भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.13

2.13.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे मृतस्य धर्ममात्रानुयायित्वनिरूपणं नाम द्वादशो ऽध्यायः
श्रीगरुडमहापुराणम्- 13
गरुड उवाच ।
कर्मणा केन देवेश प्रेतत्वं नैव जायते ।
पृथिव्यां सर्वजन्तूनां तद् ब्रूहि परमेश्वर

2.13.2

श्रीकृष्ण उवाच ।
अथ वक्ष्यामि संक्षेपात्क्षयाहादौर्ध्वदैहिकम् ।
क्वहस्तेनैव कर्तव्यं मोक्षकामैस्तु मानवैः

2.13.3

स्त्रीणामपि विशेषेण पञ्चवर्षाधिके शिशौ ।
वृषोत्सर्गादिकं कर्म प्रेतत्वविनिवृत्तये ।
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले

2.13.4

जीवन्वापि मृतो वापि वृषोत्सर्गं करोति यः ।
प्रेतत्वं न भवेत्तस्य विना दानमखव्रतैः

2.13.5

गरुड उवाच ।
कस्मिन्काले वृषोत्सर्गं जीवन्वापि मृतो ऽपि वा ।
कुर्यात्सुरवरश्रेष्ठ ब्रूहि मे मधुसूदन

2.13.6

किं फलं तु भवेदन्ते कृतैः श्राद्धैस्तु षोडशैः

2.13.7

श्रीकृष्ण उवाच ।
अकृत्वा तु वृषोत्सर्गं कुरुते पिण्डपातनम् ।
नोपतिष्ठति तच्छ्रेयो दातुः प्रेतस्य निष्फलम्

2.13.8

एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि

2.13.9

गरुड उवाच ।
सर्पाद्धि प्राप्तमृत्यूनामग्निदाहादि न क्रिया ।
जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि

2.13.10

असन्मृत्युमृतानां च कथं शुद्धिर्भवत्प्रभो ।
एतन्मे संशयं देव च्छेत्तुमर्हस्यशेषतः

2.13.11

श्रीकृष्ण उवाच ।
षण्मासैर्ब्राह्मणः शुध्येद्युग्मे सार्धे तु बाहुजः ।
सार्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति

2.13.12

दत्त्वा दानान्यशेषाणि सुतीर्थे म्रियते यदि ।
ब्रह्मचारी शुचिर्भूत्वा न स यातीह दुर्गतिम्

2.13.13

वृषोत्सर्गादिकं कृत्वा यतिधर्मं समाचरेत् ।
यतित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्मशाख्वतम्

2.13.14

विकर्म कुरुते यस्तु शिष्टाचारविवर्जितः ।
वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम्

2.13.15

पुत्त्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा ।
गोत्रिणश्चार्थभागी च मृते कुर्याद् वृषोत्सवम्

2.13.16

पुत्राभावे तु पत्नी स्याद्दौहित्त्रो दुहीतापि वा ।
पुत्त्रेषु विद्यमानेषु वृषं नान्येन कारयेत्

2.13.17

गरुड उवाच ।
पुत्त्रा यस्य न विद्यन्ते नरा नार्यः सुरेश्वर ।
एतन्मे संशयं देव च्छेतुमर्हस्यशेषतः

2.13.18

श्रीकृष्ण उवाच ।
अपुत्त्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्केनाप्युपायेन पुत्त्रस्य जननं चरेत्

2.13.19

यानि कानि च दानानि स्वयं दत्तानि मानवैः ।
तानितानि च सर्वाणि तूपतिष्ठन्ति चाग्रतः

2.13.20

व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च ।
स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम्

2.13.21

गोभूहिरण्यवासांसि भोजनानि पादनि च ।
यत्रयत्र वसेज्जन्तुस्तत्रतत्रोपतिष्ठति

2.13.22

यावत्स्वस्थं शरीरं हि तावद्धर्मं समाचरेत् ।
अस्वस्थः प्रेरितश्चान्यैर्नाकिञ्चित्कर्तुमर्हति

2.13.23

जीवतो ऽपि मृतस्येह न भूतं चौर्ध्वदैहिकम् ।
वायुभूतः क्षुधाविष्टो भ्रमते च दिवानिशम्

2.13.24

कृमिः कीटः पतङ्गो वा जायते म्रियते पुनः ।
असद्गर्भे भवेत्सो ऽपि जातः सद्यो विनश्यति

2.13.25

यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc