 147
ओं भूः खम् इति मन्त्रेण वियद्भूतां वसुन्धराम् ।
हूं लं हूं इति वज्रात्म क्ष्मां कृत्वा ताम् अधिष्ठयेत् ॥ 148
ओं मेदिनि वज्रीभव वज्रबन्ध हूम् ॥
प्राग्वद् विघ्नघ्नयोगात्मा सेवाद्यन्तानुरागणः ।
आदियोगी स्वचक्रं तु प्रोत्सृज्यान्तामृतश् च सः ॥ 149
चक्रराजाग्रियोगात्मा चक्रकर्मसुकर्मकृत् ।
कर्मराजाग्रियोगीति समाधित्रयम् उत्तमम् ॥ 150
एतद्योगस्थ आचार्यः सर्वबुद्धात्ममूर्तिकः ।
स्वभावशुद्धवज्रात्मा चक्रभूमध्यसंस्थितः ॥ 151
वज्रघण्टाधरो वीरो ऽध्येष्यस् त्रिचक्रनिर्मितौ ।
सहायैर् वज्रघण्टाग्रैः शाश्वताद्यात्ममूर्तिभिः ॥ 152
सर्वताथागतं शान्तं सर्वताथागतालयम् ।
सर्वधर्माग्रनैरात्म्यं देश मण्डलम् उत्तमम् ॥ 153
सर्वलक्षणसंपूर्णं सर्वालक्षणवर्जितम् ।
समन्तभद्रकायाग्रं भाष मण्डलम् उत्तमम् ॥ 154
शान्तधर्माग्रसंभूतं ज्ञानचर्याविशोधकम् ।
समन्तभद्रवाचाग्रं भाष मण्डलम् उत्तमम् ॥ 155
सर्वसत्त्वमहाचित्तं शुद्धं प्रकृतिनिर्मलम् ।
समन्तभद्रचित्ताग्र्यं घोष मण्डलसारथे ॥ 156
वीक्ष्यातो मञ्जुराड् क्रुद्धः सत्त्वधातुं तमिश्रितम् ।
हूं वज्रोत्तिष्ठेति स्वक्षश् चक्रम् उत्क्षिप्य निर्मितम् ॥ 157
मट्कारचन्द्रशूर्याक्षः सर्वाध्वदिक्षु दीपयन् ।
जगद् आलोकयन् धीमांश् चक्रभूमौ परिक्रमेत् ॥ 158
पादतलज्वलद्वज्रो वज्रोल्लालनतत्परः ।
लीलावज्रपदं नृत्यन् सदंष्ट्रोत्कट-हूं-कृतः ॥ 159
प्रोत्सारयेत् प्रदुष्टौघान् देवाद्यान् विघ्नमण्डलान् ।
शृण्वन्तु सर्वविघ्नौघाः कायवाक्चित्तसंस्थिताः ॥ 160
अहं मञ्जुरवः श्रीमान् रक्षाचक्रप्रयोजकः ।
वज्रेणादीप्तवपुषा स्फालयामि त्रिकायजान् ॥ 161
लङ्घयेद् मे विशीर्येतात्र नान्यथा ।93
भूमेः परिग्रहं कृत्वा निर्विघ्नाय प्रकीलयेत् । 162
ओं घ घ घातय 2 सर्वदुष्टान् फट् कीलय 2 सर्वपापान् फट् हूं हूं हूं वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टकायवाक्चित्तवज्रं कीलय हूं फट् ॥
अधःशूलोर्ध्वविघ्नारिं धिया मध्ये प्रकीलयेत् ।
विघ्नौघान् घातयेत् सर्वान् दशदिक्संव्यवस्थितान् ॥ 163
संवीक्ष्य क्ष्मां सुनिर्विघ्नां तीक्ष्णज्वालाकुलप्रभाम् ।
सीमाप्राकारदिग्बन्धान् धिया कृत्वाधिवासयेत् ॥ 164
त्वं देवि साक्षिभूतासि सर्वबुद्धानां तायिनाम् ।
चर्यानयविशेषेषु भूमिपारमीतासु च ॥ 165
यथा मारबलं भग्नं शाक्यसिंहेन तायिना ।
तथा मारबलं जित्वा मण्डलं लेलिखाम्य् अहम् ॥ 166
क्ष्मां संलिप्य सुगन्धद्यैश् चित्रैः पुष्पैः प्रकीर्य च ।
चन्द्राद्यैश् चक्रिणां स्थाने प्रकुर्यान् मण्डलं बुधः ॥ 167
तत्रावाह्य तु सच्चक्रं कृत्वा सीमादिबन्धनम् ।
पूजास्तुत्यामृतास्वादं कलशान् अधिवासयेत् ॥ 168
वस्त्राच्छादितसद्ग्रीवांश् चूतादिपल्लवान्वितान् ।
कलशान् माण्डलेयानां तन्मन्त्रैर् अधिवासयेत् ॥ 169
पञ्चव्रीह्यौषधीरत्नगन्धाम्बुचक्रसंचयम् ।
श्रग्बद्धवज्रमूर्धानं चक्रेशेन जपं जपेत् ॥ 170
अर्घं दत्त्वा समापूज्य प्रक्षिप्य सितपुष्पकम् ।
धूपाधिवासितं तत्र सद्गन्धाद्यब्जभाजनम् ॥ 171
प्रतिदिनं त्रिसन्ध्यासु बलिं दत्त्वा तथा जपेत् ।
ते च चक्रबहिष्कोणे जयश् चक्रेशसव्यतः ॥ 172
तेभ्यो ऽर्घभाजने तोयं क्षिप्त्वा तेनाभिषेचनात् ।
आत्मनः सर्वशिष्याणां जलाभिषेचनं भवेत् ॥ 173
चक्रपूजां पुनः कृत्वा धूपम् उत्क्षिप्य पाणिना ।
चक्रेशं प्रार्थयेद् धीमान् बुद्धांश् च जानुसंस्थितः ॥ 174
भगवन् मञ्जुसद्वज्र विद्याराज नमो ऽस्तु ते ।
इच्छामि लिखितुं नाथ मण्डलं करुणात्मक ॥ 175
शिष्याणाम् अनुकम्पायै युष्माकं पूजनाय च ।
तन् मे भक्तस्य भगवन् प्रसादं कर्तुम् अर्हसि ॥ 176
समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः ।
फलस्था बोधिसत्त्वाश् च याश् चान्या मन्त्रदेवताः ॥ 177
देवता लोकपालाश् च भूताः सम्बोधिशासिताः ।
शासनाभिरताः सत्त्वा ये केचिद् वज्रचक्षुषः ॥ 178
अमुको ऽहं महावज्री मञ्जुश्र्युदयमण्डलम् ।
लिखिष्यामि जगच्छुद्ध्यै यथाशक्त्युपचारतः ॥ 179
अनुकम्पाम् उपादाय सशिष्यस्य तु तन् मम ।
मण्डले सहिताः सर्वे सांनिध्यं कर्तुम् अर्हथ ॥ 180
निमन्त्र्यैवं त्रिवारांस् तान् कृत्वा पूजादिकं विभोः ।
समारक्ष्य बहिर् गत्वा स्वशिष्यान् स्रक्करग्रहान् ॥ 181
मनीषिणो महोत्साहान् कृतज्ञनिरहङ्कृतान् ।
कुलिनो गुणिनः श्राद्धान् रूपवर्णवयोन्वितान् ॥ 182
अर्थिनश् चाभियुक्तांश् च सौगतान् मन्त्रसाधने ।
विरूपान् निर्गुणांश् चापि हीनान् अप्य् अधिवासयेत् ॥ 183
चतुर्णाम् अप्य् अनुज्ञातः पर्षदां मण्डले विधिः ।
शिक्षासु स्वासु युक्तानां महायानरतात्मनाम् ॥ 184
मन्त्रसिद्ध्यर्थिनः केचित् प्रविशन्तीह मण्डले ।
पुण्यकामास् ततो ऽन्ये च परलोकार्थिनो ऽपरे ॥ 185
परलोकं समुद्दिष्य श्रद्धां कृत्वा च भूयसीम् ।
प्रविशेन् मण्डलं धीमान् नैहिकम् फलम् ईहयेत् ॥ 186
ऐहिकं काङ्क्षमाणस्य न तथा पारलौकिकम् ।
परलोकार्थिनः पुंसः पुष्कलं त्व् ऐहिकं फलम् ॥ 187
एवम् उक्त्वा तु तान् शिष्यान् धिया स्वान्तर् निवेशितान् ।
प्राग्वद् वज्राब्जसंशुद्धान् इह द्वारे तु याचयेत् ॥ 188
त्वम् मे शास्ता महारत
इच्छाम्य् अहं महानाथ महाबोधिनयं दृढम् ॥ 189
देहि मे समयं तत्त्वं बोधिचित्तं च देहि मे ।
बुद्धं धर्मं च संघं च देहि मे शरणत्रयम्
प्रवेशयस्व मां नाथ महामोक्षपुरं वरम् । 190
त्रिर् उच्चार्य च तान् शिष्यान् ज्ञात्वा सद्भक्तिवत्सलान् ।
प्रधानं शिष्यम् एकं तु कृत्वा ब्रूयाद् इदं वचः ॥ 191
एहि वत्स महायानं मन्त्रचर्यानयं विधिम् ।
देशयिष्यामि ते सम्यक् भाजनस् त्वं महानये ॥ 192
बुद्धास् त्रियध्वसंभूताः कायवाक्चित्तवज्रिणः ।
संप्राप्ता ज्ञानम् अतुलं वज्रमन्त्रप्रभावनैः ॥ 193
मन्त्रप्रयोगम् अतुलं येन भग्नं महाबलम् ।
मारसैन्यं महाघोरं साक्यसिंहादिभिर् वरैः ॥ 194
लोकानुवृत्तिम् आगम्य चक्रं प्रवर्त्य निर्वृताः ।
तस्मान् मतिम् इमां वत्स कुरु सर्वज्ञताप्तये ॥ 195
देशनादिंस् त्रिधालाप्या बोधिचित्तं ततो गुरुः ।
उत्पादयेद् अनुत्पन्नम् उत्पन्नं स्मारयेत् पुनः ॥ 196
सर्वकर्मकृतारक्ष्य ध्यायाद् धृत्कण्ठमूर्धसु ।
वज्रं अब्जं तथा चक्रं हूं आः ओं तेषु विन्यसेत् ॥ 197
गन्धाम्बुवज्रसन्मुष्ट्या हूं ओं आः एवं आपठन् ।
हृच्छिरःकण्ठम् आलभ्य दद्यात् पुष्पादिकं क्रमात् ॥ 198
पुष्पं मूर्ध्नि पुरो धूपं दीपं गन्धं पुनर् हृदि ।
दद्यात् सर्वकृता जप्तं शिष्येभ्यो यतिर् आदरात् ॥ 199
द्वादशाङ्गुलपुष्पाग्रम् अकीटापाटिताव्रणम् ।
अश्वत्थोदुम्बुरावक्रं प्रदद्याद् दन्तधावनम् ॥ 200
प्रागुदङ्मुखसंस्थैस् तैः खादयित्वैव प्रक्षिपेत् ।
गोचर्ममात्रभूलिप्ते सिद्धिं शान्त्यादिकां दिशेत् ॥ 201
आचम्य त्रिचलुपानं दत्त्वा बाह्ये निवेश्य च ।
कुशान् शय्योपधानाय बाहुसूत्रैः सुरक्षयेत् ॥ 202
त्रिचलुपानमन्त्रः ॥
ओं ह्रीः विशुद्धधर्म सर्वपापानि चास्य शोधय सर्वविकल्पान् अपनय हूम् ॥
सर्वज्ञानां कदा लोके सम्भवो जायते न वा ।
उदुम्बरस्येव कुसुमं कदाचित् कर्हिचिद् भवेत् ॥ 203
ततो ऽपि दुर्लभोत्पादो मन्त्रचर्यानयस्य हि ।
येन सत्त्वार्थम् अतुलं कर्तुं शक्ता ह्य् अनिर्वृताः ॥ 204
अनेककल्पकोटीभिर् यत् कृटम् पापकम् पुरा ।
तत् सर्वं हि क्षयं याति दृष्ट्वा मण्डलम् ईदृशं ॥ 205
किम् उतानन्तयशसां मन्त्रचर्यानये स्थितः ।
पदं ह्य् अनुत्तरं याति जपन् वै मन्त्र तायिनाम् ॥ 206
उच्छिन्ना दुर्गतिस् तेषां सर्वदुःखस्य सम्भवा ।
येषां चर्यावरे ह्य् अस्मिन् मतिर् अत्यन्तनिर्मला ॥ 207
अद्य युष्माभिर् अतुला लाभा लब्धा महात्मभिः ।
येन यूयं जिनैः सर्वैः सपुत्रैर् इह शासने ॥ 208
सर्वे परिगृहीता स्थ जायमाना महात्मभिः ।
तेन यूयं महायाने श्वो जाता हि भविष्यथ ॥ 209
एष मार्गवरः श्रीमान् महायानमहोदयः ।
येन यूयं गमिष्यन्तो भविष्यथ तथागताः ॥ 210
कृत्वाथ देशनां रक्षां स्वापयेत् कुशसंस्तरे ।
यत् किञ्चित् पश्यथ स्वप्ने प्रातर् मे कथयिष्यथ ॥ 211
रक्षाधिष्ठादिकं कृत्वा तज् जपेत् सार्वकर्मिकम् ।
पञ्चकुलत्रिचक्राणां कुण्डलिः सार्वकर्मिकः ॥ 212
पृष्ट्वा शुभाशुभं स्वप्नं हत्वा कुण्डलिनाशुभम् ।
शिष्यान् संरक्ष्य तान् योग्यान् संवरं ग्राहयेत् ततः ॥ 213
चक्रे ऽवैवर्त्यसंसेकं दत्त्वा नाथ वदस्व मे ।
चक्रदेवतयोस् तत्त्वम् आचार्यपरिकर्म च ॥ 214
समयं सर्वबुद्धानां संवरं गुह्यम् उत्तरम् ।
आचार्यः स्याम् अहं नित्यं सर्वसत्त्वार्थकारणात् ॥ 215
आचार्यतार्थिनः शिष्यान् ग्राहयित्वा तु संवरम् ।
योगम् आधाय सच्चक्रं संपूज्य खे धिया न्यसेत् ॥ 216
शाश्वतादिस्वरूपाभं तद्वर्णबीजसंभवम् ।
पञ्चज्ञानान्वितं सूत्रं पञ्चविंशतिभेदितम् ॥ 217
यःकारसूर्यचन्द्राक्षो मञ्जुवज्रात्मविग्रहः ।
दीप्तदृष्ट्यङ्कुशाकृष्तं स्ववर्णान्तर् निवेशितम् ॥ 218
वैरोचनादिहृज्ज्ञानसूत्रं सर्वकृता सह ।
प्रयच्छ शाश्वत सूत्रं स्वचक्रसूत्रणाय च ॥ 219
त्रितत्त्वगर्भितं चैव यावद् अक्षोभ्यम् अर्थयन् ।
अन्योन्यानुगताः सर्वधर्मा इत्याद्य् अनुस्मरन् ॥ 220
चक्रद्विगुणतो दीर्घं द्वारविंशतिभागिकम् ।
पञ्चामृतसुगन्धेन तेमयित्वापि रक्षितं ॥ 221
त्र्यक्षरान्तर्गतं योगी चालयेत् सूत्रधारिणा ।
त्रिर् ज्जःकारैस् तम् आप्रेष्य ज्जः ज्जः ज्जः इत्य् अपि स्वयं पुनः ॥ 222
वाममुष्टिग्रहो नाभौ प्रतीच्यवाग्दिशि स्थितः ।
खसूत्रं पातयेच् छ्रीमांस् तथैवाधः प्रसूत्रयेत् ॥ 223
ओं वज्रसमयसूत्रं मातिक्रम हूं ॥
सत्त्वार्थे भवतां कालो वियद्व्यापितथागतान् ।
चोदयेत् सूत्रध्वनिना तद् इहागमनाय तु ॥ 224
यक्षप्रेतेन्द्रनागेशदिङ्मुखो ऽग्न्यनिलाश्रितः ।
प्राक्प्रतीच्युत्तरावाक्चतुर्दिग्बहिः प्रसूत्र्य च ॥ 225
कोणसूत्रं समासूत्र्य चाग्नेयनैरृतिस्थितः ।
प्राक्प्रतीच्युत्तरावाग्दिक् तथैवाष्टकमण्डलम् ॥ 226
द्विगुणीकृत्य तत् सूत्रं चक्रमध्ये विधार्य च ।
चक्राकारं ततो बाह्यं वज्रसूत्रद्वयं पुनः ॥ 227
ऐशान्यां चक्रवाडं च स्वानुपूर्व्या प्रदक्षिणात् ।
सूत्रेण सूत्रयेत् प्राज्ञः सर्वदिक्समतां वहन् ॥ 228
अनिमित्तैर् असिद्धिः स्यात् सूत्रच्छेदे गुरोः क्षयः ।
हीनाभिरिक्ततो रोगा दिङ्मोहे शिष्यविभ्रमः ॥ 229
चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् ।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ 230
कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस् तु सूत्रयेद् बाह्यमण्डलम् ॥ 231
तस्याभ्यन्तरतश् चक्रम् अष्टमण्डलकोपमम् ।
अर्धेन बाह्यचक्रस्य समन्तात् परिमण्डलम् ॥ 232
चक्रस्तम्भाद्यरचितं वज्रावल्यावृतं शुभम् ।
विभजेच् च ततो द्वारं ह्रीःकारक्रोधदृष्टितः ॥ 233
चक्राष्टभागिकं द्वारं वेदिकारहितं मतम् ।
द्वारप्रमाणा निर्यूहा देवतापट्टिकास् तथा ॥ 234
द्वारार्धा सर्वतो वेदी कपोलः पक्षकस् तथा ।
हरार्धहारचन्द्रार्का पट्टस्रग्दामपट्टिकाः ॥ 235
रजोभूमिस् तदर्धेन मूलसूत्रभुवो बहिः ।
चक्राद्यस्तम्भसूत्राणां भूमिस् तुल्या रजोभुवा ॥ 236
तोरणं त्रिगुणं द्वारात् पताकाघण्टयान्वितम् ।
सघण्टा मारुतोद्धूटा पताका बाह्यकोणतः ॥ 237
चक्रानुरूपतो ऽन्येषां यथाशोभं प्रकल्पना ।
संबुद्धज्ञानकायत्वाद् वाग्मी वज्रकुले स्मृतः ॥ 238
धर्मकायात्मसंशुद्धौ चित्तमण्डलम् अस्य तु ।
सत्त्वाशयं समासाद्य मानादिनियमः कृतः ।
प्रज्ञोपायोद्भवा सिद्धिर् जात्यादिनियमेन किम् ॥ 239
तद् एकहस्तम् आरभ्य यावद् धस्तसहस्रकम् ।
एवम् आसूत्र्य तच् चक्रं दीप्तदृष्ट्या रजांसि तु ।
प्राक्क्रमज्ञानसद्दीप्त्या समुत्तेज्याभिमन्त्रयेत् ॥ 240
ओं वज्रचित्र समय हूम् ॥
धर्मधातुर् अयं शुद्धः सत्त्वधातुप्रमोचकः ।
स्वयं मञ्जुरवो राजा सर्वतथागतालयः ॥ 241
सर्वदोषविनिर्मुक्तश् चक्राभ्यन्तरसंस्थितः ।
ऐशानीं दिशम् आश्रित्य गुरुर् वामेन मुष्टिना ॥ 242
श्वेतं पीतं तथा रक्तं हरितं कृष्णम् एव च ।
समप्रदक्षिणाच्छिन्नावक्रां रेखां प्रपातयेत् ॥ 243
समां च पातयेद् रेखां द्वारविंशतिभागिकाम् ।
स्थूलपाते भवेद् व्याधिः कृशया धननाशनम् ॥244
विद्वेषो वक्रया मृत्युश् छिन्नया गुरुशिष्ययोः ।
अप्रदक्षिणपाते तु रजसां कीलनं भवेत् ॥ 245
श्वेतवज्रमयी सूची सौवर्णालम्बनापरा ।
पद्मरागमयी सूची तथा मरकतापरा ॥ 246
कृष्णाभ्यन्तरतो ज्ञेया एष रङ्गक्रमो ऽस्य तु ।
पूर्वेण तु महाश्वेतं दक्षिणे पीतसंयुतम् ॥ 247
लोहितं पश्चिमभागं मञ्जिष्ठोत्तरसंयुतम् ।
मध्यतो भूमिभागं तु इन्द्रनीलप्रभास्वरम् ॥ 248
प्रज्ञोपायात्मको नित्यं संलिखेत् सुसमाहितः ।
यवमात्रान्तरा रेखा पातनीय परस्परम् ॥ 249
कुण्डलामृतवज्रेण सर्वदुष्टान् प्रमर्दयन् ।
महामुद्रास्य दम्ष्ट्रोक्ता दुष्टशत्रुश् च मन्त्रराड् ॥ 250
नमः समन्तकायवाक्चित्तवज्राणां नमो वज्रक्रोधाय महादंष्ट्रोत्कटभैरवाय असिमुषलपर्शुपाशहस्ताय ओं अमृतकुण्डलि ख 2 खाहि 2 तिष्ठ 2 बन्ध 2 हन 2 दह 2 गर्ज 2 विस्फोटय 2 सर्वविघ्नविनायकान् महागणपतिजीवितान्तकराय हूं फट् ॥
एवं मण्डलम् आलिख्य चन्द्रसूर्यकृतासनम् ।
मध्ये खड्गं लिखेत् स्यामं सुविशुद्धादिभास्वरम् ॥ 251
पूर्वेणाष्टारसच्चक्रम् आदर्शादिसमुज्ज्वलम् ।
सव्ये रत्नं हरीताभं नवांशं समतोन्नतम् ॥ 252
पश्चिमे ऽष्टदलं पद्मं प्रत्यवेक्षादिरक्तकम् ।
उत्तरे तु सत्खड्गं कृत्यादिप्रतिमण्डितम् ॥ 253
उपायैर् नेत्रम् आग्नेय्यां नैरृत्यां वज्रम् अर्थनात् ।
वायव्यां विकटास्यं तु बलात् पद्मं सकन्दकम् ॥ 254
ऐशान्याम् उत्पलं ज्ञानात् पीतं नीलाभशोभनम् ।
आग्नेयादिचतुष्कोणे पूर्वद्वारद्विपार्श्वयोः ॥ 255
दर्पणं च तथा वीणां गन्धशङ्खरशायनम् ।
वस्त्रं धर्मोदयं चैव दानशीलादिशोधितम् ॥ 256
श्रद्धादिमुद्गरं दण्डं पद्मं वज्रं चतुर्थकम् ।
द्वारेषु सर्वथा ज्ञात्वा स्फुटं ध्यात्वा स्वचक्रकम् ॥ 257
प्राग्वत् प्रज्ञाङ्गसंयोगाद् बुद्धान् स्वान्तर् निवेश्य च ।
सच्चित्तेन वियद् व्याप्य चक्रपार्श्वकृतास्पदान् ॥ 258
तैः समायातविघ्नांस् तान् समुत्सार्याभिरक्ष्य च ।
यमार्यादिभिर् आकृष्यावेश्य बद्ध्वा वशं नयेत् ॥ 259
चक्षुःकायाद्य् अधिष्ठायार्घाभिषेकाभिपूजनम् ।
कृत्वा स्तुत्वाथ संप्रीण्य जप्त्वा विभाव्य तोषयेत् ॥ 260
प्राग्वत् सत्पद्मभाण्डे तु कृत्वा ज्ञानामृतामृतम् ।
दिक्पालान् स्वस्वयोगस्थान् प्रपूज्य मण्डलं विशेत् ॥ 261
त्रैलोक्यविजयो भूत्वा यथाप्त्याभरणाम्बरः ।
कृतप्रदक्षिणश् चक्रं नत्वा होमेन पूरयेत् ॥ 262
चतुरङ्गुलम् आत्यज्य तन्मानाब्जप्रफुल्लया ।
वेद्या हस्तार्धहस्ताधश् चक्रवत् सार्वकर्मिकम् ॥ 263
दैर्घाद् उच्छ्रयतः खड्गं अष्टैकाङ्गुलमानकम् ।
कुण्डमध्ये लिखेच् चक्ररत्नाब्जखड्गमध्यगम् ॥ 264
बहिर्वेष्टितवज्रालीं योगी पूर्वमुखस्थितः ।
जप्त्वा सर्वकृतारक्ष्य वामे ऽर्घाद्य् अन्यद् अन्यत् ॥ 265
न्यस्योपकरणं प्रोक्ष्य मञ्जुवज्रात्मयोगवान् ।
क्षीरवृक्षेन्धनादीप्तम् अग्निं त्र्यक्षररेचितम् ॥ 266
प्रज्वाल्य व्यञ्जनाघातैः कुशान् दद्यात् प्रदक्षिणम् ।
आद्यजहृत्सरत्र्यश्राब्जस्थं रूंबीजसंभवम् ॥ 267
ध्यात्वा पीतं त्रिवक्त्रं तु पीनं प्रज्ञान्गसङ्गिनम् ।
कुण्डिकाभयदण्डाक्षमालाकरम् इहानलम् ॥ 268
आवाह्य ज्ञानसद्वह्निं प्राग्वत् त्रितत्त्वटक्किना ।
अभ्युक्षणादिकं तस्य कृत्वासननिवेशनम्॥ 269
स्रुक्स्रुवे हस्तदण्डाधो वज्ररत्ने तदूर्ध्वतः ।
चतुरस्राङ्गुला पात्री द्व्यङ्गुलखातवज्रधा ॥ 270
चतुरङ्गुलवज्रान्तर् अन्ते पद्मदलाकृतिः ।
अन्तर् वज्राङ्गुलं खातं द्व्यङ्गुलाब्जदलं स्रुवम् ॥ 271
ध्यात्वा स्वदैवतं बीजं प्रदीप्तं स्रुक्स्रुवानने ।
दद्यात् पूर्णाहुतिं तस्मै रेफं विन्यस्य तन्मुखे ॥ 272
जुह्वीत समिधो धन्याः समिद्धे ऽग्नौ घृतं तिलान् ।
दूर्वाखण्दं तु दध्यन्नं कुशान् विधिक्रमाद् अतः ॥ 273
तथताज्ञानसद्वह्नेर् हृच्चन्द्रे मं-भवाधिपम् ।
सच्चक्रं जुहुयाद् ध्यात्वा बाह्यपूजादि पूर्वकम् ॥ 274
ओं अग्नये स्वाहा ॥ घृतस्य ॥
ओं सर्वपापदहनवज्राय सर्वपापं दह स्वाहा ॥ तिलानाम् ॥
ओं वज्रायुषे स्वाहा ॥ दूर्वायाः ॥
ओं वज्रपुष्टये स्वाहा ॥ अखण्डतण्डुलानाम् ॥
ओं सर्वसम्पदे स्वाहा ॥ दध्यन्नस्य ॥
ओं अप्रतिहतवज्राय स्वाहा ॥ कुशानाम् ॥
पुष्टिशान्तिवशाकर्षे द्वेषोच्चाटाभिचारुके ॥
ओं स्वाहा होः जः हुं हूं फट् मन्त्रान्ते चापि चोदना ॥275
हृत्सत्त्वात् स्वाधिपात् सर्वाः प्रीण्यन्ते देवता इति ।
ध्यायंश् चन्द्रादिकैर् अन्यैर् द्रव्यैः संतर्प्य पूर्ववत् ॥ 276
हृच्चन्द्रचक्रसज्जिह्वम् अन्ते पूर्णाहुतिं तथा ।
अभ्युक्ष्य चमनार्घं दत्त्वापूज्य स्तुत्वा विसर्जयेत् ॥ 277
शेषं हव्यं स्वयोगात्मा वह्नौ हुत्वाथ तं तथा ।
विसर्ज्य प्राग्विधानेन चक्रम् आपूज्य संविशेत् ॥ 278
शिष्यप्रवेशविधिना प्रविश्यादौ स्वयं कृती ।
निष्पाद्य सेकपर्यन्तं प्राप्यानुज्ञां कुलाधिपात् ॥ 279
महारागोद्भवं तत्त्वं चक्रं च प्रतिबिम्बवत् ।
पुरे शिष्यप्रवेशार्थं तत्त्वं सत्यं च श्रावयेत् ॥ 280
आकाशोत्पादचिह्नत्वाद् अनादिनिधनः परः ।
महावज्रमयः सत्त्वो मञ्जुवज्राद्य सिद्ध मे ॥ 281
सर्वोत्तममहासिद्धि माहैश्वर्याधिदैवत ।
सर्ववज्रधरो राजा सिद्ध मे परमाक्षर ॥ 282
निर्दोषः शाश्वतश् चासि सर्वरागानुरागण ।
तत्त्वेन सिद्ध मे भगवन् महारागो महारत ॥ 283
अत्यन्तशुद्ध सर्वाग्र आदिमुक्तस् तथागतः ।
समन्तभद्र सर्वात्मा बोधिसत्त्व प्रसिद्ध मे ॥ 284
सर्वोत्तममहासिद्धि माहैश्वर्याग्रमुद्रया ।
सिद्ध वज्र महोत्कर्षात् वज्रगर्वापते मम ॥ 285
सर्वसत्त्वमनोव्यापी सर्वसत्त्वहृदीस्थितः ।
सर्वसत्त्वपिता चैव कामो ऽग्र्यः समयाग्रिणां ॥ 286
येन सत्येन सज्ज्ञानं प्रज्ञोपायात्ममण्डलं ।
तेन सत्येन मे नाथ कामांस् त्वं परिपूरय ॥ 287
प्रतिबिम्बसमा धर्मा अच्छाः शुद्धा ह्य् अनाविलाः ।
अग्राह्या अनभिलाप्याश् च हेतुकर्मसमुद्भवाः ॥ 288
तथतातत्त्वनिर्याता इति सत्येन मण्डले ।
प्रतिबिम्बं स्फुटं शिष्याः सर्वे पश्यन्त्व् अकल्मषाः ॥ 289
सामान्यसंवरं शिष्यं प्राग्वत् कायादिभास्वरं ।
जमनीकान्तरं प्रोक्त सर्वकृत्कलशाम्भसा ॥ 290
रक्ताम्बरं तदास्यं च पृच्छेत् कस् त्वम् इति प्रिय ।
शिष्येणापि ततो वाच्यं सुभगो ऽहम् इति प्रिय ॥ 291
संपूज्य स्रक्करं द्वारि तथैवादत्तदक्षिणम् ।
योगचित्तं समुत्पाद्य हृदि वज्रं हृदा न्यसेत् ॥ 292
मन्त्रः ॥
ओं सर्वयोगचित्तम् उत्पादयामि सुरते समयस् त्वं होः सिध्य वज्र यथासुखं ।
अद्य त्वं सर्वतथागताधिष्ठितो भविष्यसि ।
न च त्वयेदम् सर्वतथागतपरमरहस्यम् अमण्डलप्रविष्टाय वक्तव्यं न चाश्रद्धातव्यम् इति वाच्यं ॥
यमार्यादिस्वसन्मन्त्रैः समाकृष्य प्रवेश्य च ।
पञ्चाक्षरैर् अथाप्य् एवं वाच्यं सत्संवरग्रहे ॥ 293
अद्य त्वं सर्वतथागतकुले प्रविष्टः । तद् अहं ते वज्रज्ञानम् उत्पादयामि येन ज्ञानेन त्वं सर्वतथागतसिद्धीर् अपि प्राप्स्यसि किम् उतान्याः सिद्धीः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यं । मा ते समयो व्यथेद् इति तद् धृदि वज्रम् आस्थाप्य ।
ओं वज्रसत्त्वः स्वयं ते ऽद्य हृदये समवस्थितः ।
निर्भिद्य तत्क्षणं यायाद् यदि ब्रूया इमं नयम् । 294
पद्मस्थं त्र्यक्षरोज्ज्वलं पाययेद् अमृतं पञ्च ॥
इदं ते नारकं वारि समयातिक्रमाद् दहेत् ।
समयरक्षणात् सिद्धिः पिब वज्रामृतोदकम् ॥ 295
ओं वज्रोदक ठः ॥
दृढप्रतिज्ञम् इदं वदेत् ॥
अद्य प्रभृति तवाहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् त्वया कर्तव्यं न चाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरकपतनं स्यात् ।
ब्रूयाद् ब्रूहि ततः शिष्यान्
सर्वतथागताश् चाधितिष्ठन्ताम् वज्रसत्त्वो मे आविशतु ।
वाचयित्वा च तद् धृदि ।
वज्राङ्ककोणमाहेन्द्रे हूं ध्यायात् पीत-लं-भवे ।
वारुणं वं-भवं शुक्लं घटाङ्कं परिमण्डलम् ॥ 296
नीलध्वजाङ्कधन्वाभं वायव्यं यं-भवं चलम् ।
काये वाचि तयोर् हः आः पादाधो झैः समुज्ज्वलं ॥ 297
वायव्ये रं-भव त्र्यस्रेणोद्दीप्य शिष्यम् आविशेत् ॥ 298
आवेशय स्तोभय र र र र चालय 2 हूं हः आः झैः ॥
जिह्वायां रक्तम् आः-कारं ध्यात्वाविष्टं पुनर् वदेत् ।
रागवज्रं तम् आभुज्य ब्रूहि वज्र शुभाशुभम् ॥ 299
तम् आवेशं दृधीकुर्वन् तिष्ठ वज्रेति तं लपेत् ।
प्रक्षेपयेत् स्रजं चक्रे
प्रतीच्छ वज्र होः ॥
तां शिरसि बन्धयेत् ॥ 300
प्रतिघृह्ण त्वम् इमं सत्त्वं महाबल ॥
चिह्ने चिह्नसमीपे वा स्रक्प्रपन्नाप्रपन्नयोः ।
पतेद् रुच्यापि तद्योगं दद्याद् भव्यतयाथ वा ॥ 301
सज्वालं प्रणवं नेत्रे ध्यत्वा ।
ओं वज्रसत्त्व स्वयं ते ऽद्य चक्षूद्घाटनतत्परः ।
उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ 302
ध्यात्वा चक्रं प्रदर्शयेत् ।
चक्राधिपं समारभ्य यावद् अमृतकुण्डलिम् ।
सेचयेद् अम्बुना मूर्ध्नि वज्राभिसिञ्च वाग्ब्रुवन् ॥ 303
सेचयेन् मौलिना प्राग्वद् दत्त्वा चाधिपदैवतं ।
हृदि संग्राह्य तद् वज्रं वज्रेणाप्य् अभिषेचयेत् ॥ 304
अद्याभिषिक्तस् त्वम् असि बुद्धैर् वज्राभिषेकतः ।
इदं तत् सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥ 305
आलिङ्ग्य वज्रघण्टाभ्यां स्वाधिपात् ।
ओं वज्राधिपति त्वाम् अभिषिञ्चामि तिष्ठ वज्र समयस् त्वं ॥
मूर्ध्नि नामतः ॥
ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि वज्रनामाभिषेकतः ॥ हे अमुकवज्र ॥
यद् यद् भाति स्वसर्वस्वं मुख्यं तन् मञ्जुराट् स्वयं ।
धर्माः शुद्धाः प्रकृत्या यद् बुद्धज्ञानचयः स हि ॥ 306
स्वस्यैव चक्रवर्तित्वे श्रीध्वनिर् नाम्न आदितः ।
सर्वे सर्वाधिपत्यात् तु वज्रान्ता हे-नियोजिताः ॥ 307
अब्धातुशुद्धिर् अक्षोभ्यो मकुटः समतात्मकः ।
वज्रं सत्प्रत्यवेक्षात्माधिपः कृत्यकरो ऽर्थदः ॥ 308
ज्ञानं विद्यात्र वज्रं स्याद् धातुर् गोत्रं वशी ह्य् अतः ।
व्रतव्याकरणाश्वासा विद्यासेके ऽपि नाम्न्य् मी ॥ 309
इदं तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ।
त्वयापि हि सदा धार्यं वज्र्पाणिदृढव्रतम् ॥ 310
ओं सर्वतथागतसिद्धिवज्रसमये तिष्ठ एष त्वां धारयामि हीः हि हि हि हि हूं ॥
सर्वान् वज्रव्रतं दत्त्वा वज्रं तत्त्वेन ग्राहयेत् ।
अनादिनिधनः सत्त्वो वज्रसत्त्वो महारतः ।
समन्तभद्र सर्वात्मा वज्रगर्वापतिः पतिः । 311
घण्टां तत्त्वेन संग्राह्य
इयं सा सर्वबुद्धानां प्रज्ञाघोषानुगा स्मृता ।
त्वयापि हि सदा धार्या बोधिर् अग्रा जिनैर् मता । 312
तां तद्धर्मेण वादयेत् ॥ 313
स्वभावशुद्धो हि भवः स्वभावैर् विभवीकृतः ।
स्वभावशुद्धैः सत्सत्त्वैः क्रियते परमो भवः ॥ 314
अधिष्ठाय महामुद्रां हृद्भिः सेवादिकीर्तितैः ।
समयैः कामरूपाद्यैर् जपेन् मन्त्रम् अव्यङ्गतः ॥ 315
स्वसंवेद्यस्वभावैस् तैः सर्वदिक्त्र्यध्वसंस्थितैः ।
स्वाधिदैवतयोगेन स्वं परांश् चैव पूजयेत् ॥ 316
दुष्करैर् नियमैस् तैर् यत् सेव्यमानैर् न सिद्धयः ।
सिध्यन्ते ऽन्तर्ध्यभिज्ञाखचारिवाक्चित्तकायजाः ॥ 317
तस्माद् बुद्धाश् च सत्सत्त्वा मन्त्रचर्याग्रचारिणः ।
प्राप्ता धर्माक्षरं श्रेष्ठं सर्वकामोपसेवनैः ॥ 318
सेवयन् कामगुणान् पञ्च सुखदुःखोभयात्मकान् ।
ज्ञानार्थी रागिणां योगात् साधयेत् सर्वम् एव हि ॥ 319
कायवाक्चित्तसंसिद्धेर् याश् चान्या हीनजाः स्मृताः ।
सिध्यन्ते मन्त्रजापात् तु कायवाक्चित्तभावनैः ॥ 320
यदुक्तं
वज्रं तत्त्वेन संगृह्य घण्टां धर्मेण वाद्य च ।
समयेन महामुद्राम् अधिष्ठाय हृदा जपेद् इति ॥ 321
तत् प्रत्युक्तम् ॥
गृहीतसम्वरं शिष्यं तथैवादत्तदक्षिणम् ।
याचयेद् अभिषेकाय प्रणम्यैवं तु गाथया ॥ 322
बोधिवज्रेण बुद्धानां यथा दत्तो महामहः ।
ममापि त्राणनार्थाय खवज्राद्य ददाहि मे ॥ 323
प्रवेशद्वारपीठस्थाष्टदलाब्जेष्टयोगिनम् ।
सर्वदिक्त्र्यध्वखव्यापिबुद्धचक्रैः स्वहृद्भवैः ॥ 324
वाद्यगन्धाद्युपेतैस् तैः प्राग्वद् विद्याभिषेकिणम् ।
महावज्राभिषेकेण सेचयेद् इति गाथया ॥ 325
अभिषेकं महावज्रं त्रैधातुकनमस्कृतम् ।
ददामि सर्वबुद्धानां त्रिगुह्यालयसंभवम् ॥ 326
दत्त्वाविवर्त्यसंसेकं चक्रतत्त्वं तु दर्शयेत् ।
चतुरस्रम् अवैषम्याद् बुद्धाबुद्धसमत्वतः ॥ 327
कायवाक्चित्तधर्माणां नानैकत्वाद्ययोगतः ।
तत्स्मृतिस् तत्र या श्रद्धा प्राग्द्वारं बोधये मतम् ॥ 328
भूतभाविविपर्यासहान्यनुत्पत्तये ततः ।
अभूतोत्पन्नतथ्यस्य चोत्पत्तिस्थितये पुनः ॥ 329
अर्वाग्द्वारं चतुर्वीर्यं छन्दोत्साहस्थितिर् मतिः ।
पश्चिमं ऋद्धिपादास् तु द्वारं तत्स्मृतिर् अत्र तु ॥ 330
श्रद्धावीर्यस्मृतिध्यानप्रज्ञेन्द्रियबलातुलम् ।
समाधिर् उत्तरं त्व् एवं चतुर्द्वारं स्मृतीन्द्रियैः ॥ 331
प्रथमादिचतुर्ध्यानैश् चतुस्तोरणवद् भवेत् ।
शूरङ्गमखगञ्जादिसमाधिर् वेदिकाः स्मृताः ॥ 332
वेद्यां पूजाकरव्यग्रग्रन्थादिधारिणीचयः ।
यच् चित्राभरणं तस्मात् सर्वाशापरिपूरणम् ॥ 333
विनयोद्धूतसद्धर्मनवाङ्गरवसर्वगम् ।
मारुतोद्धूतविश्वाग्रपताकाघण्टनादितम् ॥ 334
ज्ञानेष्व् आदर्शबोध्यङ्गैः सर्वदिक्षु प्रभास्वरैः ।
हारार्धहारचन्द्रार्कादर्शस्रक्चामरोज्ज्वलम् ॥ 335
चक्ररत्नादिसत्स्तम्भैर् विमोक्षाष्तकशोधितैः ।
तस्याभ्यन्तरतश् चक्रम् अष्तमण्डलकोपमम् ॥ 336
सर्वदिक्त्र्यध्वसम्बुद्धवज्रयानप्रवर्तनात् ।
वज्रसूत्रपरिक्षिप्तं समन्तात् परिमण्डलम् ॥ 337
रङ्गाणि पञ्चसंबुद्धास् तज्ज्ञानैः सत्त्वरञ्जनात् ।
इन्द्रियार्थादिसंशुद्ध्या स्वलक्षणविवेकतः ॥ 338
प्राग् यज् ज्ञानामृतं पीतं वज्रिणां कलशं तु तत् ।
संभारपूरिनिष्यन्दः पूर्णकुम्भः कृपार्द्रतः ॥ 339
पुष्पधूपमहादीपगन्धाख्यं यच् च मण्डले ।
बोध्यङ्गसुमनोह्लादिधर्मोल्का यशसां चयः ॥ 340
धर्माहारस् तु नैवेद्यं ह्रीर् अपत्राप्यसंवरं ।
सुगीतनृत्यवादित्रमहासुखविवर्धनम् ॥ 341
पुरं मोक्षपुरत्वाच् च मण्डलं सारसंग्रहात् ।
चक्रतत्त्वं समादर्श्य देवतातत्त्वम् आदिशेत् ॥ 342
श्रद्धावीर्यस्मृतिध्यानशुद्ध्या सद्द्वारिरूपकम् ।
कायादौ योगधृक् चित्तं प्रज्ञाशुद्ध्या सुनिर्मलम् ॥ 343
दानादिषड्बहिःशुद्ध्या रूपवज्रादिभावधृक् ।
भूपायाद्यनिमित्तत्वाल् लोचनादिस्वभावकम् ॥ 344
अर्थसत्त्वात्मसंकल्पप्रवृत्तिज्ञानशुद्धितः ।
आदर्शादिक्षयज्ञानं सर्वबुद्धस्वरूपकम् ॥ 345
ज्ञानानुत्पादयोगेन चक्रेशाकारभास्वरम् ।
रूपादिभ्रमसंशुद्ध्या स्कन्धायतनधातुकम् ॥ 346
मात्सर्यादिपरावृत्तेः परमाभूषु सुस्थिरं ।
स्वविपक्षपरावृत्त्या बलाद्यविकलामलम् ॥ 347
अविकल्पात् तु गाम्भीर्यम् औदार्यं स्वपरोदयात् ।
गाम्भीर्यौदार्यतश् चेतः प्रज्ञोपायात्मकं मतम् ॥ 348
प्रत्यात्मवेद्यधर्मत्वाद् भेदाभेदाद्यसंस्थितम् ।
एवं प्रपञ्चिते भ्रान्तिफलाः पारमीतादयः ॥ 349
समयाग्र्या ततो योगं रूपाब्दगुणयुक्तया ।
कृत्वाचार्यो ऽत्र संविश्य ज्ञानावेशं प्रकल्पयेत् ॥ 350
वज्रेण पद्मम् आस्फोट्य बुद्धान् स्वान्तर् निवेश्य च ।
स्थिरीकृत्य च पद्मस्थान् प्राप्यानुज्ञां कुलाधिपात् ॥ 351
स्वनामोच्चार्य वज्रात्मा स्फरयेच् चक्रयोगतः ।
वज्राब्जध्वनिभिर् बुद्धान् आनीय चक्रपार्श्वतः ॥ 352
विघ्नान् उत्सार्य संरक्ष्य दत्त्वार्घं प्रतिपूज्य च ।
संस्तुत्य द्वारिभिर् द्वारकर्म कृत्वात्र साधयेत् ॥ 353
चक्षुःकायाद्यधिष्ठानसेकपूजादिकल्पिते ।
विज्ञापयेत् सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धये ॥ 354
चक्रं संलिख्य सम्यक् प्राक् प्रतिष्ठायां त्व् अयं विधिः ।
प्रतिमापुस्तकादीनां पौरुषान्तस् तु सेकतः ॥ 355
सकलार्घवितानादि रक्षाहोमादि यत् स्मृतम् ।
त्रिपञ्चाक्षरसन्मन्त्रैर् मन्त्रैर् वा प्राक् समुद्धृतैः ॥ 356
कारयित्वा बहिः स्नानं चक्रवर्तीव तत् स्वयम् ।
उत्तमं तत्त्वम् एतद् धि प्रज्ञोपायात्मकं तु यत् ॥ 357
जलमौली तु निष्यन्दः पाको वज्राधिपाःवकाः ।
संबुद्धैः पौरुषः सेको वैमल्यो गुह्ययोगतः ॥ 358
ततो रूपादिसम्पन्नां स्वभ्यस्तचक्रयोगिनीम् ।
समयसंवरस्थां तां चक्रे मुद्राम् अधिष्ठ्य च ॥ 359
मुनीन्द्रवृन्दं वज्रान्तः समावेश्य च सत्सुखम् ।
प्रपीड्यानामज्येष्ठाभ्यां शिष्यवक्त्रे प्रपातयेत् ॥ 360
शिष्यो दृढमतिः सर्वं पिबेत् वैरोचनात्मना ।
स भवेद् विश्ववद् विश्वो ऽत्राहो सुखेति वाग् ब्रुवन् ॥ 361
प्रज्ञासंपर्कतः श्रीमान् तत्त्वं समुपलक्षयेत् ।
इयं ते धारणी रम्या सेव्या बुद्धैः प्रकल्पिता ॥ 362
चक्रक्रमप्रयोगेण समास्वादय सत्सुखम् ।
वज्रपर्यङ्कतश् चित्तं मण्यन्तर्गतम् ईक्षयन् ॥ 363
मण्डलं देवतातत्त्वम् आचार्यपरिकर्म च ।
संकथ्य गुह्यप्रज्ञाभ्यां सिक्त्वा तत्त्वं समुद्दिशेत् ॥ 364
यद् आह ॥
न तथा बोधिचर्याद्यैर् अन्यैर् वापि न यैः शुभैः ।
प्राप्यन्ते सर्वबुद्धाद्या यथाभिषेकाद् इतो नयात् ॥ 365
समयं रक्षयेद् भर्तुः संवरं पालयेत् सदा ।
पञ्चमांसामृतं भक्ष्यं रक्षो ऽन्यः समयो ऽप्य् अतः ॥ 366
रत्नघ्नघातसर्वस्त्रीपरस्वादानं वाङ् मृषा ।
एतद् धि विधिवत् रक्ष्यं योगतन्त्रे च यत् स्मृतम् ॥ 367
ततस् तथागतो भूत्वा व्याकुर्याद् उद्गतयानया ।
हृन्मुष्टिचीवरा वामा दक्षिणा तु वरप्रदा ॥ 368
ओं एसाहं व्याकरोमि त्वां वज्रसत्त्वस् तथागतः ।
भवदुर्गतितोद्धृत्य अत्यन्तभवसिद्धये ॥ 369
हे वज्रनाम तथागत सिद्धये भूर् भूवः स्वः ॥
व्याक्रियते ऽनया यस् तु मन्त्री सर्वजगत्पतिः ।
बोधाव् अनुत्तरायां हि व्याकुर्यात् सुगतैर् अपि ॥ 370
यथा यथा हि विनयं सत्त्वा यान्ति स्वभावतः ।
तथा तथा हि सत्त्वार्थम् कुर्याद् रागादिभिः शुचिः ॥ 371
प्रतिदिनं चतुःसन्ध्यं समाधित्रययोगवान् ।
भूत्वा साधय संसिद्धिं सामान्येतरभावनीम् ॥ 372
अन्तर्धिर् धातुसाहस्रे द्विसाहस्रेष्व् अभिज्ञकः ।
विद्याधरस् त्रिसाहस्रे वज्री सर्वजगत्पतिः ॥ 373
शान्तिपुष्ट्यादि यत् कर्म तदन्यद् वा यद् ईप्सितम् ।
चक्रानुरागयोगेन साधयन् सिध्यते लघु ॥ 374
मूल पाठ: Guhyasamājamaṇḍalavidhi · Edition: : MS Niedersäsische Staats- und Universitätsbibliothek Göttingen, Cod. ms. sanscr. 257 Additional References: Dhīḥ 42 (2006:109-154) · Data entry S. Klein-Schwind · GRETIL (Göttingen) · CC BY-NC-SA 4.0