भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.7

2.7.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्विदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गमाहात्म्यनिरूपणं नाम षष्ठो ऽध्यायः
श्रीगरुडमहापुराणम्- 7
गरुड उवाच ।
श्रुतं मे महादाख्यानं वृषोत्सर्गफलं हरे ।
पुनरन्यां कथां ब्रूहि यत्र ते महिमाद्भुतः

2.7.2

श्रीकृष्ण उवाच ।
अहं ते कथयाम्यद्य संवादं परमाद्भुतम् ।
सन्तप्तकस्य च प्रेतैस्तद्रूपज्ञापनाय वै

2.7.3

विप्रः सन्तप्तकः कश्चित् तपसादग्धकिल्बिषः ।
संसारासारतां ज्ञात्वारण्यष्वेव चचार ह

2.7.4

वैखानसमुनिव्रातैः प्राणिपातकृतेक्षणः ।
स कदाचित् तीर्थयात्रामुद्दिश्य स्माटतिद्विजः

2.7.5

प्रत्याकृष्टेन्द्रियत्वाच्च बहिर्वृत्तिनिरोधकः ।
संस्कारमात्रगमनो मार्गभ्रष्टो बभूव ह

2.7.6

चलन्नेवं स्नानकाले मध्याह्ने ऽथाभिलाषुकः ।
जलस्योन्मील्य नयने दिशः सर्वा न्यभीलयत्

2.7.7

स ददर्श तदा गुल्मैर्वोरुद्वृक्षशतैश्चितम् ।
त्वक्सारैः शाखिशाखाभिः संकुलं गहनंवनम्

2.7.8

तत्र तालास्तमालाश्च प्रियालाः पनसास्तथा ।
श्रीपर्णो शालशाखोटस्यन्दनास्तिन्दुकास्तथा

2.7.9

सर्जार्जुनाम्रातकाश्च श्लेष्मा तकभिभीतकौ ।
पिचुमर्दश्चिञ्चिणी च कर्कन्धूकर्णिकारकाः

2.7.10

एते चान्ये च बहवो वृक्षास्तेषु न दृश्यते ।
पक्षिणामपि वै पन्था मनुष्यस्य कुतः पुनः

2.7.11

तस्मिन् वने महाघोरे सिंहव्याघ्रसमाकुले ।
तरक्षुगवयैरृक्षैर्महिषैश्च निषेविते

2.7.12

कुञ्ज रैरुरुभिर्नागैर्मर्कटैश्च तथामृगैः ।
श्वापदैश्च तथा चान्यैः पिशाचै राक्षसैर्वृते

2.7.13

सन्तप्तको द्विजः किञ्चिद्भयसन्त्रस्तमानसः ।
कान्दिशीकः समभवढ् यद्भविष्यो ययौ पुनः

2.7.14

झङ्कारेषु च झिल्लीनां घूकानां घूत्कृतेष्वपि ।
दत्तकर्णः कुनीलाङ्गश्चचाल पदपञ्चकम्

2.7.15

स तत्र वटवृक्षाग्रे स्नायुवद्धं शवं तथा ।
ददर्श तद्भुजश्चैव पञ्च प्रेतान् सुदारुणाम्

2.7.16

शिरास्थिचर्मशेषाङ्गान् पृष्ठलग्नोदरान् खग ।
त्यक्तान्नासिकया नेत्रकूपपातभयादिव

2.7.17

सूचीक्रककचकव्रातघातपातितकीकसान् ।
वसाक्तनवमस्तिष्कस्वादनित्यमहोत्सवान्

2.7.18

रणत्कोटिमहादंष्ट्रानस्थिग्रन्थ्यवघट्टितान् ।
तान्दृष्ट्वा त्रस्तहृदयो गतिमाकुञ्च्य संस्थितः

2.7.19

ते विलोक्यागतं विप्रमटवीं जनवर्जिताम् ।
अहं पूर्वमहं पूर्वं यामीत्याक्त्वा प्रदुद्रुवुः

2.7.20

तेषु द्वौद्वावगृह्णीतामस्य हस्तावथापरे ।
द्वौद्वौ पादावगृह्णीतां मूर्धानं पञ्चमो ऽग्रहीत्

2.7.21

स्वजात्युचितवाक्येन स्फुटवर्णवताब्रुवन् ।
अहं जक्षाम्यहं भक्षामीति कर्षणतत्पराः

2.7.22

सहसैव सहैवामुं गृहात्वा व्यगमन्वियम् ।
कियत्स्थितं बटौ मांसं क्रियन्नेतिन्यभालयन्

2.7.23

ते ऽपश्यन्निजदंष्ट्रायः पाटितान्त्रमिमं शवम् ।
अवतीर्य ततो व्योम्नो गृहीत्वा चरणैः

2.7.24

स्वखण्डितशरीरन्तु पुनर्व्योमैव चक्रमुः ।
स नीयमानमात्मानं विलोक्य वियति द्विजः

2.7.25

जगाम मनसा मां स शरणं भयविह्वलः ।
नमश्चक्रे चक्रधरं चेतसा चिन्मयं समम्

2.7.26

वक्रं नक्रं चक्रपातेन दूरे कृत्वा हृत्वा तस्य दुः खं मुकुन्दः ।
मातङ्गं यो ऽमूमुचन्नक्रवक्त्रात्पाशंसो ऽसौ कर्मणां मे लुनातु

2.7.27

रुद्धाञ्शुद्धान् भूपतीन्मागधेन भीमेनैनं घातयित्वा मुरारिः ।
निर्बद्धान्यो भर्गयज्ञाय मुक्तश्चक्रो मे ऽसौ कर्मपाशं लुनातु

2.7.28

मनसैवैह मामस्तौत्स्तूयमानो ऽहमुत्थितः ।
अगच्छं सहसा तत्र यत्र प्रेतैः स नीयते

2.7.29

दृष्ट्वा तैर्नोयमानन्तु कौतुकं मे ऽभवत्खग ।
पप्रच्छ न कियन्तं वै कालं तान्पृष्ठतो ऽन्वगाम्

2.7.30

मम सन्निधिमात्रेण द्विजातिं तञ्च सर्पहन् ।
तत्कालं शिविकासुप्तभूपालसुखमाविशत्

2.7.31

मणिभद्रास्ततो मेरुं गच्छन्दृष्टो मया पथि ।
निकोच्याक्षि स्वपार्श्वं स नीतो वै यक्षराण्मया

2.7.32

तमवोचं महायक्षं त्वं हि प्रतिभटो भव ।
प्रेतान्नाशय तद्भूयः शवञ्च हर तद्गतम्

2.7.33

इत्युक्तः स महाघोरं कृत्वा रोषं सुदुः सहम् ।
जग्राह प्रेतरूपं तत्प्रेतानामपि दुः खदम्

2.7.34

स विवृत्य स्वकौ बाहू सृक्किणी परिलेलिहन् ।
भेदयन्नुरुवातेन प्रेतांस्तान्संमुखो ययौ

2.7.35

बाहुभ्यां द्वौ द्वौ च पद्भ्यां मूर्ध्नैकं च समाहरत् ।
प्रेतानथापि सहसा जघान दृढमुष्टिना

2.7.36

ते विवर्णमुखाः सर्वे तं द्विजञ्च शवं तथा ।
एकैकं हस्तपादैश्च गृहीत्वा युद्धमारभन्

2.7.37

ते नखैस्तलघातैश्च पादघातैस्तथैव च ।
दंष्ट्राघातैश्च सर्वे तमेकं प्रेतं व्यदारयन्

2.7.38

तेषां प्रहारान्विफलान्कृत्वा संप्रति तानथ ।
जीवं न तु शवं तेषां जह्रे प्राणमिवान्तकः

2.7.39

हृतमात्रे शवे ते तु पारियात्रे गिरौ द्विजम् ।
मुक्त्वाधमात्रे प्रमुदिता एकं प्रेतं सुदारुणाः

2.7.40

स वायुगमनः प्रेतः प्राप्तस्तैः क्षणमात्रतः ।
अदृश्यतां ययौ ते ऽथ हताशा विप्रमागमन्

2.7.41

प्रारब्धमात्रे विप्रस्य पाटने तत्र पर्वते ।
मम स्थानस्य विप्रस्य महिम्नेव च तत्क्षणे

2.7.42

सद्यः स्मृतिः समुत्पन्ना तेषां पूर्वस्य जन्मनः ।
विप्रं प्रदक्षिणीकृत्यद्विजर्षभमथाब्रुवन्

2.7.43

अद्य नः क्षन्तुमर्हे ऽसीत्युक्त्वा ते सुरदाम्भिकाः ।
गिरेरिव परावर्तं समुद्रस्येव शोषणम्

2.7.44

तेषां तद्वचनं श्रुत्वापृच्छत्केयूयमित्यथ ।
किं माया किमु वा स्वप्न उताहो चित्तविभ्रमः

2.7.45

प्रेता ऊचुः ।
अवेहि तत्त्वमेवैतत्प्रेता वै कर्मजा वयम् ।
ब्राह्मण उवाच ।
किंनामानः किमाचाराः कथञ्चेमां दशां गताः

2.7.46

अविनीताः कथं पूर्वं विनीताः साम्प्रतं कथम् ।
प्रेता ऊचुः ।
शृणु विप्रेन्द्र वक्ष्यामः प्रश्रानामनुपूर्वशः

2.7.47

उत्तराणि महायोगिंस्त्वद्दर्शनगतांहसः ।
अहं पर्युषितो नाम्ना एष सूचीमुखः स्मृतः

2.7.48

तृतीयः शीघ्रगस्तुर्योरोधको लेखकः परः ।
ब्राह्मण उवाच ।
प्रेतानां कर्मजातानां कुतो नाम निरर्थकम्

2.7.49

निरुक्तिमेषां नाम्नां वै प्रेता वदत मा चिरम् ।
श्रीकृष्ण उवाच ।
एवमुक्तास्तु विप्रेण पृथगुत्तरमब्रुवन्

2.7.50

पर्युषित उवाच ।
कदाचिच्छ्राद्धकाले वै मया विप्रो निमन्त्रितः

2.7.51

स च कृत्वा विलम्बेन वृद्धो मद्गृहमागतः ।
अकृतश्राद्धकर्माहं तं पाकं भुक्तवान् क्षुधा

2.7.52

अददामन्नमाकृष्य विप्रे पर्युषितं कियत् ।
तस्मात् पापान्मृतः पापो योनिं वै कुत्सितां गतः

2.7.53

यतः पर्युषितं दत्तं ततः पर्युषितः स्मृतः ।
सूचीमुख उवाच ।
कदाचिद्ब्राह्मणी काचित्तीर्थं भद्रवटं ययौ

2.7.54

पञ्चवर्षसुता वृद्धा पुत्रमात्रैकजीविता ।
अहं क्षत्त्रियदायादस्तस्या रोधमकारिषम्

2.7.55

वने तु विजने तत्र पापाध्वगगतिं गतः ।
तस्याः सवस्त्रं पाथेयं तत्सूनोर्वसनानि च

2.7.56

गृहीतानि मया विप्र शिरस्यापीड्य मुष्टिना ।
तृषार्तस्तत्क्षणं बालः पात्रसंस्थं जलंपिबन्

2.7.57

तावन्मात्रोदके देशे मया हुङ्कृत्य वारितः ।
मयाथ सकलं पीतं जलं पात्रात्तृषावता

2.7.58

बालो ऽपि भयसन्त्रस्तः पिपासुर्व्यसुरापतत् ।
पुत्रशोकान्मृता माता कूपे प्रास्य निजं वपुः

2.7.59

एतस्मात्पातकाद्विप्र प्रेतत्वं प्राप्तवानहम् ।
सूच्यग्रप्रायविवरमुखः पर्वतदेहवान्

2.7.60

यद्यपि प्राप्नुयां भक्ष्यं भक्षितुन्तु न शक्यते ।
मया क्षुधानलेनापि ज्वलतास्यं निकोचितम्

2.7.61

अत आस्ये तु विवरं सूच्यग्रेण समंमम ।
एतस्मात्कारणाद्विप्रे नाम्ना सूचीमुखो ऽस्म्यहम्

2.7.62

शीघ्रग उवाच ।
पुराहं वैश्यजातीयः साकं सख्या च केनचित् ।
वाणिज्यं कर्तुमगमं देशमन्यं महाधनः

2.7.63

मित्रं च मे बहुधनं तस्य लोभो महांस्ततः ।
जातो ऽप्यदृष्टवैमुख्यान्मे नष्टं मूलमप्युत

2.7.64

ततस्तस्मात्तु निष्क्रान्तावावां नावाथ निम्नगाम् ।
मार्गगां तर्तुमारब्धौ लोहितायति भास्करे

2.7.65

सखा स च मदुत्सङ्गे सुष्वापाध्वक्लमाकुलः ।
अभूत्तदाति पापस्य क्रूरा मतिरतीव मे

2.7.66

तमुत्सङ्गगतं सूरे नष्टे पूरे ऽक्षिपं तदा ।
कत्कृत्यं कुर्वतो नावि लोकैस्तु ज्ञातमेव न

2.7.67

तस्य यद्वस्तु तत्सर्वं मणिमुक्तादिकाञ्चनम् ।
आदाय शीग्रगस्तस्माद्देशात्स्वगृहमागतः

2.7.68

तत्सर्वं स्वगृहे मुक्त्वा तस्य पत्न्यै न्यवेदयम् ।
दस्युभिर्मे हतो भ्राता धनमाच्छिद्य वै पथि

2.7.69

प्रजावति प्रद्रुतो ऽहं मा रोदीत्येवमब्रवम् ।
शोकार्ता सापि तत्कालं ममत्वं गृहबन्धुषु

2.7.70

त्यक्त्वा चाति प्रियान्प्राणाञ्जुहावाग्नौ यथाविधि ।
ततो निष्कण्टकं तद्धि वीक्ष्य हृष्टो गतो गृहम्

2.7.71

अभुञ्जं सर्वमागत्य यावज्जीवं तु तद्धनम् ।
मित्रं पूरे हि निः क्षिप्य यदहं शीघ्रमागतः

2.7.72

एतस्मात्कारणात्प्रेतः शीघ्रगो ऽहं तु नामतः ।
रोधक उवाच ।
अहन्तु शूद्रजातीयः पुराभूवं मुनीश्वर

2.7.73

राजप्रसादाप्तमहाशतग्रामाधिकारवान् ।
वृद्धौ मे पितरावास्तां लघुरेकः सहोदरः

2.7.74

शीघ्रं स च मया भ्राता लुब्धेनैकः पृथक्कृतः ।
आप्तवान्परमं दुःखं सोन्नवस्त्रविवर्जितः

2.7.75

अदत्तां पितरौ च्छन्नं किञ्चित्किञ्चित्तु तस्य च ।
तस्मै पितृभ्यां यद्दत्तमाप्तेभ्यस्तन्मया श्रुतम्

2.7.76

तत्सर्वं तत्त्वतो ज्ञात्वा पित्रो रोधमकारयम् ।
शून्यमन्दिर एकस्मिन्बद्ध्वा तु निगडैर्दृढैः

2.7.77

ततस्तौ जहतुः प्राणान्दुः खितौ विषपानतः ।
सोसौ बालो ऽपि बभ्राम पितृभ्यां रहितो द्विज

2.7.78

पुरः पत्तनखर्वाचान् खेटानपि मृतः क्षुधा ।
एतस्मात्पातकाद्विप्र मृतः प्रेतत्वमागतः

2.7.79

रुद्धौ तु पितरौ यस्मान्नाम्नाहं रोधकस्ततः ।
लेखक उवाच ।
अहं विप्र पुराभूवमवन्त्यां द्विजलसत्तमः

2.7.80

भद्रस्य राज्ञो देवानां पूजने ऽधिकृतो ह्यहम् ।
बह्व्यस्तु प्रतिमास्तत्र बभूवुर्बहुनामिकाः

2.7.81

हेम्नस्तदङ्गेषु बहु रत्नजातं बभूव ह ।
तासां मे कुर्वतः पूजां पापा मतिरजायत

2.7.82

अखिलं तीक्ष्णलोहेन तासामङ्गं विशीर्य च ।
उल्लेखनञ्च रत्नानां नेत्रादिभ्यः कृतं मया

2.7.83

तथाकृतान्यथाङ्गानि प्रतिमानां निरीक्ष्य च ।
नेत्राणि च विरत्नानि नृपश्चुक्रोध वह्निवत्

2.7.84

प्रतिजज्ञे नृपः पश्चादेष ब्राह्मणपुङ्गवः ।
आभ्यो रत्नं सुवर्णञ्च हृतं येन भविष्यति

2.7.85

ज्ञातश्च स हि मे वध्यो भविष्यति न संशयः ।
अहं तत्सकलं ज्ञात्वा रात्रावसिधरो गृहम्

2.7.86

राज्ञः प्रविश्य राजानं पशुमारममारयम् ।
गृहीत्वाथ मणीन् स्वर्णं निशीथे ऽहं गतो ऽन्यतः

2.7.87

व्याघ्रेण महातारण्ये नखटङ्कैर्विटङ्कितः ।
लेखनात्प्रतिमाया यन्मया लोहेन कर्तितम्

2.7.88

एतस्मात्पातकात्प्रेतो लेखको नामतो ऽस्म्यहम् ।
आसीन्नरकभोगान्ते नः प्रेतत्वमिदं द्विज

2.7.89

ब्राह्मण उवाच ।
संज्ञास्तादृश्य आख्याता यथैता भवता दशाः ।
वदन्त्वाचारमात्रं मे प्रेता आहारमप्युत

2.7.90

प्रेता ऊचुः ।
वेदमार्गानुसरणं लज्जा धर्मो दमः क्षमा ।
धृतिर्ज्ञानं नैव यत्र वयं तत्र वसामहे

2.7.91

तस्य पीडां वपं कुर्मो नैव श्राद्धं न तर्पणम् ।
यस्य गेहे तदङ्गात्तु मांसञ्च रुधिरं क्रमात्

2.7.92

जक्षामश्च पिबामश्च उक्त आचार एष नः ।
शृणु चाहारमस्माकं सर्वलोकविगर्हितम्

2.7.93

दृष्टस्त्वया च किञ्चिद्वै ब्रूमोज्ञातं त्वयानघ ।
वमनं विडू दूषिका च श्लेष्मा मूत्राश्रुणी तथा

2.7.94

एतद्भक्ष्यञ्च पानञ्च मा पृच्छातः परं द्विज ।
लज्जा नो जायते स्वामिन्नाहारं वदतां स्वकम्

2.7.95

अज्ञानास्तामसा मन्दा कान्दिशीका वयं विभो ।
अकस्माज्जन्मनां विप्र स्मृतिः प्राप्ता तु पौर्विकी

2.7.96

विनीतत्वाविनीतत्वे जानीमो नैव नः प्रभो ।
श्रीकृष्ण उवाच ।
एवं वदत्सु प्रेतेषु तथा श्रुतवति द्विजे

2.7.97

अदर्शयमहं रूपं तदा तार्क्ष्येदमेव वै ।
स तु दृष्ट्वा द्विजश्रेष्ठो हृद्गतं पुरुषं पुरः

2.7.98

स्तोत्रैस्तुष्टाव पक्षीश दण्डवत्प्रणनाम माम् ।
ते ऽपि तेपुस्ततः प्रेता आश्चर्योत्फुल्लचक्षुषः

2.7.99

प्रणयेन स्खलद्वाचः खग नोचुः किमप्युत ।
रजसा गोरचित्तानां तमसा मूढचेतसाम् ।
कृपया यः समुद्धारं कुरुषे वै नमो ऽस्त ते

2.7.100

एवं द्विजातौ ब्रुवति प्रभू तप्रभैश्च मुख्यांबरचारियुक्तैः ।
तदा मदिच्छाप्रभवैर्विमानैः षड्भिः समन्ताद्रुरुचे गिरिः सः

2.7.101

इत्थं विमानेन मदीयलोकं गतो द्विजरसो ऽप्यथ पञ्चमिस्तैः ।
प्रेता ययुः स्वर्गमगण्यपुण्यं सत्सङ्गसंसर्गवशात्सुपर्णम्

2.7.102

प्रेताः संगवशेन नाकमवन्सन्तप्तको ब्राह्मणो विष्वक्सन इति प्रसिद्धविभवो नाम्ना गणे मे ऽभवत् ।
एतत्ते सकलं मया निगादितं यश्चैतदुत्कीर्तयेद्यश्चेदं शृणुयान्न सो ऽपि पुरुषः प्रेतत्वमाप्नोति हि

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc