भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 3.13

3.13.1

इति श्रीगारुडे महापुराणे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ब्रह्मस्तुतिवर्णनं नाम द्वादशो ऽद्यायः
श्रीगरुडमहापुराणम्- 13
श्रीकृष्ण उवाच ।
इति स्तुतः स भगवान् स्वपूत्रेण दयानिधिः ।
मेधगंभीरया वाचा प्रोवाच मधुसूदनः

3.13.2

सृज ब्रह्मन्निमान्देवान्मत्प्रसादात्क्रमेण च ।
यथा वै प्राक्क्षणेतद्वत्सृज सर्वं महाप्रभो

3.13.3

नास्ति प्रयोजनं तेन तव मत्प्रीतये सृज ।
एवमुक्तस्तु हारिणा ब्रह्मा स्तुत्वा हरिं परम्

3.13.4

सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवम् ।
महत्तत्वात्मको ब्रह्मा वायुं जीवभिमानिनम्

3.13.6

आदौ ससर्ज गरुड पुरुषात्मा स एव च ।
ततो दक्षिणहस्तात्तु ब्रह्माणीं भारन्ती तथा
(13.5)
असृजत्ते महाभागे अव्यक्तस्य नियामिके ।
वामहस्तात्सत्यपुत्रो महत्तत्वात्मको ऽनलः

3.13.7

ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मको हरः ।
आदौ शेषस्ततो जज्ञे गरुडतदनन्तरम्

3.13.8

तदनन्तरजो रुद्रः स एवं सृष्टवान्प्रभुः ।
स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः

3.13.9

वायुमुत्त्पाद्रयामास वत्सरानन्तरे प्रभुः ।
गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरम्

3.13.10

संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः ।
भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात्

3.13.11

अनन्तरं संबभूव गरुडस्तु ततः परम् ।
दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान्

3.13.12

शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः ।
दशवर्षानन्तरं तु ह्यसृजत्कमलासनः

3.13.13

गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः ।
दशवर्षानन्तरं च पार्वतीं च तथैव सः

3.13.14

पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् ।
दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः

3.13.15

अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः ।
दशवर्षानन्तरं तु शची तामसृजत्प्रभुः

3.13.16

इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् ।
असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम्

3.13.17

तदनन्तरजां देवीं दशवर्षादनन्तरम् ।
रतिं स जनयामास कामभार्यां महाप्रभुः

3.13.18

कामस्याप्यभिमानी तु स एव परिकीर्तितः ।
ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम्

3.13.19

दशवर्षानन्तरं तु निर्ममे नासिक ततः ।
तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम्

3.13.20

निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः ।
अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम्

3.13.21

निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम् ।
पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे

3.13.22

गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ।
स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः

3.13.23

पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे ।
शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम्

3.13.24

दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः ।
पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः

3.13.25

प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात् ।
दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम्

3.13.26

निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः ।
पञ्चवर्षानन्तरं तु ससर्ज भगवानजः

3.13.27

विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः ।
अनिरुद्धानन्तर तु शतवर्षादनन्तरम्

3.13.28

निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः ।
दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः

3.13.29

कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः ।
प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम्

3.13.30

यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम् ।
तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः

3.13.31

यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् ।
असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम्

3.13.32

नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः ।
वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम्

3.13.33

चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम् ।
सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम्

3.13.34

वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः ।
सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम्

3.13.35

रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम् ।
विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः

3.13.36

गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम् ।
वरुणस्यानन्तरं तु दशवर्षादनन्तरम्

3.13.37

उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम् ।
नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम्

3.13.38

अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः ।
अतो वागभिमानी सं पञ्चवर्षादनन्तरम्

3.13.39

स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम् ।
अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम्

3.13.40

दशवर्षानन्तरं तु भ्रुवोर्मध्याद्विनिर्ममे ।
संवत्सरानन्तरं तु भृगुभार्यां विनिर्ममे

3.13.41

भृगोरनन्तरं ब्रह्मा शतवर्षादनन्तरम् ।
कश्यपञ्जनयामास मनसा च स्वयं प्रभुः

3.13.42

संवत्सरानन्तरं तु अदितिं निर्ममे प्रभुः ।
कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम्

3.13.43

अत्रेरनन्तरं ब्रह्मा दशवर्षादनन्तरम् ।
अजीजनद्भरद्वाजं वसिष्ठ तदनतरम्

3.13.44

दशवर्षानन्तरं तु तेषां भार्याः क्रमेण तु ।
संवत्सरानन्तरेण असृजत्कमलासनः

3.13.45

वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत्प्रभुः ।
दशवर्षानन्तरेण जमदग्निं ततो ऽसृजत्

3.13.46

दशवर्षानन्तरेण मनुर्वैवस्वतो ऽभवत् ।
मनोरनन्तरं जज्ञे शतवर्षादनन्तरम्

3.13.47

विष्वक्सेनो महाभागो वायुपुत्रो महाबलः ।
तस्माच्चतुर्दशे वर्षे गणपो ह्यभवद्विभोः

3.13.48

तदनन्तरजो वीन्द्र अष्टवर्षादनन्तरम् ।
धनपो ह्यभवत्तत्र तद्भार्या वत्सरे परे

3.13.49

विष्वक्सेनानन्तरं तु दशवर्षादनन्तरम् ।
जयादीन्भ गवद्भक्तान्सृष्टवान् कमलासनः

3.13.50

जयाद्यानन्तरं ब्रह्मा वल्लाद्याः कर्मदेवताः ।
शतवर्षानन्तरं तु सृष्टवाञ्छिववाहनम्

3.13.51

कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरम् ।
पर्जन्यमसृज्ब्रह्मा मन्त्रयन्त्राभिमानिनम्

3.13.52

पर्जन्यानन्तरं ब्रह्मा दशवर्षादनन्तरम् ।
पुष्करं जनयामास कर्मतत्त्वाभिमानिनम्

3.13.53

एवं विनिर्ममे ब्रह्मा मत्प्रसादात्खगेश्वर ।
एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc