भाषा

ENहिગુ
ग्रंथ पाठ

गीतार्थसंग्रह · श्लोक 21-32

21

अशास्त्रम् आसुरं कृत्स्नम् शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥

22

ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश् च शास्त्रसारार्थ उच्यते ॥

23

कर्मयोगस् तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥

24

भक्तियोगः पराइकान्त्यप्रीत्या ध्यानादिषु स्थितिः ।
त्रयानाम् अपि योगानां त्रिभिर् अन्योन्यसंगमः ॥

25

नित्यनैमित्तिकानां च पराराधनरूपिणम् ।
आत्मऋष्टेस् त्रयो ऽप्य् एते योगद्वारेण साधकाः ॥

26

निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवावाप्नोति तत्पदम् ॥

27

भक्तियोगस् तदर्थी चेत् समग्राइश्वर्यसाधनम् ।
आत्मार्थी चेत् त्रयो ऽप्य् एते तत्कैवल्यस्य साधकाः ॥

28

ऐकान्त्यं भगवत्य् एषां समानम् अधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत् तद् एवात्यन्तम् अशुनुते ॥

29

ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस् तदेकधीः ॥

30

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥

31

निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद् देवे तु ताम् अभीः ॥

32

ऐकान्त्यात्यन्तदास्यैकरतिस् तत्पदम् आप्नुयात् ।
तत्प्रधानम् इदं शास्त्रम् इति गीतार्थसंग्रहं ॥

मूल पाठ: Gītārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc