भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.47

2.47.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे जीवस्य शुभाशुभगतिनिरूपणं नाम षट्चत्वारिंशोध्यायः
श्रीगरुडमहापुराणम्- 47
गरुड उवाच ।
भगवन्देवदेवेश कृपया परया वद ।
दानं दानस्य माहात्म्यं वैतरण्याः प्रमाणकम्

2.47.2

श्रीकृष्ण उवाच ।
या सा वैतरणी नाम यममार्गे महासरित् ।
अगाधा दुस्तरा पापैर्दृष्टमात्रा भयावहा

2.47.3

पूयशोणिततोयाढ्या मांसकर्दमसकुंला ।
पापिनञ्चागतान्दृष्ट्वा नानाभयसमावृता

2.47.4

क्वाथ्यते सत्वरं तोयं पात्रमध्ये घृतं यथा ।
क्रिमिभिः सङ्कुलं पूयं वज्रतुण्डैः समावृतम्

2.47.5

शिशुमारैश्च मकरैर्वज्रकर्तरिकायुतैः ।
अन्यैश्च जलजीवैश्च हिंसकैर्मांसभेदिभिः

2.47.6

उद्यान्ति द्वादशादित्याः प्रलयान्ते तथा हि ते ।
तपन्ति तत्र वै मर्त्याः क्रन्द मानास्तु पापिनः

2.47.7

हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः ।
विचरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः

2.47.8

चतुर्विधैः प्राणिगणैर्दृष्टा व्याप्ता महानदी ।
तरन्ति गोप्रदानेन त्वन्यथा च पतन्ति ते

2.47.9

मां नरा ये ऽवमन्यन्ते चाचार्यं गुरुमेव च ।
वृद्धानन्यांश्चापि मूढास्तेषां वासस्तु तत्र वै

2.47.10

पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ।
परित्यजन्ति ये मूढास्तेषां वासस्तु सन्ततम्

2.47.11

विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ।
स्त्रीबालविकलादीनां वधं कृत्वा पतन्ति हि ।
पच्यन्ते तत्र मध्ये तु क्रन्दमानास्तु पापिनः

2.47.12

शान्तं बुभुक्षितं विप्रंयो विघ्नायोपसर्पति ।
क्रिमिभिर्भक्ष्यते तत्र यावदाभूतसंप्लवम्

2.47.13

ब्राह्मणाय प्रतीश्रुत्य यमार्थं न ददाति तम् ।
आहूय नास्ति यो ब्रूयात्तस्य वासस्तु तत्र वै

2.47.14

अग्निदो गरदश्चैव कूटसाक्षी च मद्यपः ।
यज्ञविध्वंसकश्चैव राज्ञीगामी च पैशुनः

2.47.15

कथाभङ्गकरश्चैव स्वयन्दत्ता पहारकः ।
क्षेत्रसेतुविभेदी च परदारप्रधर्षकः

2.47.16

ब्राह्मणो रसविक्रेता तथा यो वृषलीपतिः ।
गोधनस्य तृषार्तस्य वाप्या भेदं करोति यः

2.47.17

कन्याविदूषकश्चैव दानं दत्त्वानुतापकः ।
शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः

2.47.18

एते वसन्ति सततं मा विचारं कृथाः क्वचित् ।
कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग

2.47.19

सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत् ।
परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम्

2.47.20

यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः ।
कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति

2.47.21

कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि ।
सानुकूला भवेद्येन तदाकर्णय काश्यप

2.47.22

अयने विषुवे पुण्ये व्यतीपाते दिनोदये ।
चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे

2.47.23

अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ।
यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम्

2.47.24

तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा ।
अनित्यानि शरीराणि विभवो नैव शाश्वतः

2.47.25

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः ।
कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम्

2.47.26

स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम् ।
कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम्

2.47.27

कार्पासद्रोणशिखरे आसीनं ताम्रभाजने ।
यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।
इक्षुदण्डमयं बद्ध्वा प्लवं सुदृढबन्धनैः

2.47.28

उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।
कृत्वा प्रकल्पयेद्विप्रश्छत्रोपानहसंयुतम्

2.47.29

अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।
इममुच्चारयेन्मन्त्रं संगृह्य सजलान्कुशान्

2.47.30

यमद्वारे महाघोरे श्रुत्वा वैतरणीं तदीम् ।
तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः

2.47.31

गावो मे अग्रतः सन्तु गावो मे सन्तु पार्श्वतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्

2.47.32

विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणीनमः

2.47.33

धर्मराजञ्च सर्वेशं वैतरण्याख्यधेनुकाम् ।
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत्

2.47.34

पुच्छं संगृह्य धेन्वाश्च अग्रे कृत्वा तु वै व्दिजम् ।
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये

2.47.35

उत्तारणाय देवेशि वैतरण्ये नमो ऽस्तु ते ।
अनुव्रजेत्तु गच्छन्तं सर्वं तस्य गृहं नयेत्

2.47.36

एवं कृते वैनतेय सा सरित्सुतरा भवेत् ।
सर्वान्कामानवाप्नोति यो दद्याद्भुवि मानवः

2.47.37

सुकृतस्य प्रभावेण सुखञ्चेह परत्र च ।
स्वस्थे सहस्रगुणितमातुरे शतसंमितम्

2.47.38

मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।
स्वहस्तेन ततो देयं मृते कः कस्य दास्यती

2.47.39

दानधर्मविहीनानां कृपणैर्जीवेतक्षितैः ।
अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत्

2.47.40

अवश्यमेव यास्यन्ति प्राणाः प्राघुणि (घूर्णि) का इव

2.47.41

इतीदमुक्तं तव पक्षिराज विडम्बनं जन्तुगणस्य सर्वम् ।
प्रेतस्य मोक्षाय तदौद्ध्वन्दैहिकं हिताय लोकस्य चरेच्छुभाय तु

2.47.42

सूत उवाच ।
एवं विप्राः समाद्दिष्टो विष्णुना प्रभविष्णुना ।
गरुड प्रेतचरितं श्रुत्वा सन्तुष्टिमागतः

2.47.43

व्रततीर्थादिकं सर्वं पुनः पप्रच्छ केशवम् ।
ध्यात्वा मनसि सर्वेशं सर्वकारणकारणम्

2.47.44

ऋषयः सर्वमेवैतज्जन्तूनां प्रभवादिकम् ।
मरणं जन्म च तथा प्रेतत्वञ्चौर्ध्वदैहिकम्

2.47.45

मया प्रोक्तं वै मुक्त्यै निदानं चैव सर्वशः ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः

2.47.46

धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधो विष्णुर्जयति नासुराः

2.47.47

विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।
येषामेव स्थिरा बुद्धिर्न तेषां दुर्गतिर्भवेत्

2.47.48

मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः

2.47.49

हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ।
भागीरथी हरिर्विप्राः सारमेतज्जगत्त्रये

2.47.50

इति सूतमुखोद्गीर्णां सर्वशास्त्रार्थमण्डिताम् ।
वैष्णविं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः

2.47.51

प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् ।
प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः

2.47.52

अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc