भाषा

ENहिગુ
ग्रंथ पाठ

गीतार्थसंग्रह · श्लोक 1-20

1

स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥

2

ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥

3

मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥

4

प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्म धीर् भक्तिर् इत्यादिपूर्वशेषो ऽन्तिमोदितः ॥

5

अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नम् उद्दिश्य शास्त्रावत्रणं कृतम् ॥

6

नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः ।
द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥

7

असक्त्या लोकरक्षायै गुणेष्व् आरोप्य कर्त्र्क्ताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥

8

प्रसङ्गात् स्वस्वभावोक्तिः कर्मणो ऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यम् चतुर्थाध्याय उच्यते ॥

9

कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः ।
ब्रह्मज्ञान्प्रकारश् च पञ्चमाध्याय उच्यते ॥

10

योगाभ्यासविधिर् योगी चतुर्धा योगसाधनम् ।
योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥

11

स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥

12

ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् ।
वेद्योपादेयभावानाम् अष्टमे भेदे उच्यते ॥

13

स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥

14

स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥

15

एकादशे ऽस्य याथात्म्यसाक्षात्कारावलोकनम् ।
दत्तम् उक्ता विदिप्राप्त्योर् भक्त्येकोपायता तथा ॥

16

भक्तिश्रैष्ठ्यम् उपायोक्तिर् अशक्तस्यात्मनिष्ठता ।
तत्प्रकारास् त्व् अतिप्रीतिर् भक्ते द्वादश उच्यते ॥

17

देहस्वरूपम् आत्माप्तिहेतुर् आत्मविशोधनम् ।
बन्धहेतुर् विवेकश् च त्रयोदश उदीर्यते ॥

18

गुणबन्धविधौ तेषां कर्तृत्वम् तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥

19

अचिन्मिश्राद् विशुद्धाच् च चेतनात् पुरुषोत्तमः ।
व्यापानाद् भरणात् स्वाम्याद् अन्यः पञ्चदशोदितः ॥

20

देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥

मूल पाठ: Gītārthasaṃgraha · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc