भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.1

2.1.1

ओं
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे गरुडपुराणमाहात्म्यं नाम चत्वारिंशदुत्तरद्विशततमो ऽध्यायः
शुभं भूयात् ।
इति श्रीगारुडे प्रथमांश आचारकाण्डः समाप्तः ।
श्रीगरुडमहापुराणम्
श्रीगणेशाय नमः ।
तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते ।
ओं नमो भगवते वासुदेवाय ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ गर्प्_2,1.मन्ग् ॥
धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः ।
क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति

2.1.2

नैमिषे ऽनिमिषक्षेत्रे शौनकाद्या मुनीश्वराः ।
कर्मणामन्तरे सूतं स्वासीनमिदमब्रुवन्

2.1.3

सूत जानासि सकलं वस्तु व्यासप्रसादतः ।
तेन नः सन्दिहानानां सन्देहं छेत्तुमर्हसि

2.1.4

यथा तृणजलौकेति न्यायमा श्रित्य कञ्चन ।
देहिनो ऽन्यतनुप्राप्तिं केचित्त्वेवं वदन्ति हि

2.1.5

केचित्पुनर्यातनानां यामीनामुपभोगतः ।
पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्रसत्

2.1.6

सूत उवाच ।
साधु पृष्टं महाभागाः शृणुध्वं भवतां पुनः ।
सन्देहो नोपपद्येत लोकार्थं किल पृच्छताम्

2.1.7

तदहं कृष्णगरुडसंवादद्वारकं द्विजाः ।
अपाकरिष्ये सन्देहं भवतां भावितात्मनाम्

2.1.8

नमः कृष्णाय मुनये य एनं समुपाश्रिताः ।
अञ्जस्तरन्ति संसारसागरं कुनदीमिव

2.1.9

एकदा वैनतेयस्य लोकानां लोकनस्पृहा ।
बभूव सो ऽथ बभ्राम तेषु नाम हरेर्गृणन्

2.1.10

स पातालं भुवं स्वर्गं भ्रान्त्वालब्धशमाशयः ।
लोकदुः खेनातिदुः खी पुनर्वैकुण्ठमागमत्

2.1.11

न रजो न तमश्चैव सत्त्वं ताभ्यां च मिश्रितम् ।
यत्र प्रवर्तते नैव सत्त्वमेव प्रवर्तते

2.1.12

न यत्र माया नाशश्च न चै रागादयो मलाः ।
श्यामावदाताः सुरुचः शतपत्रविलोचनाः

2.1.13

सुरासुरार्चिता यत्र गणा विष्णोः सुपेशसः ।
पिशङ्गवस्त्राभारणा मणियुङ्निष्कभूषिताः

2.1.14

चतुर्भुजाः कुण्डलिनो मौलिनो मालिनस्तथा ।
भ्राजिष्णुभिर्विमानानां पङ्किभिर्ये महात्मनाम्

2.1.15

द्योतन्ते द्योतमानानां प्रमदानां च पङ्क्तिभिः ।
श्रीर्यत्र नानाविभवैर्हरेः पादौ मुदार्चति

2.1.16

हरिं गायति दोलास्थं गीयमानालिभिः स्वयम् ।
ददर्श श्रीहरिं तत्र श्रीपतिं सात्वतां पतिम्

2.1.17

जगत्पतिं यज्ञपतिं पार्षदैः परिषेवितम् ।
सुनन्दनन्दप्रबलार्हणमुख्यैर्निरन्तरम्

2.1.18

भृत्यप्रसादसुमुखमायतारुणलोचनम् ।
किरीटिनं कुण्डलिनं श्रिया वक्षसि लक्षितम्

2.1.19

पीतांशुकं चतुर्बाहुं प्रसन्नहसिताननम् ।
अभ्यर्हणासनासीनं ताभिः शक्तिभिरावृतम्

2.1.20

प्रधानपुरुषाभ्यां च महता चाहमा तथा ।
एकादशोन्द्रियैश्चैव पञ्चभूतैस्तथैव च

2.1.21

स्वरूपेरममाणं तमीश्वरं विनतासुतः ।
तद्दर्शनाह्लादयुतस्वान्तो हृष्यत्तनूरुहः

2.1.22

लोचनाभ्यामश्रु मुञ्चन्प्रेममग्नो ननाम ह ।
नमागतं नतं स्वीय वाहनं विष्णुरब्रवीत् ।
भूमिः का लङ्घिता पक्षिंस्त्वयेयन्तमनेहसम्

2.1.23

गरुड उवाच ।
तव प्रसादाद्वैकुण्ठ त्रैलोक्यं सचराचरम्

2.1.24

मया विलोकितं सर्वं जगत्स्थावरजङ्गमम् ।
भूर्लोकात्सत्यपर्यन्तं पुरं याम्यं विना प्रभो

2.1.25

भूर्लोकः सर्वलोकानां प्रचुरः सर्वजन्तुषु ।
मानुष्यं सर्वभूतानां भुक्तिमुक्त्यालयं शुभम्

2.1.26

अतः सुकृतिनां लोको न भूतो न भविष्यति

2.1.27

गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गस्य फलार्जनाय भवन्ति भूयः पुरुषाः सुरत्वात्

2.1.28

प्रेतः कौक्षिप्यते कस्मात्पञ्चरत्नं मुखे कथम् ।
अधस्ताच्चालिता दर्भाः पादौ याम्यां व्यवस्थितौ

2.1.29

किमर्थं पुत्रपौत्राश्च तस्य तिष्ठन्ति चाग्रतः ।
किमर्थं दीयते दानं गोदानमपि केशव

2.1.30

बन्धुमित्राण्यमित्राश्च क्षमापयन्ति तत्कथम् ।
तिलालोहं हिरण्यं च कर्पासं लवणं तथा

2.1.31

सप्तधान्यं क्षितिर्गावो दीयन्ते केनहेतुना ।
कथं हि म्रियते जन्तुर्मृतो वै कुत्र गच्छति

2.1.32

अतिवाहशरीरं च कथं हि श्रयते तदा ।
शवं स्कन्धे वहेत्पुत्रो अग्निदाता च पौत्रकः

2.1.33

आज्येनाभ्यञ्जनं कस्मात्कुत एकाहुतिक्रिया ।
वसुन्धरा किमर्थं च कुतः स्त्रीशब्दकीर्तनम्

2.1.34

यमसूक्तं किमर्थं च उदीच्या दिशमाहरेत् ।
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम्

2.1.35

यवसर्षपदूर्वास्तु पाषाणे निम्बपत्रकम् ।
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम्

2.1.36

अन्नाद्यं गृहमागत्य न भोक्तव्यं जनैः सह ।
नवकांश्चैव पिण्डांश्च किमर्थं ददते सुताः

2.1.37

किमर्थं चत्वरे दुग्धं यात्रे पक्वे च मृन्मये ।
काष्ठत्रयं गणाबद्धं कृत्वा रात्रौ चतुष्पथे

2.1.38

निशायां दीयते दीपो यावदब्दं दिनेदिन ।
दाहोदकं किमर्थं च किमर्थं च जनैः सह

2.1.39

भगवन्नाति वाहश्च नव पिण्डाः प्रदापयेत् ।
कथं देयं पितृभ्यश्च वाहस्यावाहनं कथम्

2.1.40

इदञ्चेत्क्रियते देव कस्मात्पिण्डं प्रदापयेत् ।
किं तत्प्रदीयते तस्य पिण्डदानाद्यनन्तरम्

2.1.41

अस्थिसञ्चयनं चैव घटस्फोटं तथैव च ।
द्वितीये ऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे

2.1.42

दशमे किं मलस्नानं कार्यं सर्वजनैः सह ।
कस्मात्तैलोद्वर्तनं च स्कन्धवाहगृहं नयेत्

2.1.43

तैलोद्वर्तनकं चापि दधुः स्थूलजलाशये ।
दशमे ऽहनि यत्पिण्डं तद्दद्या दामिषेण तु

2.1.44

पिणाञ्चैकादशे कस्माद्वृषोत्सर्गादिपूर्वकम् ।
भाजनोपानहौ च्छत्रं वासांसि त्वङ्गुलीयकम्

2.1.45

त्रयोदशे ऽह्नि देयं स्यात्पददानं किमर्थकम् ।
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो घटः

2.1.46

अन्नाद्येनोदकेनैव षष्ट्याधिकशतत्रयम् ।
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये

2.1.47

प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो

2.1.48

छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः ।
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ।
तेजो वदस्व मे नाथ वायुराकाशमेव च

2.1.49

कुतः कर्मेन्द्रियाणीह पञ्चबुद्धीन्द्रियाणि च ।
वायवश्चैव पञ्चैते कथं गच्छन्ति चात्ययम्

2.1.50

लोभमोहादयः पञ्च शरीरे चैव तस्कराः ।
तृष्णा कामो ह्यहङ्कारः कुतो यान्ति जनार्दना

2.1.51

पुण्यं वाप्यथवापुण्यं यत्किञ्चित्सुकृतं तथा ।
नष्टे देहे कुतो यान्ति दानानि विविधानि च

2.1.52

सपिण्डनं किमर्थं च पूर्णे संवत्सरे ऽपि वा ।
प्रेतस्य मेलनं केषां किंविधं तत्र कारयेत्

2.1.53

मूर्छनात्पननाद्वापि विपत्तिर्यदि जायते ।
ये दग्धा ये त्वदग्धाश्च पतिता ये नरा भुवि

2.1.54

यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ।
पापिनो ये दुराचारा ये चान्ये गतबुद्धयः

2.1.55

आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ।
कपिलायाः पिबेच्छूद्रो यः पठेदिदमक्षरम्

2.1.56

धारयेद्ब्रह्मसूत्रं वा का गतिस्तस्य माधव ।
शूद्रस्य ब्राह्मणी भार्या संगृहीता यदा भवेत्

2.1.57

भीतो ऽहं पापिनस्तस्मात्तन्मे वद जगत्प्रभो ।
अन्यच्च शृणु विश्वात्मन्मया कौतुकिना रयात्

2.1.58

लोकांल्लोकयता लोके जगाहे विश्वमण्डलम् ।
तत्राजनि जनान्दृष्ट्वा दुः खेष्वेव निमज्जतः

2.1.59

स्वान्ते मे दुर्धरा पीडा तत्पीडातो गरीयसी ।
त्रिदिवे दितिजातेभ्यो भूमौ मृत्युरुगादिभिः

2.1.60

इष्टवस्तुवियो गैश्च पाताले मामकं भयम् ।
एवं न निर्भयं स्थानमन्यदीश भवत्पदात्

2.1.61

असत्यं स्वप्नमायावत्कालेन कवलीकृतम् ।
तत्रापि भारते वर्षे बहुदुः खस्य भागिनः

2.1.62

जना दृष्टा मया रागद्वेषमोहादिविप्लुताः ।
केचिदन्धाः केकराक्षास्खलद्वाचस्तु पङ्गवः

2.1.63

खञ्जाः काणाश्च बधिरा मूकाः कुष्ठाश्च लोमशाः ।
नानारोगपरीताश्च खपुष्पाच्चाभिमानिनः

2.1.64

तेषां दोषस्य वैचित्र्यं मृत्योर्गोचरतामपि ।
दृष्ट्वा प्रसुमनाः प्राप्तः को मृत्युश्चित्रता कथम्

2.1.65

मृतिर्यस्य विधानेन मरणादप्यनन्तरम् ।
विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात्

2.1.66

ऋषिभ्यस्तु मया पूर्वमिति सामान्यतः श्रुतम् ।
ज्ञानाय तद्द्विशेषस्य पृच्छामीदमिति प्रभो

2.1.67

म्रियमाणस्य किं कृत्यं किं दानं वासवानुज ।
वाहमृत्योरन्तराले को विधिर्दहनस्य च

2.1.68

सद्यो विलम्बतो वा किं देहमन्यं प्रपद्यते ।
संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया

2.1.69

प्रायश्चित्तं दुर्मतेः किं पञ्चकादिमृतस्य च ।
प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः

2.1.70

सर्वमन्तेमया पृष्टं ब्रूहि लोकहिताय वै

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc