भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 3.25

3.25.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विशो ऽध्यायः
श्रीगरुडमहापुराणम्- 25
सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम् ।
स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ

3.25.2

देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु ।
अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः

3.25.3

शुचिर्भूत्वा श्रीनिवासं च देवास्तुप्तुं विविशुः शुद्धभक्त्या खगेन्द्र ।
यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र

3.25.4

तदा हरिं दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम् ।
सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोभिरामम्

3.25.5

सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम्

3.25.6

मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम् ।
पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम्

3.25.7

हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम् ।
जगन्मोहनसैन्दर्यं कोमलाङ्गं मनोहरम्

3.25.8

दृष्ट्वा च कन्या मुमुदे रोमाञ्चितसुगात्रका

3.25.9

तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा ।
ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण ।
आनन्द मां पाहि सुखं च दत्त्वा मुकुन्दा मां पाहि विमुक्तिदानात्

3.25.10

मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र ।
गोविन्द गोविन्द सुदुः खितां मां ज्ञानादिदानेन हि पाहि नित्यम्

3.25.11

जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा ।
हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान्

3.25.12

रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश ।
रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म

3.25.13

एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम् ।
लक्ष्म्या सदा ये ऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश

3.25.14

तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ ते ऽविदिता वै रमायाः ।
अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये

3.25.15

तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात् ।
रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व

3.25.16

यदि प्रसन्नोसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव ।
त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम्

3.25.17

त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम् ।
ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीनागुर्वादिकेषु

3.25.18

मा देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम् ।
त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम्

3.25.19

पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे ।
सद्वष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादरविन्दे

3.25.20

द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले ।
पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले

3.25.21

विद्यां पुत्रं द्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले ।
सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश

3.25.22

मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः ।
नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः

3.25.23

इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च ।
अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण

3.25.24

वक्ष्यामि मन्त्रं परमादरेण शृण्वद्य भक्त्या परमादरेण ।
अन्तः स्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम्

3.25.25

एकारयुक्तं प्रथमान्तः स्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च ।
तकारसक्तं स्वर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च

3.25.26

अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नान्त्र विचार्यमस्ति ।
एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम्

3.25.27

नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरः समीपे ।
तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः

3.25.28

सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः ।
साकं भक्त्या संप्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु

3.25.29

ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा ।
आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त

3.25.30

ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव ।
ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा

3.25.31

हस्तौ च मे सार्थकावद्य जातौ अग्रे कृत्वा हस्तशब्दं मुरारेः ।
एवं वदन्ती प्रीणयन्ती च देवं जगामसा स्तोत्रवचः कदम्बैः

3.25.32

देवास्तदा दुन्दुंभयो विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः ।
तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवतावारनार्यः

3.25.33

तथैव तास्तलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः ।
आनन्दशैले सर्वदा त्वित्थमेव सा सर्वदा नर्तयन्ती च वीन्द्र

3.25.34

आनन्दमग्ना सापि देवी जगाम स्वमाश्रमं जैगिषव्येण सार्धम् ।
यात्रामेवं ये न कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः

3.25.35

गत्वाश्रमं जैगिषव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रम् ।
मन्त्रस्यार्थं ब्रूहि मे जैगिषव्य मन्त्रावृत्तिं कुर्वतां वै फलाय

3.25.36

जैगीष्व्य उवाच ।
शृणुष्व भद्रे वेङ्कटे शस्य नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व

3.25.37

विति ह्युत्तमवाची स्याद्येति ज्ञानमुदाहृतम् ।
ककारः सुखवाची स्याट्टेति चित्तमुदाहृतम्

3.25.38

ईशत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके ।
पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्कटाभिधः

3.25.39

व्य (वे) मिन्द्रियादिकं प्रोक्तं व्यङ्गभूतं हरौ यतः ।
कटश्च समुदायार्थो व्यं (वें) कटश्चेन्द्रियौघकः

3.25.40

स्वस्मिन्प्रेरयते यस्मात्तस्माद्व्यङ्कटनामकः ।
विषये प्रेषयेन्नित्यमतो व्यङ्कटनामकः

3.25.41

विशिष्टज्ञानरूपत्वाद्व्येति मुक्ताः सदा स्मृताः ।
मुक्तानां च समूहस्तु व्यङ्कटेति प्रकीर्तितः

3.25.42

सदा मुक्तसमूहानामीशत्वाद्व्यङ्कटाभिधः ।
लिङ्गदेहमतो जीवो व्यङ्कटेति समाहृतः

3.25.43

लिङ्गानां चैव स्वामित्वाद्व्यङ्कटेशेति संज्ञितः ।
दैत्यानां च समूहास्तु ज्ञानादिविधुरा यतः ।
अतो दैत्यसमूहस्तु व्यङ्कटेति प्रकीर्तितः

3.25.44

तेषां संहरणे ईशस्त्वतो व्यङ्कटनामकः ।
आनन्दस्य विरुद्धत्वात्कामक्रोधादयो गुणाः

3.25.45

व्यङ्कटा इति संप्रोक्तास्तेषां नाशयिता प्रभुः ।
अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा जपं कुरु

3.25.46

एवं व्यङ्कटामाहात्म्यं श्रुत्वा देवी खगेश्वर ।
निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च ।
ब्राह्मे मुहूर्ते चोत्थयि हृदि सस्मार कन्यका

3.25.47

(व्यङ्कटेशस्य प्रातः स्तुतिः) ।
श्रीव्यङ्कटेशश्च नृसिंहमूर्तिः श्रीवरदराजश्च वराहमूर्तिः ।
श्रीरङ्गशायी च अनन्तशायी कुर्वन्तु सर्वे मम सुप्रभातम्

3.25.48

श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः ।
नारायणः श्रीबदरीनिवासः कुर्वन्तु सर्वे मम सुप्रभातम्

3.25.49

दामोदरो वै त्रिजगन्निवासः श्रीपाण्डुरङ्गश्च नृसिंहदेवः ।
श्रीरामदेवश्च अमोघवासः कुदृ

3.25.50

श्रीधर्मपुत्रश्च नृसिंहमूर्तिः श्रीपिप्पलस्थश्च मुहल्लवासः ।
कोलानृसिंहः शूर्पकारस्थ सिंहः कुर्वन्तुदृ

3.25.51

चतुर्मुखश्चारुसरस्वती च स्वभारती शर्वसुपर्णशेषाः ।
अमामहेद्रश्च शचीमुखास्ताः कुर्वन्तु दृ

3.25.52

द्वारावती काशिकावन्तिका च प्रयागकाञ्च्यौ मथुरापुरी च ।
मायावती हस्तिमती पुरी च कुर्वन्तु स दृ

3.25.53

भागीरथी चैव सरस्वती च गोदावरी सिंधुकृष्ण च वेणी ।
कलिन्दकन्या यमुना च नर्मदा कुर्व दृ

3.25.54

वितस्तिकावेरिसतुङ्गभद्राः सुवञ्जरा भीमरथी विपाशा ।
सुताम्रपर्णी च पिनाकिनी च कु दृ

3.25.55

स्वामिपुष्करिणी चैव सुवर्णमुखरी तथा ।
श्रीपाण्डवी तौबरुश्च कपिला पापनाशनी

3.25.56

गुरुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्

3.25.57

सप्तार्णवाः सप्त कुलाचलाश्च द्वीपाश्च सप्तोपवनानि सप्त ।
भूरादिकानि भुवनानि सप्त कुर्वन्तु स दृ

3.25.58

मान्धात्रा नहुषोंबरीषसगरौ राजा नलो धर्मराट् प्रह्लादः क्रतुराड् विभीषणगयौ व्यासो हनूमानपि ।
अश्वत्थाम कृपावुमा द्रुपदजा श्रीजानकी तारका मन्दोदर्यखिलाः प्रभातसुमहं कुर्वन्तु नित्यं हरे

3.25.59

अश्वत्थस्य वनानि किं च तुलसीधात्रीवनानि प्रभो पुन्नागस्य वनानि चंपकवनान्यन्यानि पुष्पाणि च ।
मन्दारस्य वनानि यानि च हरेः सौगन्धिकान्यप्यहो नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवेङ्कटेश प्रभो

3.25.60

एवं स्मृत्वा श्रीनिवासस्य देवी कृत्वा शौचं जैगिषव्येण साकम् ।
स्नातुं ययौ पुष्करिणीं हरेश्च स्नानं सम्यक् तत्र चकार देशे ।
सम्यग् जप्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc