गीतगोविन्द · अध्याय 12
गतवति सखी-वृन्दे अमन्द-त्रपा-भर-निर्भर-
स्मर-पर-वश-आकूत-स्फीत-स्मित-स्नपित-अधराम् ।
सरस-मनसम् दृष्ट्वा राधाम् मुहुः नव-पल्लव-
प्रसव-शयने निक्षिप्त-अक्षीम् उवाच हरिः प्रियाम् ॥
किसलय-शयन-तले कुरु कामिनि चरण-नलिन-विनिवेशम् ।
तव पद-पल्लव-वैरि-पराभवम् इदम् अनुभवतु सुवेशम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
कर-कमलेन करोमि चरणमहम् आगमिता असि विदूरम् ।
क्षणम् उपकुरु शयन-उपरि माम् इव नूपुरम् अनुगत-शूरम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
वदन-सुधा-निधि-गलितम् अमृतमिव रचय वचनम् अनुकूलम् ।
विरहम् इव अपनयामि पयोधर-रोधकम् उरसि दुकूलम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
प्रिय-परिरम्भण-रभस-वलितम् इव पुलकितम् अतिदुरवापम् ।
मत्-उरसि कुच-कलशम् विनिवेशय शोषय मनसिज-तापम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
अधर-सुधा-रसम् उपनय भाविनि जीवय मृतम् इव दासम् ।
त्वयि विनिहित-मनसम् विरह-अनल-दग्ध-वपुषम् अविलासम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
शशि-मुखि मुखरय मणि-रशना-गुणम् अनुगुण-कण्ठ-निनादम् ।
श्रुति-युगले पिक-रुत-विकले मम शमय चिरात् अवसादम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
माम् अतिविफल-रुषा विकलीकृतम् अवलोकितुम् अधुना इदम् ।
मीलित-लज्जितम् इव नयनम् तव विरम विसृज रति-खेदम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
श्रीजयदेव-भणितम् इदम् अनुपद-निगदित-मधुरिपु-मोदम् ।
जनयतु रसिक-जनेषु मनोरम-रति-सभाव-विनोदम् ॥
क्षणम् अधुना नारायणम् अनुगतम् अनुसर राधिके ॥
मार-अङ्के रति-केलि-संकुल-रण-आरम्भे तया साहस-
प्रायम् कान्त-जयाय किंचित् उपरि प्रारम्भि यत्-सम्भ्रमात् ।
निष्पन्दा जघन-स्थली शिथिला दोः-वल्लिः उत्कम्पितम्
वक्षः मीलितम् अक्षि पौरुष-रसः स्त्रीणाम् कुतः सिध्यति ॥
अथ कान्तम् रति-क्लान्तम् अपि मण्डन-वाञ्छया ।
निजगाद निराबाधा राधा स्वाधीन-भर्तृका ॥
कुरु यदु-नन्दन चन्दन-शिशिरतरेण करेण पयोधरे ।
मृगमद-पत्रकम् अत्र मनोभव-मङ्गल-कलश-सहोदरे ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
अलि-कुल-गञ्जनम् अञ्जनकम् रति-नायक-सायक-मोचने ।
त्वत्-अधर-चुम्बन-लम्बित-कज्जलम् उज्ज्वलय प्रिय लोचने ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
नयन-कुरङ्ग-तरङ्ग-विकास-निरास-करे श्रुति-मण्डले ।
मनअसिज-पाश-विलास-धरे शुभ-वेश निवेशय कुण्डले ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
भ्रमर-चयम् रचयन्तम् उपरि रुचिरम् सुचिरम् मम संमुखे ।
जित-कमले विमले परिकर्मय नर्म-जनकम् अलकम् मुखे ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
मृगमद-रस-वलितम् ललितम् कुरु तिलकम् अलिक-रजनीकरे ।
विहित-कलङ्क-कलम् कमल-आनन विश्रमित-श्रम-शीकरे ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
मम रुचिरे चिकुरे कुरु मानद मानसज-ध्वज-चामरे ।
रति-गलिते ललिते कुसुमानि शिखण्डि-शिखण्डक-डामरे ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
सरस-घने जघने मम शम्बर-दारण-वारण-कन्दरे ।
मणि-रशना-वसन-आभरणानि शुभ-आशय वासय सुन्दरे ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
श्रीजयदेव-वचसि रुचिरे हृदयम् सदयम् कुरु मण्डने ।
हरि-चरण-स्मरण-अमृत-कृत-कलि-कलुष-भव-ज्वर-खण्डने ॥
निजगाद सा यदु-नन्दने क्रीडति हृदय-आनन्दने ॥
रचय कुचयोः पत्रम् चित्रम् कुरुष्व कपोलयोः
घटय जघने काञ्चीम् अञ्च स्रजा कबरी-भरम् ।
कलय वलय-श्रेणीम् पाणौ पदे कुरु नूपुरौ
इति निगदितः प्रीतः पीताम्बरः अपि तथा अकरोत् ॥
यत् गान्धर्व-कलासु कौशलम् अनुध्यानम् च यत् वैष्णवम्
यत् शृङ्गार-विवेक-तत्त्वम् अपि यत् काव्येषु लीलायितम् ।
तत् सर्वम् जयदेव-पण्डित-कवेः कृष्ण-एक-तान-आत्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥
श्रीभोजदेव-प्रभवस्य रामादेवी-सुत-श्रीजयदेवकस्य ।
पराशर-आदि-प्रिय-वर्ग-कण्ठे श्रीगीतगोविन्द-कवित्वम् अस्तु ॥
मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0