गरुड़ पुराण · अध्याय 1.78
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुलकपरीक्षणं नाम सप्तसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 78
सूत उवाच ।
हुतभुग्रूपमादाय दानवस्य यथेप्सितम् ।
नर्मदायां निचिक्षेप किञ्चिद्धीनादिभूमिषु
तत्रेन्द्रगोपकलितं शुकवक्रवर्णं संस्थानतः प्रकटपीलुसमानमात्रम् ।
नानाप्रकारविहितं रुधिराक्ष(ख्य) रत्नमुद्धृत्य तस्य खलु सर्वसमानमेव
मध्येन्दुपाण्डुरमतीव विशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् ।
सैश्वर्यभृत्यजननं कथितं तदैव पक्रञ्च तत्किल भवेत्सुरवज्रवर्णम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0