भाषा

ENहिગુ
ग्रंथ पाठ

गोपथब्राह्मण · अध्याय 1

1.1

(ग्ब्र्_0.0.0अ) ओं नमो ऽथर्ववेदाय नमः ॥
(ग्ब्र्_1,1.1अ) ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव
(ग्ब्र्_1,1.1ब्) तदैक्षत
(ग्ब्र्_1,1.1ब्) महद् वै यक्षम् यद् एकम् एवास्मि
(ग्ब्र्_1,1.1द्) हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति
(ग्ब्र्_1,1.1f) तद् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.1ग्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत
(ग्ब्र्_1,1.1ह्) तेनानन्दत्
(ग्ब्र्_1,1.1इ) तद् अब्रवीत्_
(ग्ब्र्_1,1.1ज्) महद् वै यक्षं सुवेदम् अविदम् अहम् इति
(ग्ब्र्_1,1.1क्) तद् यद् अब्रवीत्_
(ग्ब्र्_1,1.1ल्) महद् वै यक्षं सुवेदम् अविदम् अहम् इति
(ग्ब्र्_1,1.1म्) तस्मात् सुवेदो ऽभवत्
(ग्ब्र्_1,1.1न्) तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,1.1ओ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः

1.2

(ग्ब्र्_1,1.2अ) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
(ग्ब्र्_1,1.2ब्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त
(ग्ब्र्_1,1.2ब्) ताभिर् अनन्दत्
(ग्ब्र्_1,1.2द्) तद् अब्रवीत्_
(ग्ब्र्_1,1.2f) आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं च_
(ग्ब्र्_1,1.2ग्) आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं च_
(ग्ब्र्_1,1.2ह्) आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति
(ग्ब्र्_1,1.2इ) तद् यद् अब्रवीत्_
(ग्ब्र्_1,1.2ज्) आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति
(ग्ब्र्_1,1.2क्) तस्माद् धारा अभवन्_
(ग्ब्र्_1,1.2ल्) तद् धाराणां धारात्वं यच् चासु ध्रियते
(ग्ब्र्_1,1.2म्) तद् यद् अब्रवीत्_
(ग्ब्र्_1,1.2न्) आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति
(ग्ब्र्_1,1.2ओ) तस्माज् जाया अभवन्_
(ग्ब्र्_1,1.2प्) तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः [एद्.: याच्]
(ग्ब्र्_1,1.2q) पुन् नाम नरकम् अनेकशततारम्_
(ग्ब्र्_1,1.2र्) तस्मात् त्रातीति पुत्रस्
(ग्ब्र्_1,1.2स्) तत् पुत्रस्य पुत्रत्वम्_
(ग्ब्र्_1,1.2त्) तद् यद् अब्रवीत्_
(ग्ब्र्_1,1.2उ) आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति
(ग्ब्र्_1,1.2व्) तस्माद् आपो ऽभवन्_
(ग्ब्र्_1,1.2w) तद् अपाम् अप्त्वम्
(ग्ब्र्_1,1.2x) आप्नोति वै स सर्वान् कामान् यान् कामयते

1.3

(ग्ब्र्_1,1.3अ) ता अपः सृष्ट्वान्वैक्षत
(ग्ब्र्_1,1.3ब्) तासु स्वां छायाम् अपश्यत्
(ग्ब्र्_1,1.3ब्) ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत्
(ग्ब्र्_1,1.3द्) तद् अप्सु प्रत्यतिष्ठत्
(ग्ब्र्_1,1.3f) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.3ग्) ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन्_
(ग्ब्र्_1,1.3ह्) तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस्
(ग्ब्र्_1,1.3इ) ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्_
(ग्ब्र्_1,1.3ज्) अथेतराः पेयाः स्वाद्व्यः शान्तास्
(ग्ब्र्_1,1.3क्) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.3ल्) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [एद्.: असीत्]
(ग्ब्र्_1,1.3म्) तस्माद् भृगुः समभवत्
(ग्ब्र्_1,1.3न्) तद् भृगोर् भृगुत्वम्_
(ग्ब्र्_1,1.3ओ) भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद

1.4

(ग्ब्र्_1,1.4अ) स भृगुं सृष्ट्वान्तरधीयत
(ग्ब्र्_1,1.4ब्) स भृगुः सृष्टः प्राङ् ऐजत
(ग्ब्र्_1,1.4ब्) तं वाग् अन्ववदत्_
(ग्ब्र्_1,1.4द्) वायो वाय इति
(ग्ब्र्_1,1.4f) स न्यवर्तत स दक्षिणां दिशम् ऐजत
(ग्ब्र्_1,1.4ग्) तं वाग् अन्ववदत्_
(ग्ब्र्_1,1.4ह्) मातरिश्वन् मातरिश्वन्न् इति
(ग्ब्र्_1,1.4इ) स न्यवर्तत स प्रतीचीं दिशम् ऐजत
(ग्ब्र्_1,1.4ज्) तं वाग् अन्ववदत्_
(ग्ब्र्_1,1.4क्) पवमान पवमानेति
(ग्ब्र्_1,1.4ल्) स न्यवर्तत स उदीचीं दिशम् ऐजत
(ग्ब्र्_1,1.4म्) तं वाग् अन्ववदत्_
(ग्ब्र्_1,1.4न्) वात वातेति
(ग्ब्र्_1,1.4ओ) तम् अब्रवीत्_
(ग्ब्र्_1,1.4प्) न न्व् अविदम् अहम् इति
(ग्ब्र्_1,1.4q) न हीति_
(ग्ब्र्_1,1.4र्) अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति
(ग्ब्र्_1,1.4स्) तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत्
(ग्ब्र्_1,1.4त्) तद् अथर्वणो ऽथर्वत्वम्_
(ग्ब्र्_1,1.4उ) तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत्
(ग्ब्र्_1,1.4व्) तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति
(ग्ब्र्_1,1.4w) तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत्
(ग्ब्र्_1,1.4x) तत् प्रजापतेः प्रजापतित्वम्
(ग्ब्र्_1,1.4य्) अथर्वा वै प्रजापतिः
(ग्ब्र्_1,1.4z) प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद

1.5

(ग्ब्र्_1,1.5अ) तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.5ब्) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.: षडर्चांत्]
(ग्ब्र्_1,1.5ब्) तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.5द्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति [एद्.: षोडशांत्, नोते अल्सो पञ्चर्चान्त् अबोवे]
(ग्ब्र्_1,1.5f) तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.5ग्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत्
(ग्ब्र्_1,1.5ह्) तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.5इ) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत्
(ग्ब्र्_1,1.5ज्) स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत
(ग्ब्र्_1,1.5क्) सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते

1.6

(ग्ब्र्_1,1.6अ) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
(ग्ब्र्_1,1.6ब्) स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति
(ग्ब्र्_1,1.6ब्) स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत_
(ग्ब्र्_1,1.6द्) उदराद् अन्तरिक्षं मूर्ध्नो दिवम्_
(ग्ब्र्_1,1.6f) स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.6ग्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत_
(ग्ब्र्_1,1.6ह्) अग्निं वायुम् आदित्यम् इति
(ग्ब्र्_1,1.6इ) स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम्_
(ग्ब्र्_1,1.6ज्) स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.6क्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् इति_
(ग्ब्र्_1,1.6ल्) अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम्
(ग्ब्र्_1,1.6म्) स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.6न्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति
(ग्ब्र्_1,1.6ओ) भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात्
(ग्ब्र्_1,1.6प्) स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत
(ग्ब्र्_1,1.6q) सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते

1.7

(ग्ब्र्_1,1.7अ) ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त
(ग्ब्र्_1,1.7ब्) तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते
(ग्ब्र्_1,1.7ब्) ता भीता अब्रुवन्
(ग्ब्र्_1,1.7द्) भगवन्तम् एव वयं राजानं वृणीमह इति
(ग्ब्र्_1,1.7f) यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत्
(ग्ब्र्_1,1.7ग्) तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,1.7ह्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(ग्ब्र्_1,1.7इ) स समुद्राद् अमुच्यत
(ग्ब्र्_1,1.7ज्) स मुच्युर् अभवत्
(ग्ब्र्_1,1.7क्) तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,1.7ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस्
(ग्ब्र्_1,1.7म्) तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.7न्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत्
(ग्ब्र्_1,1.7ओ) सो ऽङ्गरसो ऽभवत्
(ग्ब्र्_1,1.7प्) तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,1.7q) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः

1.8

(ग्ब्र्_1,1.8अ) तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.8ब्) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत
(ग्ब्र्_1,1.8ब्) तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.8द्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति
(ग्ब्र्_1,1.8f) तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.8ग्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत्
(ग्ब्र्_1,1.8ह्) ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.8इ) तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत्
(ग्ब्र्_1,1.8ज्) स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत
(ग्ब्र्_1,1.8क्) सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते

1.9

(ग्ब्र्_1,1.9अ) स ऊर्ध्वो ऽतिष्ठत्
(ग्ब्र्_1,1.9ब्) स इमांल् लोकान् व्यष्टभ्नात्
(ग्ब्र्_1,1.9ब्) तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति
(ग्ब्र्_1,1.9द्) तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [एद्.: येद्]
(ग्ब्र्_1,1.9f) तद् ध स्म तथैव भवति
(ग्ब्र्_1,1.9ग्) तद् अप्य् एतद् ऋचोक्तम्_
(ग्ब्र्_1,1.9ह्) श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव ।
(ग्ब्र्_1,1.9इ) ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति [एद्.: ऋच्य् ऋग्भूतं - सेए नोते पत्यल्]
(ग्ब्र्_1,1.9ज्) ता वा एता अङ्गिरसां जामयो यन् मेनयः
(ग्ब्र्_1,1.9क्) करोति मेनिभिर् वीर्यं य एवं वेद

1.10

(ग्ब्र्_1,1.10अ) स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति
(ग्ब्र्_1,1.10ब्) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.10ब्) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत
(ग्ब्र्_1,1.10द्) सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति
(ग्ब्र्_1,1.10f) स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत
(ग्ब्र्_1,1.10ग्) दक्षिणस्याः पिशाचवेदम्_
(ग्ब्र्_1,1.10ह्) प्रतीच्या असुरवेदम्
(ग्ब्र्_1,1.10इ) उदीच्या इतिहासवेदम्_
(ग्ब्र्_1,1.10ज्) ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम्
(ग्ब्र्_1,1.10क्) स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.10ल्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत
(ग्ब्र्_1,1.10म्) वृधत् करद् रुहन् महत् तद् इति
(ग्ब्र्_1,1.10न्) वृधद् इति सर्पवेदात्
(ग्ब्र्_1,1.10ओ) करद् इति पिशाचवेदात्_
(ग्ब्र्_1,1.10प्) रुहद् इत्य् असुरवेदात्_
(ग्ब्र्_1,1.10q) महद् इतीतिहासवेदात्
(ग्ब्र्_1,1.10र्) तद् इति पुराणवेदात्
(ग्ब्र्_1,1.10स्) स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत
(ग्ब्र्_1,1.10त्) सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते

1.11

(ग्ब्र्_1,1.11अ) स आवतश् च परावतश् चान्वैक्षत
(ग्ब्र्_1,1.11ब्) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
(ग्ब्र्_1,1.11ब्) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत्
(ग्ब्र्_1,1.11द्) स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत
(ग्ब्र्_1,1.11f) सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते

1.12

(ग्ब्र्_1,1.12अ) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
(ग्ब्र्_1,1.12ब्) स मनस एव चन्द्रमसं निरमिमीत
(ग्ब्र्_1,1.12ब्) नखेभ्यो नक्षत्राणि
(ग्ब्र्_1,1.12द्) लोमभ्य ओषधिवनस्पतीन्_
(ग्ब्र्_1,1.12f) क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान्_
(ग्ब्र्_1,1.12ग्) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
(ग्ब्र्_1,1.12ह्) स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं]
(ग्ब्र्_1,1.12इ) तद् अप्य् एतद् ऋचोक्तम्
(ग्ब्र्_1,1.12ज्) <अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् [प्स् 5.28.1च्]> इति_
(ग्ब्र्_1,1.12क्) अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति
(ग्ब्र्_1,1.12ल्) सप्त सुत्याः सप्त च पाकयज्ञा इति

1.13

(ग्ब्र्_1,1.13अ) तम् आहरत्
(ग्ब्र्_1,1.13ब्) तेनायजत
(ग्ब्र्_1,1.13ब्) तस्याग्निर् होतासीत्_
(ग्ब्र्_1,1.13द्) वायुर् अध्वर्युः
(ग्ब्र्_1,1.13f) सूर्य उद्गाता
(ग्ब्र्_1,1.13ग्) चन्द्रमा ब्रह्मा
(ग्ब्र्_1,1.13ह्) पर्जन्यः सदस्यः_
(ग्ब्र्_1,1.13इ) ओषधिवनस्पतयश् चमसाध्वर्यवः_
(ग्ब्र्_1,1.13ज्) विश्वे देवा होत्रकाः_
(ग्ब्र्_1,1.13क्) अथर्वाङ्गिरसो गोप्तारस्
(ग्ब्र्_1,1.13ल्) तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति
(ग्ब्र्_1,1.13म्) मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति
(ग्ब्र्_1,1.13न्) तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान्_
(ग्ब्र्_1,1.13ओ) तद् उ ह स्माह प्रजापतिः_
(ग्ब्र्_1,1.13प्) यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा
(ग्ब्र्_1,1.13q) तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते
(ग्ब्र्_1,1.13र्) यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते
(ग्ब्र्_1,1.13स्) यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते_
(ग्ब्र्_1,1.13त्) ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते
(ग्ब्र्_1,1.13उ) दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते
(ग्ब्र्_1,1.13व्) पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते
(ग्ब्र्_1,1.13w) स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम्

1.14

(ग्ब्र्_1,1.14अ) तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन्
(ग्ब्र्_1,1.14ब्) नमस् ते अस्तु भगवन्
(ग्ब्र्_1,1.14च्) यज्ञस्य नो विरिष्टं सन्धेहीति
(ग्ब्र्_1,1.14द्) तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति
(ग्ब्र्_1,1.14ए) त्रिः कारयमानम् आचामयति च संप्रोक्षति च
(ग्ब्र्_1,1.14f) यज्ञवास्तु व सम्प्रोक्षति_
(ग्ब्र्_1,1.14ग्) अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते
(ग्ब्र्_1,1.14ह्) तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते
(ग्ब्र्_1,1.14इ) यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते]
(ग्ब्र्_1,1.14ज्) यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते_
(ग्ब्र्_1,1.14क्) ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते
(ग्ब्र्_1,1.14ल्) दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते
(ग्ब्र्_1,1.14म्) पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते
(ग्ब्र्_1,1.14न्) स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम्

1.15

(ग्ब्र्_1,1.15अ) तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम्

1.16

(ग्ब्र्_1,1.16अ) ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे
(ग्ब्र्_1,1.16ब्) स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे
(ग्ब्र्_1,1.16च्) केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति
(ग्ब्र्_1,1.16द्) स ब्रह्मचर्यम् अचरत्
(ग्ब्र्_1,1.16f) स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम्_
(ग्ब्र्_1,1.16ग्) तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत्
(ग्ब्र्_1,1.16ह्) तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत्
(ग्ब्र्_1,1.16इ) तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत्

1.17

(ग्ब्र्_1,1.17अ) तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत्

1.18

(ग्ब्र्_1,1.18अ) तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत्

1.19

(ग्ब्र्_1,1.19अ) तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत्

1.20

(ग्ब्र्_1,1.20अ) तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत्

1.21

(ग्ब्र्_1,1.21ब्) तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत्

1.22

(ग्ब्र्_1,1.22अ) सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम्
(ग्ब्र्_1,1.22ब्) अत एव मन्त्राः प्रादुर्बभूवुः
(ग्ब्र्_1,1.22च्) स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत्_
(ग्ब्र्_1,1.22द्) मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः
(ग्ब्र्_1,1.22ए) पुरस्ताद् ओंकारं प्रयुङ्क्ते_
(ग्ब्र्_1,1.22f) एतयैव तद् ऋचा प्रत्याप्यायेत्_
(ग्ब्र्_1,1.22ग्) एषैव यज्ञस्य पुरस्ताद् युज्यते_
(ग्ब्र्_1,1.22ह्) एषा पश्चात्
(ग्ब्र्_1,1.22इ) सर्वत एतया यज्ञस् तायते
(ग्ब्र्_1,1.22ज्) तद् अप्य् एतदृचोक्तम्_
(ग्ब्र्_1,1.22क्) या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति
(ग्ब्र्_1,1.22ल्) तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत्
(ग्ब्र्_1,1.22म्) सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम्

1.23

(ग्ब्र्_1,1.23अ) वसोर् धाराणाम् ऐन्द्रं नगरम्_
(ग्ब्र्_1,1.23ब्) तद् असुराः पर्यवारयन्त
(ग्ब्र्_1,1.23च्) ते देवा भीता आसन्
(ग्ब्र्_1,1.23द्) क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्]
(ग्ब्र्_1,1.23ए) त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस्
(ग्ब्र्_1,1.23f) ते तम् अब्रुवन्
(ग्ब्र्_1,1.23ग्) भवता मुखेनेमान् असुराञ् जयेमेति
(ग्ब्र्_1,1.23ह्) स होवाच
(ग्ब्र्_1,1.23इ) किं मे प्रतीवाहो भविष्यतीति
(ग्ब्र्_1,1.23ज्) वरं वृणीष्वेति
(ग्ब्र्_1,1.23क्) वृणा इति
(ग्ब्र्_1,1.23ल्) स वरम् अवृणीत
(ग्ब्र्_1,1.23म्) न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः_
(ग्ब्र्_1,1.23न्) यदि वदेयुर् अब्रह्म तत् स्याद् इति
(ग्ब्र्_1,1.23ओ) तथेति
(ग्ब्र्_1,1.23प्) ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता आसन्_
(ग्ब्र्_1,1.23q) तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त
(ग्ब्र्_1,1.23र्) तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते
(ग्ब्र्_1,1.23स्) यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति
(ग्ब्र्_1,1.23त्) तस्माद् ओंकार ऋच्य् ऋग् भवति
(ग्ब्र्_1,1.23उ) यजुषि यजुः
(ग्ब्र्_1,1.23व्) साम्नि साम
(ग्ब्र्_1,1.23w) सूत्रे सूत्रम्_
(ग्ब्र्_1,1.23x) ब्राह्मणे ब्राह्मणम्_
(ग्ब्र्_1,1.23य्) श्लोके श्लोकः
(ग्ब्र्_1,1.23z) प्रणवे प्रणव इति ब्राह्मणम्

1.24

(ग्ब्र्_1,1.24अ) ओंकारं पृच्छामः
(ग्ब्र्_1,1.24ब्) को धातुः
(ग्ब्र्_1,1.24च्) किं प्रातिपदिकम्_
(ग्ब्र्_1,1.24द्) किं नामाख्यातम्_
(ग्ब्र्_1,1.24ए) किं लिङ्गम्_
(ग्ब्र्_1,1.24f) किं वचनम्_
(ग्ब्र्_1,1.24ग्) का विभक्तिः
(ग्ब्र्_1,1.24ह्) कः प्रत्ययः
(ग्ब्र्_1,1.24इ) कः स्वर उपसर्गो निपातः
(ग्ब्र्_1,1.24ज्) किं वै व्याकरणम्_
(ग्ब्र्_1,1.24क्) को विकारः
(ग्ब्र्_1,1.24ल्) को विकारी
(ग्ब्र्_1,1.24म्) कतिमात्रः
(ग्ब्र्_1,1.24न्) कतिवर्णः
(ग्ब्र्_1,1.24ओ) कत्यक्षरः
(ग्ब्र्_1,1.24प्) कतिपदः
(ग्ब्र्_1,1.24q) कः संयोगः
(ग्ब्र्_1,1.24र्) किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति
(ग्ब्र्_1,1.24स्) किं छन्दः
(ग्ब्र्_1,1.24त्) को वर्ण इति पूर्वे प्रश्राः_
(ग्ब्र्_1,1.24उ) अथोत्तरे
(ग्ब्र्_1,1.24व्) मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम
(ग्ब्र्_1,1.24w) कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति
(ग्ब्र्_1,1.24x) किं दैवतम्_
(ग्ब्र्_1,1.24य्) किं ज्योतिषम्_
(ग्ब्र्_1,1.24z) किं निरुक्तम्_
(ग्ब्र्_1,1.24अअ) किं स्थानम्_
(ग्ब्र्_1,1.24ब्ब्) का प्रकृतिः
(ग्ब्र्_1,1.24च्च्) किमध्यात्मम् इति
(ग्ब्र्_1,1.24द्द्) षट्त्रिंशत् प्रश्र्नाः
(ग्ब्र्_1,1.24एए) पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः_
(ग्ब्र्_1,1.24ff) एतैर् ओंकारं व्याख्यास्यामः

1.25

(ग्ब्र्_1,1.25अ) इन्द्रः प्रजापतिम् अपृच्छत्_
(ग्ब्र्_1,1.25ब्) भगवन्न् अभिष्टूय पृच्छामीति
(ग्ब्र्_1,1.25च्) पृच्छ वत्सेत्य् अब्रवीत्
(ग्ब्र्_1,1.25द्) किम् अयम् ओंकारः
(ग्ब्र्_1,1.25ए) कस्यः पुत्रः
(ग्ब्र्_1,1.25f) किं चैतच् छन्दः
(ग्ब्र्_1,1.25ग्) किं चैतद् वर्णः
(ग्ब्र्_1,1.25ह्) किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते
(ग्ब्र्_1,1.25इ) तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे
(ग्ब्र्_1,1.25ज्) स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे
(ग्ब्र्_1,1.25क्) त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे
(ग्ब्र्_1,1.25ल्) दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे
(ग्ब्र्_1,1.25म्) ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे_
(ग्ब्र्_1,1.25न्) उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः_
(ग्ब्र्_1,1.25ओ) या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन
(ग्ब्र्_1,1.25प्) यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम्_
(ग्ब्र्_1,1.25q) या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
(ग्ब्र्_1,1.25र्) यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम्_
(ग्ब्र्_1,1.25स्) या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन
(ग्ब्र्_1,1.25त्) यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम्_
(ग्ब्र्_1,1.25उ) या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन
(ग्ब्र्_1,1.25व्) यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम्
(ग्ब्र्_1,1.25w) ओंकारस्य चोत्पत्तिः_
(ग्ब्र्_1,1.25x) विप्रो यो न जानाति तत्पुनरुपनयनम्_
(ग्ब्र्_1,1.25य्) तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः_
(ग्ब्र्_1,1.25z) गायत्रं च्छन्दः
(ग्ब्र्_1,1.25अअ) शुक्लो वर्णः
(ग्ब्र्_1,1.25ब्ब्) पुंसो वत्सः
(ग्ब्र्_1,1.25च्च्) रुद्रो देवता
(ग्ब्र्_1,1.25द्द्) ओंकारो वेदानाम्

1.26

(ग्ब्र्_1,1.26अ) को धातुर् इति_
(ग्ब्र्_1,1.26ब्) आपृधातुः_
(ग्ब्र्_1,1.26च्) अवतिम् अप्य् एके
(ग्ब्र्_1,1.26द्) रूपसामान्याद् अर्थसामान्यं नेदीयस्
(ग्ब्र्_1,1.26ए) तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत्
(ग्ब्र्_1,1.26f) प्रातिपदिकम् अदर्शनम्_
(ग्ब्र्_1,1.26ग्) प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम्
(ग्ब्र्_1,1.26ह्) अन्वर्थवाची शब्दो न व्येति कदा चनेति
(ग्ब्र्_1,1.26इ) सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम्_
(ग्ब्र्_1,1.26ज्) को विकारी च्यवते
(ग्ब्र्_1,1.26क्) प्रसारणम्
(ग्ब्र्_1,1.26ल्) आप्नोतेर् आकरपकारौ विकार्यौ_
(ग्ब्र्_1,1.26म्) आदित ओंकारो विक्रियते
(ग्ब्र्_1,1.26न्) द्वितीयो मकारः_
(ग्ब्र्_1,1.26ओ) एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः

1.27

(ग्ब्र्_1,1.27अ) कतिमात्र इति_
(ग्ब्र्_1,1.27ब्) आदेस् तिस्रो मात्राः_
(ग्ब्र्_1,1.27च्) अभ्यादाने हि प्लवते
(ग्ब्र्_1,1.27द्) मकारश् चतुर्थीम्_
(ग्ब्र्_1,1.27ए) किं स्थानम् इति_
(ग्ब्र्_1,1.27f) उभाव् ओष्ठौ स्थानम्_
(ग्ब्र्_1,1.27ग्) नादानुप्रदानकरणौ च द्विस्थानम्_ [एद्. नादान-, च्f. पत्यल् प्. 28]
(ग्ब्र्_1,1.27ह्) संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः
(ग्ब्र्_1,1.27इ) पूर्वो विवृतकरणस्थितश् च
(ग्ब्र्_1,1.27ज्) द्वितीयस्पृष्टकरणस्थितश् च
(ग्ब्र्_1,1.27क्) न संयोगो विद्यते_
(ग्ब्र्_1,1.27ल्) आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः
(ग्ब्र्_1,1.27म्) श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति_
(ग्ब्र्_1,1.27न्) अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति
(ग्ब्र्_1,1.27ओ) तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः_
(ग्ब्र्_1,1.27प्) विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति
(ग्ब्र्_1,1.27q) तस्मात् कारणं ब्रूमः_
(ग्ब्र्_1,1.27र्) वर्णानाम् अयम् इदं भविष्यतीति
(ग्ब्र्_1,1.27स्) षडङ्गविदस् तत् तथाधीमहे
(ग्ब्र्_1,1.27त्) किं छन्द इति
(ग्ब्र्_1,1.27उ) गायत्रं हि छन्दः_
(ग्ब्र्_1,1.27व्) गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता
(ग्ब्र्_1,1.27w) द्वौ द्वादशकौ वर्गौ_
(ग्ब्र्_1,1.27x) एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च_
(ग्ब्र्_1,1.27य्) अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता
(ग्ब्र्_1,1.27z) मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि_
(ग्ब्र्_1,1.27अअ) एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः

1.28

(ग्ब्र्_1,1.28अ) असमीक्ष्यप्रवल्हितानि श्रूयन्ते
(ग्ब्र्_1,1.28ब्) द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति
(ग्ब्र्_1,1.28च्) तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन्_
(ग्ब्र्_1,1.28द्) तन्त्र महर्षयः परिदेवयां चक्रिरे
(ग्ब्र्_1,1.28ए) महच् छोकभयं प्राप्ताः स्मः_
(ग्ब्र्_1,1.28f) न चैतत् सर्वैः समभिहितम्_
(ग्ब्र्_1,1.28ग्) ते वयं भगवन्तम् एवोपधावाम
(ग्ब्र्_1,1.28ह्) सर्वेषाम् एव शर्म भवानीति
(ग्ब्र्_1,1.28इ) ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन्
(ग्ब्र्_1,1.28ज्) नानुपसन्नेभ्य इति_
(ग्ब्र्_1,1.28क्) उपोपसीदामीति नीचैर् बभूवुः
(ग्ब्र्_1,1.28ल्) स एभ्य उपनीय प्रोवाच
(ग्ब्र्_1,1.28म्) मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति_
(ग्ब्र्_1,1.28न्) एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः_
(ग्ब्र्_1,1.28ओ) ऋत्विजः पराभवन्ति
(ग्ब्र्_1,1.28प्) यजमानो रजसापध्वस्यति
(ग्ब्र्_1,1.28q) श्रुतिश् चापध्वस्ता तिष्ठतीति_
(ग्ब्र्_1,1.28र्) एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति_
(ग्ब्र्_1,1.28स्) एवं प्रतापो न पराभविष्यतीति
(ग्ब्र्_1,1.28त्) तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन्_
(ग्ब्र्_1,1.28उ) ते तथा वीतशोकभया बभूवुस्
(ग्ब्र्_1,1.28व्) तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति

1.29

(ग्ब्र्_1,1.29अ) किं देवतम् इति_
(ग्ब्र्_1,1.29ब्) ऋचाम् अग्निर् देवतम्_
(ग्ब्र्_1,1.29च्) तद् एव ज्योतिः_
(ग्ब्र्_1,1.29द्) गायत्रं छन्दः
(ग्ब्र्_1,1.29ए) पृथिवी स्थानम्
(ग्ब्र्_1,1.29f) <अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजं होतारं रत्नधातमम् [ऋव् 1.1.1]> इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते
(ग्ब्र्_1,1.29ग्) यजुषां वायुर् देवतम्_
(ग्ब्र्_1,1.29ह्) तद् एव ज्योतिस्
(ग्ब्र्_1,1.29इ) त्रैष्टुभं छन्दः_
(ग्ब्र्_1,1.29ज्) अन्तरिक्षं स्थानम्
(ग्ब्र्_1,1.29क्) <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [व्स् 1.1]>_इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते
(ग्ब्र्_1,1.29ल्) साम्नाम् आदित्यो देवतम्_
(ग्ब्र्_1,1.29म्) तद् एव ज्योतिः_
(ग्ब्र्_1,1.29न्) जागतं छन्दः_
(ग्ब्र्_1,1.29ओ) द्यौः स्थानम्
(ग्ब्र्_1,1.29प्) <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [स्व् 1.1]>_इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते_
(ग्ब्र्_1,1.29q) अथर्वणां चन्द्रमा देवतम्_
(ग्ब्र्_1,1.29र्) तद् एव ज्योतिः
(ग्ब्र्_1,1.29स्) सर्वाणि छन्दांसि_
(ग्ब्र्_1,1.29त्) आपः स्थानम्_
(ग्ब्र्_1,1.29उ) <शं नो देवीर् अभिष्टय [प्स् 1.1.1]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते_
(ग्ब्र्_1,1.29व्) अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति
(ग्ब्र्_1,1.29w) तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम्
(ग्ब्र्_1,1.29x) अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण च_
(ग्ब्र्_1,1.29य्) एतस्माद् व्यासः पुरोवाच
(ग्ब्र्_1,1.29z) भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत
(ग्ब्र्_1,1.29अअ) नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत
(ग्ब्र्_1,1.29ब्ब्) सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम्

1.30

(ग्ब्र्_1,1.30अ) अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः_
(ग्ब्र्_1,1.30ब्) आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत्_
(ग्ब्र्_1,1.30च्) अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः
(ग्ब्र्_1,1.30द्) सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम्

1.31

(ग्ब्र्_1,1.31अ) एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम
(ग्ब्र्_1,1.31ब्) स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति
(ग्ब्र्_1,1.31च्) तद् धि मौद्गल्यस्यान्तेवासी शुश्राव
(ग्ब्र्_1,1.31द्) स आचार्यायाव्रज्याचचष्टे
(ग्ब्र्_1,1.31ए) दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति
(ग्ब्र्_1,1.31f) किं सौम्य विद्वान् इति
(ग्ब्र्_1,1.31ग्) त्रीन् वेदान् ब्रूते भो इति
(ग्ब्र्_1,1.31ह्) तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति
(ग्ब्र्_1,1.31इ) तम् आजुहाव
(ग्ब्र्_1,1.31ज्) तम् अभ्युवाचासाव् इति
(ग्ब्र्_1,1.31क्) भो इति
(ग्ब्र्_1,1.31ल्) किं सौम्य त आचार्यो ऽध्येतीति
(ग्ब्र्_1,1.31म्) त्रीन् वेदान् ब्रूते
(ग्ब्र्_1,1.31न्) भो इति
(ग्ब्र्_1,1.31ओ) यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते
(ग्ब्र्_1,1.31प्) कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन्
(ग्ब्र्_1,1.31q) यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति
(ग्ब्र्_1,1.31र्) न ह्य् एनम् अध्येतीति
(ग्ब्र्_1,1.31स्) स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद_
(ग्ब्र्_1,1.31त्) अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम्_
(ग्ब्र्_1,1.31उ) यस्या भृग्वङ्गिरसश् चक्षुः_
(ग्ब्र्_1,1.31व्) यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति
(ग्ब्र्_1,1.31w) स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत्
(ग्ब्र्_1,1.31x) स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः
(ग्ब्र्_1,1.31य्) पुरा संवत्सराद् आर्तिम् आरिष्यसीति

1.32

(ग्ब्र्_1,1.32अ) स तत्राजगाम यत्रेतरो बभूव
(ग्ब्र्_1,1.32ब्) तं ह पप्रच्छ
(ग्ब्र्_1,1.32च्) स ह न प्रतिपेदे
(ग्ब्र्_1,1.32द्) तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत्
(ग्ब्र्_1,1.32ए) स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः
(ग्ब्र्_1,1.32f) पुरा संवत्सराद् आर्तिम् आरिष्यसीति
(ग्ब्र्_1,1.32ग्) स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्_
(ग्ब्र्_1,1.32ह्) दुरधीयानं वा अहं मौद्गल्यम् अवोचम्_
(ग्ब्र्_1,1.32इ) स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम्_
(ग्ब्र्_1,1.32ज्) तम् उपैष्यामि
(ग्ब्र्_1,1.32क्) शान्तिं करिष्यामीति
(ग्ब्र्_1,1.32ल्) स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः
(ग्ब्र्_1,1.32म्) किमर्थम् इति
(ग्ब्र्_1,1.32न्) दुरधीयानं वा अहं भवन्तम् अवोचम्_
(ग्ब्र्_1,1.32ओ) त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम्_
(ग्ब्र्_1,1.32प्) त्वाम् उपैष्यामि
(ग्ब्र्_1,1.32q) शान्तिं करिष्यामीति
(ग्ब्र्_1,1.32र्) स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आहुः_
(ग्ब्र्_1,1.32स्) अथो ऽयं मम कल्याणस् [पत्यल्ऽस् त्रन्स्ल्. इम्प्लिएस् थे एमेन्दतिओन् आहू रथो]
(ग्ब्र्_1,1.32त्) तं ते ददामि
(ग्ब्र्_1,1.32उ) तेन याहीति
(ग्ब्र्_1,1.32व्) स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आह_
(ग्ब्र्_1,1.32w) उपायामि त्वेव भवन्तम् इति
(ग्ब्र्_1,1.32x) तं होपेयाय
(ग्ब्र्_1,1.32य्) तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुर् धियो विचक्ष्व यदि ताः प्रवेत्थ
(ग्ब्र्_1,1.32z) प्रचोदयात् सविता याभिर् एतीति [एद्. प्रचोदयान्त्, चोर्र्. पत्यल्]
(ग्ब्र्_1,1.32अअ) तस्मा एतत् प्रोवाच वेदांश् छन्दांसि सवितुर् वरेण्यम्
(ग्ब्र्_1,1.32ब्ब्) भर्गो देवस्य कवयो ऽन्नम् आहुः कर्माणि धियस्
(ग्ब्र्_1,1.32च्च्) तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [एद्. प्रचोदयान्त्]
(ग्ब्र्_1,1.32द्द्) तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री

1.33

(ग्ब्र्_1,1.33अ) मन एव सविता वाक् सावित्री
(ग्ब्र्_1,1.33ब्) यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति_
(ग्ब्र्_1,1.33च्) एते द्वे योनी एकं मिथुनम्
(ग्ब्र्_1,1.33द्) अग्निर् एव सविता पृथिवी सावित्री
(ग्ब्र्_1,1.33ए) यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति_
(ग्ब्र्_1,1.33f) एते द्वे योनी एकं मिथुनम्_
(ग्ब्र्_1,1.33ग्) वायुर् एव सवितान्तरिक्षं सावित्री
(ग्ब्र्_1,1.33ह्) यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति_
(ग्ब्र्_1,1.33इ) एते द्वे योनी एकं मिथुनम्
(ग्ब्र्_1,1.33ज्) आदित्य एव सविता द्यौः सावित्री
(ग्ब्र्_1,1.33क्) यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति_
(ग्ब्र्_1,1.33ल्) एते द्वे योनी एकं मिथुनम्_
(ग्ब्र्_1,1.33म्) चन्द्रमा एव सविता नक्षत्राणि सावित्री
(ग्ब्र्_1,1.33न्) यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति_
(ग्ब्र्_1,1.33ओ) एते द्वे योनी एकं मिथुनम्
(ग्ब्र्_1,1.33प्) अहर् एव सविता रात्रिः सावित्री
(ग्ब्र्_1,1.33q) यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति_
(ग्ब्र्_1,1.33र्) एते द्वे योनी एक मिथुनम्
(ग्ब्र्_1,1.33स्) उष्णम् एव सविता शीतं सावित्री
(ग्ब्र्_1,1.33त्) यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति_
(ग्ब्र्_1,1.33उ) एते द्वे योनी एकं मिथुनम्
(ग्ब्र्_1,1.33व्) अभ्रम् एव सविता वर्षं सावित्री
(ग्ब्र्_1,1.33w) यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति_
(ग्ब्र्_1,1.33x) एते द्वे योनी एकं मिथुनम्_
(ग्ब्र्_1,1.33य्) विद्युद् एव सविता स्तनयित्नुः सावित्री
(ग्ब्र्_1,1.33z) यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति_
(ग्ब्र्_1,1.33अअ) एते द्वे योनी एकं मिथुनम्_
(ग्ब्र्_1,1.33ब्ब्) प्राण एव सवितान्नं सावित्री
(ग्ब्र्_1,1.33च्च्) यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति_
(ग्ब्र्_1,1.33द्द्) एते द्वे योनी एकं मिथुनम्_
(ग्ब्र्_1,1.33एए) वेदा एव सविता छन्दांसि सावित्री_ [एद्. ओमित्स् सेन्तेन्चे एन्द् मर्केर्]
(ग्ब्र्_1,1.33ff) यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति_
(ग्ब्र्_1,1.33ग्ग्) एते द्वे योनी एकं मिथुनम्_
(ग्ब्र्_1,1.33ह्ह्) यज्ञ एक सविता दक्षिणाः सावित्री
(ग्ब्र्_1,1.33इइ) यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति_
(ग्ब्र्_1,1.33ज्ज्) एते द्वे योनी एकं मिथुनम्
(ग्ब्र्_1,1.33क्क्) एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव_
(ग्ब्र्_1,1.33ल्ल्) अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति

1.34

(ग्ब्र्_1,1.34अ) ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत
(ग्ब्र्_1,1.34ब्) तत् तपस्व
(ग्ब्र्_1,1.34च्) यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत्
(ग्ब्र्_1,1.34द्) स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात्
(ग्ब्र्_1,1.34ए) तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः]
(ग्ब्र्_1,1.34f) पृथिव्य् अर्चं समदधात्_
(ग्ब्र्_1,1.34ग्) ऋचाग्निम्
(ग्ब्र्_1,1.34ह्) अग्निना श्रियम्_
(ग्ब्र्_1,1.34इ) श्रिया स्त्रियम्_
(ग्ब्र्_1,1.34ज्) स्त्रिया मिथुनम्_
(ग्ब्र्_1,1.34क्) मिथुनेन प्रजाम्_
(ग्ब्र्_1,1.34ल्) प्रजया कर्म
(ग्ब्र्_1,1.34म्) कर्मणा तपस् [एद्. कमणा]
(ग्ब्र्_1,1.34न्) तपसा सत्यम्_
(ग्ब्र्_1,1.34ओ) सत्येन ब्रह्म
(ग्ब्र्_1,1.34प्) ब्रह्मणा ब्राह्मणम्_
(ग्ब्र्_1,1.34q) ब्राह्मणेन व्रतम्_
(ग्ब्र्_1,1.34र्) व्रतेन वै ब्राह्मणः संशितो भवति_
(ग्ब्र्_1,1.34स्) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे

1.35

(ग्ब्र्_1,1.35अ) भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः_
(ग्ब्र्_1,1.35ब्) अन्तरिक्षेण यजुः समदधात्_
(ग्ब्र्_1,1.35च्) यजुषा वायुम्_
(ग्ब्र्_1,1.35द्) वायुनाभ्रम्
(ग्ब्र्_1,1.35ए) अभ्रेण वर्षम्_
(ग्ब्र्_1,1.35f) वर्षेणौषधिवनस्पतीन्
(ग्ब्र्_1,1.35ग्) ओषधिवनस्पतिभिः पशून्
(ग्ब्र्_1,1.35ह्) पशुभिः कर्म
(ग्ब्र्_1,1.35इ) कर्मणा तपस्
(ग्ब्र्_1,1.35ज्) तपसा सत्यम्_
(ग्ब्र्_1,1.35क्) सत्येन ब्रह्म
(ग्ब्र्_1,1.35ल्) ब्रह्मणा ब्राह्मणम्_
(ग्ब्र्_1,1.35म्) ब्राह्मणेन व्रतम्_
(ग्ब्र्_1,1.35न्) व्रतेन वै ब्राह्मणः संशितो भवति_
(ग्ब्र्_1,1.35ओ) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे

1.36

(ग्ब्र्_1,1.36अ) धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः_
(ग्ब्र्_1,1.36ब्) दिवा साम समदधात्
(ग्ब्र्_1,1.36च्) साम्नादित्यम्
(ग्ब्र्_1,1.36द्) आदित्येन रश्मीन् [एद्. रश्मि+ईन्]
(ग्ब्र्_1,1.36ए) रश्मिभिर् वर्षम्_
(ग्ब्र्_1,1.36f) वर्षेणौषधिवनस्पतीन्
(ग्ब्र्_1,1.36ग्) ओषधिवनस्पतिभिः पशून्
(ग्ब्र्_1,1.36ह्) पशुभिः कर्म
(ग्ब्र्_1,1.36इ) कर्मणा तपस्
(ग्ब्र्_1,1.36ज्) तपसा सत्यम्_
(ग्ब्र्_1,1.36क्) सत्येन ब्रह्म
(ग्ब्र्_1,1.36ल्) ब्रह्मणा ब्राह्मणम्_
(ग्ब्र्_1,1.36म्) ब्राह्मणेन व्रतम्_
(ग्ब्र्_1,1.36न्) व्रतेन वै ब्राह्मणः संशितो भवति_
(ग्ब्र्_1,1.36ओ) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे

1.37

(ग्ब्र्_1,1.37अ) तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम्_
(ग्ब्र्_1,1.37ब्) ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम्
(ग्ब्र्_1,1.37च्) आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः_
(ग्ब्र्_1,1.37द्) वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम्_
(ग्ब्र्_1,1.37ए) ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः_
(ग्ब्र्_1,1.37f) अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा
(ग्ब्र्_1,1.37ग्) भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम्
(ग्ब्र्_1,1.37ह्) अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः
(ग्ब्र्_1,1.37इ) प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम्_
(ग्ब्र्_1,1.37ज्) मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा
(ग्ब्र्_1,1.37क्) वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः_
(ग्ब्र्_1,1.37ल्) वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्]
(ग्ब्र्_1,1.37म्) तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि
(ग्ब्र्_1,1.37न्) तेषां यज्ञ एव परार्ध्यः

1.38

(ग्ब्र्_1,1.38अ) तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः_
(ग्ब्र्_1,1.38ब्) अयं यज्ञो वेदेषु प्रतिष्ठितः_
(ग्ब्र्_1,1.38च्) वेदा वाचि प्रतिष्ठिताः_
(ग्ब्र्_1,1.38द्) वाङ् मनसि प्रतिष्ठिता
(ग्ब्र्_1,1.38ए) मनः प्राणे प्रतिष्ठितम्_
(ग्ब्र्_1,1.38f) प्राणो ऽन्ने प्रतिष्ठितः_
(ग्ब्र्_1,1.38ग्) अन्नं भूमौ प्रतिष्ठितम्_
(ग्ब्र्_1,1.38ह्) भूमिर् अप्सु प्रतिष्ठिता_
(ग्ब्र्_1,1.38इ) आपो ज्योतिषि प्रतिष्ठिताः_
(ग्ब्र्_1,1.38ज्) ज्योतिर् वायौ प्रतिष्ठितम्_
(ग्ब्र्_1,1.38क्) वायुर् आकाशे प्रतिष्ठितः_
(ग्ब्र्_1,1.38ल्) आकाशं ब्रह्मणि प्रतिष्ठितम्_
(ग्ब्र्_1,1.38म्) ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम्_
(ग्ब्र्_1,1.38न्) यो ह वा एवंवित् स ब्रह्मवित्
(ग्ब्र्_1,1.38ओ) पुण्यां च कीर्तिं लभते सुरभींश् च गन्धान्_
(ग्ब्र्_1,1.38प्) सो ऽपहतपाप्मा_
(ग्ब्र्_1,1.38q) अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम्

1.39

(ग्ब्र्_1,1.39अ) <आपो गर्भं जनयन्तीर् [प्स् 4.1.8]> इति_
(ग्ब्र्_1,1.39ब्) अपां गर्भः पुरुषः
(ग्ब्र्_1,1.39च्) स यज्ञः_
(ग्ब्र्_1,1.39द्) अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते
(ग्ब्र्_1,1.39ए) तस्माद् आचमनीयं पूर्वम् आहारयति
(ग्ब्र्_1,1.39f) स यद् आचामति त्रिर् आचामति
(ग्ब्र्_1,1.39ग्) द्विः परिशुम्भति_
(ग्ब्र्_1,1.39ह्) आयुर् अवरुह्य पाप्मानं निर्णुदति_
(ग्ब्र्_1,1.39इ) उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय <जीवा स्थ [प्स् 19.55.12-15, श्स् 19.69.1-4]>_इति सूक्तेन त्रिर् आचामति
(ग्ब्र्_1,1.39ज्) स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति
(ग्ब्र्_1,1.39क्) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति_
(ग्ब्र्_1,1.39ल्) आपो ऽमृतम्_
(ग्ब्र्_1,1.39म्) स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति
(ग्ब्र्_1,1.39न्) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति_
(ग्ब्र्_1,1.39ओ) आपो ऽमृतम्_
(ग्ब्र्_1,1.39प्) स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति
(ग्ब्र्_1,1.39q) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम्_
(ग्ब्र्_1,1.39र्) नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति_
(ग्ब्र्_1,1.39स्) आपो ऽमृतम्_
(ग्ब्र्_1,1.39त्) पुरुषो ब्रह्म_
(ग्ब्र्_1,1.39उ) अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, बुत् सेए पत्यल् प्. 44]
(ग्ब्र्_1,1.39व्) प्राण एष स पुरि शेते संपुरि शेत इति
(ग्ब्र्_1,1.39w) पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण
(ग्ब्र्_1,1.39x) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(ग्ब्र्_1,1.39य्) स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे
(ग्ब्र्_1,1.39z) स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे
(ग्ब्र्_1,1.39अअ) स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे
(ग्ब्र्_1,1.39ब्ब्) स यद् द्विः परिशुम्भति तत् समित्संबर्हिः [एद्. संमित्, च्f. पत्यल् प्. 45]
(ग्ब्र्_1,1.39च्च्) स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे
(ग्ब्र्_1,1.39द्द्) स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद
(ग्ब्र्_1,1.39एए) तद् अप्य् एतद् ऋचोक्तम् आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥
(ग्ब्र्_1,1.39ff) अपां पुष्पं मूर्तिर् आकाशं पवित्रम् उत्तमम् इति_
(ग्ब्र्_1,1.39ग्ग्) आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत <इन्द्र जीव [प्स् 20.43.1, श्स् 19.70.1]>_इति ब्राह्मणं

मूल पाठ: Gopathabrāhmaṇa · Edition: Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919. · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc