भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.25

2.25.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे ऽल्पायुर्मरणहे तुबालान्त्येष्ट्योर्निरूपणं नाम चतुर्विशो ऽध्यायः
श्रीगरुडमहापुराणम्- 25
श्रीविष्णुरुवाच ।
अतः परं प्रवक्ष्यामि पुरुषस्त्री विनिर्णयम् ।
जीवन्वापि मृतो वापि पञ्चवर्षाधिको ऽपि वा

2.25.2

पूर्णे तु पञ्चमे वर्षे पुमांश्चैव प्रतिष्ठितः ।
सर्वैन्द्रियाणि जानाति रूपारूपविपर्ययौ

2.25.3

पूर्वकर्मविपाकेन प्राणिनां वधबन्धनम् ।
विप्रादीनन्त्यजान्सर्वान्पापं मारयति ध्रुवम्

2.25.4

गर्भे नष्टे क्रिया नास्ति दुग्धं देयं मृते शिशौ ।
परं च पायसं क्षीरं दद्याद्वलविपत्तितः

2.25.5

एकादशाहं द्वादशाहं वृषं वृषविधिं विना ।
महादानविहीनं च कुमारे कृत्यमादिशेत्

2.25.6

कुमाराणां चैव बालानां भोजनं वस्त्रवेष्टनम् ।
बाले वा तरुणे वृद्धे घटो भवति वै मृते

2.25.7

भूमौ विनिः क्षिपेद्बालं द्विमासोनं द्विवार्षिकम् ।
ततः परं खगश्रेष्ठ देहदाहो विधोयते

2.25.8

शिशुरा दन्तजननाद्बालः स्याद्यावदाशिखम् ।
कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात्

2.25.9

शूद्रादीनां कथं कुर्यात्संशयो मौञ्जिवर्जनात् ।
गर्भाच्च नवमं हित्वा शिशुरामासषोडशम्

2.25.10

बालश्चाथ परञ्ज्ञेय आमाससप्तविंशति ।
आ पञ्च वर्षात्कौमारः पौगण्डो नवहांयनः

2.25.11

किशोरः षोडशाब्दः स्यात्ततो यौवनमादिशेत् ।
मृतो ऽपि पञ्चमे वर्षे अवृतः सवृतो ऽपि वा

2.25.12

पूर्वोक्तमेव कर्तव्यमीहते दशपिण्डकम् ।
स्वल्पकर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनात्

2.25.13

स्वल्षाद्वपुषि वस्त्राच्च क्रियां स्वल्पामपीच्छति ।
यावदुपचयो जन्तुर्यावद्विषयवेष्टितः

2.25.14

यद्यद्यस्योपजीव्यं स्यात्तत्तद्देयमिहेच्छति ।
ब्रह्मबीजोद्भवाः पुत्रा देवर्षोणां च वल्लभाः

2.25.15

यमेन यमदूतैश्च शास्यन्ते निश्चितं खग ।
बालो वृद्धो युबा वापि घटमिच्छन्ति देहिनः

2.25.16

सुखं दुः खं सदा वेत्ति देही वै सर्वगस्त्विह ।
परित्यज्य तदात्मानं जीर्णां त्वचमिवोरगः

2.25.17

अङ्गुष्ठमात्रः पुरुषो वायुभृतः क्षुधान्वितः ।
तस्माद्देयानि दानानि मृते बाले सुनिश्चितम्

2.25.18

जन्मतः पञ्च वर्षाणि भुङ्क्ते दत्तमसंस्कृतम् ।
पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते

2.25.19

वृषोत्सर्गादिकं कर्म सपिण्डीकरणं विना ।
द्वादशे हनि सम्प्राप्ते कुर्याच्छ्राद्धानि षोडश

2.25.20

पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् ।
उदकुम्भप्रदानं च पद (उप) दानानि यानि च

2.25.21

भोजनानि द्विजे दद्यान्महादानादि शक्तितः ।
दीपदानादि यत्किञ्चित्पञ्चवर्षाधिके सदा

2.25.22

कर्तव्यं च खगश्रेष्ठ व्रतात्प्राक् प्रेततृप्तये ।
यदा नक्रियते सर्वं मुद्गलत्वं स गच्छति

2.25.23

व्रतात्प्राङ्गेव देयं तु ततः पितृगणस्य च ।
स्वाहाकारेण वै कुर्यादेकोद्दिष्टानि षोडश

2.25.24

ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीति निश्चितम् ।
अपसव्यं च कर्तव्यं कृते यान्ति परां गतिम्

2.25.25

पुनश्चिरायुषो भूत्वा जायन्ते स्वकुले ध्रुवम् ।
सर्वसौख्यप्रदः पुत्रः पित्रोः प्रीतिविवर्धनः

2.25.26

आकाशमेकं हि यथा चन्द्रादित्यौ यथैकतः ।
घटादिषु पृथक् सर्वं पश्य रूपं च तत्समम्

2.25.27

आत्मा तथैव सर्वेषु पुत्त्रेषु विचरेत्सदा ।
या यस्य प्रकृतिः पूर्वं शुक्रशोणितसङ्गमे

2.25.28

सा (स) तेन भावयोगेन पुत्त्रास्तत्कर्मकारिणः ।
पितृरूपं समादाय कस्यचिज्जायते सुतः

2.25.29

पितृतः को ऽपि रूपाढ्यो गुणज्ञो दानतत्परः ।
सदृशः को ऽपि लोके ऽस्मिन्न भूतो न भविष्यति

2.25.30

अन्धादन्धो न भवति मूकान्मूको न जायते ।
बधिराद्बधिरो नैव विद्यावान्विदुषो न हि ।
अनुरूपा न दृश्यन्ते मदीयं वचनं शृणु

2.25.31

गरुड उवाच ।
औरसक्षेत्रजाद्याश्च पुत्त्रा दशविधाः स्मृताः ।
संगृहीतः सुतो यस्तु दासीपुत्त्रश्च तेन किम्

2.25.32

काङ्कां गतिमवाप्नोति जायो मृत्युवशं गतः ।
भवेन्न दुहिता यस्य न दौहित्रो न वा सुतः

2.25.33

श्राद्धं तस्य कथं कार्यं विधिना केन तद्भवेत् ।
श्रीभगवानुवाच ।
मुखं दृष्ट्वा तु पुत्रस्य मुच्यते पैतृकादृणात्

2.25.34

पौत्त्रस्य दर्शनाज्जन्तुर्मुच्यते चः ऋणत्रयात् ।
लोकानन्त्यं दिवः प्राप्तिः पुत्त्रपौत्त्र प्रपौत्त्रकैः

2.25.35

अन्यक्षेत्रोद्भवाद्या ये भुक्तिमात्रप्रदाः सुताः ।
कुर्वीत पार्वणं श्राद्धमारैसो विधिवत्सुतः

2.25.36

कुर्वन्त्यन्ये सुताः श्राद्धमे कोद्दिष्टं न पार्वणम् ।
ब्राह्मोढाजस्तून्नयति संगृहीतस्त्वधो नयेत् ।
श्राद्धं सांवत्सरं कुर्वञ्जायते नरकाय वै

2.25.37

सर्वदानानि देयानि ह्यन्न दानादृते खग ।
संगृहीतः सुतः कुर्यादेकोद्दिष्टं न पार्वणम्

2.25.38

प्रत्यब्दं पितृमातृभ्यां श्राद्धं दत्त्वा न लिप्यते ।
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि

2.25.39

आत्मानं च पितॄंश्चैव स नयेद्यममन्दिरम् ।
संगृहीतस्तु यः केचिद्दासीपुत्त्रादयश्च ये

2.25.40

तीर्थे कुर्युः पितृश्राद्धं दानं (मासं) दद्युर्द्विजन्मने ।
संगृहीतसुतो भूत्वा पाकं वा यः प्रयच्छति

2.25.41

वृथा श्राद्धं विजानीयाच्छूद्रान्नेन यथा द्विजः ।
न प्रीणयति तच्छ्राद्धं पितामहमुखान्पितॄन् ।
एवं ज्ञात्वा स्वगश्रेष्ठ हीनजातीन्सुतांस्त्यजेत्

2.25.42

(ब्राह्मण्यां ब्राह्मणाज्जातश्चाण्डालादधमः स्मृतः ) ।
यस्तु प्रव्रजिताज्जातो ब्राह्मण्यां शूद्रतश्च यः

2.25.43

द्वावेतौ विद्धि चाण्डालौ सगोत्राद्यस्तु जायते ।
स्वर्यातिविहितान्पुत्रः समुत्पाद्य खगेश्वर

2.25.44

तैः सुवृत्तैः सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेत् ।
हीनजातिसमुद्भूतैः सुवृत्तैः सुखमेधते

2.25.45

कलिकलुषविमुक्तः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानो ऽप्सरोभिः ।
पितृशतमपि बन्धून्पुत्त्रपौत्त्रप्रपौत्त्रानपि नरकनिमग्नानुद्धरेदेक एव

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc