भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.40

1.40.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 40
शङ्कर उवाच ।
माहेश्वरीं च मे पूजां वद शङ्खगदाधर ।
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर

1.40.2

हरिरुवाच ।
शृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज ।
आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च

1.40.3

न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् ।
मन्त्रैरेतैर्महेशान परिवारयुतं हरम्

1.40.4

ओं हां शिवासनदेवता आगच्छतेति ।
अनेनावाहयेद्रुद्र देवता आसनस्य याः

1.40.5

ओं हां गणपतये नमः ।
ओं हां सरस्वत्यै नमः ।
ओं हां नन्दिने नमः ।
ओं हां महाकालाय नमः ।
ओं हां गङ्गायै नमः ।
ओं हां लक्ष्म्यै नमः ।
ओं हां महाकलायै नमः ।
ओं हां अस्त्राय नम इति

1.40.6

एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर ।
ओं हां ब्रह्मणे वास्त्वधिपतये नमः ।
ओं हां गुरुभ्यो नमः ।
ओं हां आधारशक्त्यै नमः ।
ओं हां अनन्ताय नमः ।
ओं हां धर्माय नमः ।
ओं हां ज्ञानाय नमः ।
ओं हां वैराग्याय नमः ।
ओं हां ऐश्वर्याय नमः ।
ओं हां अधर्माय नमः ।
ओं हां अज्ञानाय नमः ।
ओं हां अवैराग्याय नमः ।
ओं हां अनैश्वर्याय नमः ।
ओं हां उर्ध्वच्छन्दाय नमः ।
ओं हां अधश्छन्दाय नमः ।
ओं हां पद्माय नमः ।
ओं हां कर्णिकायै नमः ।
ओं हां वामायै नमः ।
ओं हां ज्येष्ठायै नमः ।
ओं हां रौद्यै नमः ।
ओं काल्यै नमः ।
ओं हां कलविकरण्यै नमः ।
ओं बलप्रमथिन्यै नमः ।
ओं हां सर्वभूतदमन्यै नमः ।
ओं हां मनोन्मन्यै नमः ।
ओं हां मण्डलत्रितयाय नमः ।
ओं हां हौं हं शिवमूर्तये नमः ।
ओं हां विद्याधिपतये नमः ।
ओं हां हीं हौं शिवाय नमः ।
ओं हां हृदयाय नमः ।
ओं शिरसे नमः ।
ओं हूं शिखायै नमः ।
ओं हैं कवचाय नमः ।
ओं हौं नेत्रत्रयाय नमः ।
ओं हः अस्त्राय नमः ।
ओं सद्योजाताय नमः

1.40.7

ओं हां सिद्ध्यै नमः ।
ओं हां ऋद्ध्यै नमः ।
ओं हां विद्युतायै नमः ।
ओं हां लक्ष्म्यै नमः ।
ओं हां बोधायै नमः ।
ओं हां काल्यै नमः ।
ओं हां स्वधायै नमः ।
ओं हां प्रभायै नमः

1.40.8

सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः

1.40.9

ओं हां वामदेवाय नमः ।
ओं हां रजसे नमः ।
ओं हां रक्षायै नमः ।
ओं हां रत्यै नमः ।
ओं हां कन्यायै नमः ।
ओं हां कामायै नमः ।
ओं हां जनन्यै नमः ।
ओं हां क्रियायै नमः ।
ओं हां वृद्ध्यै नमः ।
ओं हां कार्यायै नमः ।
ओं रा(धा) त्र्यै नमः ।
ओं हां भ्रामण्यै नमः ।
ओं हां मोहिन्यै नमः ।
ओं हां क्ष(त्व)रायै नमः ।
वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज

1.40.10

ओं हां तत्पुरुषाय नमः ।
ओं हां निवृत्त्यै नमः ।
ओं हां प्रतिष्ठायै नमः ।
ओं हां विद्यायै नमः ।
ओं हां शान्त्यै नमः ।
ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज

1.40.11

ओं हां तृष्णायै नमः ।
कलाषट्कं ह्यखोरस्य विज्ञेयं भैरवं हर

1.40.12

ओं हां ईशानाय नमः ।
ओं हां समित्यै नमः ।
ओं हां अङ्गदायै नमः ।
ओं हां कृष्णायै नमः ।
ओं हां मरीच्यै नमः ।
ओं हां ज्वालायै नमः ।
ईशानस्य कलाः पञ्च जानीहि वृषभध्वज

1.40.13

ओं हां शिवपरिवारेभ्यो नमः ।
ओं हां इन्द्राय सुराधिपतये नमः ।
ओं हां अग्नये तेजो ऽधिपतये नमः ।
ओं हां यमाय प्रेताधिपतये नमः ।
ओं हां निरृतये रक्षो ऽधिपतये नमः ।
ओं हां वरुणाय जलाधिपतये नमः ।
ओं हां वायवे प्राणाधिपतये नमः ।
ओं हां सोमाय नेत्राधिपतये नमः ।
ओं हां ईशानाय सर्वविद्याधिपतये नमः ।
ओं हां अनन्ताय नागाधिपतये नमः ।
ओं हां ब्रह्मणे सर्वलोकाधिपतये नमः ।
ओं हां धूलिचण्डेश्वराय नमः

1.40.14

आवाहनं स्थापनं सन्निधानं च शङ्कर ।
सन्निरोधं तथा कुर्यात्सकलीकरणं तथा

1.40.15

तत्त्वन्यासं च मुद्राया दर्शनं द्यानमेव च ।
पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यङ्गदानकम्

1.40.16

तत उद्वर्तनं स्नानं सुगन्धं चानुलेपनम् ।
वस्त्रालं कारभोगांश्च ह्यङ्गन्यासं च धूपकम्

1.40.17

दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च ।
पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम्

1.40.18

नृत्यं छत्रा दिकरणं मुद्राणां दर्शनं तता ।
रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च

1.40.19

मूलमन्त्रेण वै कुर्याज्जपपूजासमर्पणम् ।
माहेशी कथिता पूजा रुद्र पापविनासिनी

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc