भाषा

ENहिગુ
ग्रंथ पाठ

गोदावरीस्तोत्रम् · अध्याय 1

1

॥ गोदावरीस्तोत्रम् ॥
या स्नानमात्राय नराय गोदा गोदानपुण्याधिदृशिः कुगोदा॥
गोदासरैदा भुवि सौभगोदा गोदावरी साऽवतु नः सुगोदा

2

या गौपवस्तेर्मुनिना हृताऽत्र या गौतमेन प्रथिता ततोऽत्र॥
या गौतमीत्यर्थनराश्वगोदा गोदावरी साऽवतु नः सुगोदा

3

विनिर्गता त्र्यंबकमस्तकाद्या स्नातुं समायान्ति यतोऽपि काद्या॥
काऽऽद्याधुनी दृत्सततप्रमोदा गोदावरी साऽवतु नः सुगोदा

4

गङ्गोद्गतिं राति मृताय रेवा तपःफलं दानफलं तथैव॥
वरं कुरुक्षेत्रमपि त्रयं या गोदावरी साऽवतु नः सुगोदा

5

सिंहे स्थिते वागधिपे पुरोधः सिंहे समायान्त्यखिलानि यत्र॥
तीर्थानि नष्टाखिललोकखेदा गोदावरी साऽवतु नः सुगोदा

6

यदूर्ध्वरेतोमुनिवर्गलभ्यं तद्यत्तटस्थैरपि धाम लभ्यम्॥
अभ्यन्तरक्षालनपाटवोदा गोदावरी साऽवतु नः सुगोदा

7

यस्याः सुधास्पर्धि पयः पिबन्ति न ते पुनर्मातृपयः पिबन्ति॥
यस्याः पिबन्तोऽम्ब्वमृतं हसन्ति गोदावरी साऽवतु नः सुगोदा

8

सौभाग्यदा भारतवर्षधात्री सौभाग्यभूता जगतो विधात्री॥
धात्री प्रबोधस्य महामहोदा गोदावरी साऽवतु नः सुगोदा

9

समाप्लुता मया सा या सिषेवे पूर्वसागरम्॥
सप्तवक्त्रैस्तपः कृष्णसप्तम्यां सति वासरे

10

सप्तसुप्तेरसुप्ता सा गुप्ता सागरमध्यतः॥
गोदावरी वरीवर्ति न निद्राति कदाचन

॥ इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं गोदावरीस्तोत्रं संपूर्णम् ॥

मूल पाठ: godāvarīstotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc