गरुड़ पुराण · अध्याय 1.39
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दुर्गाजपपूजाबलिमन्त्रनिरूपणं नामाष्टत्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 39
रुद्र उवाच ।
पुनर्देवार्चनं ब्रूहि संक्षेपेण जनार्दन ।
सूर्यस्य विष्णुरूपस्य भुक्तिमुक्तिप्रदायकम्
वासुदेव उवाच ।
शृणु सूर्यस्य रुद्र त्वं पुनर्वक्ष्यामि पूजनम् ।
ओं उच्चैः श्रवसे नमः ओं अरुणाय नमः ।
ओं दण्डिने नमः ।
ओं पिङ्गलाय नमः ।
एते द्वारे प्रपूज्या वै एपिर्मन्त्रैर्वृषध्वज
ओं अं प्रभूताय नमः ।
इमं तु पूजयेन्मध्ये प्रभूतामलसंज्ञकम् ।
ओं अं विमलाय नमः ।
ओं अं साराय नमः ।
ओं अंआधाराय नमः ।
ओं अं परममुखाय नमः ।
इत्याग्नेयादिकोणेषु पूज्या वै विमलादयः
ओं पद्माय नमः ।
ओं कर्णिकायै नमः ।
मघ्ये तु पूजयेद्रुद्र पूर्वादिषु तथैव च ।
दीप्ताद्याः पूजयेन्मध्ये पूजयेत्सर्वतोमुखीः ।
ओं वां (रां) दीप्तायै नमः ।
ओं वीं (रीं) सूक्ष्मायै नमः ।
ओं वूं (रूं भद्रायै नमः ।
ओं वैं (रैं) जयायै नमः ।
ओं वौं (रौं) विबूत्यै नमः ।
ओं वं (रं) अधोरायै नमः ।
ओं वं (रं) वैद्युतायै नमः ।
ओं वः (रः) विजयायै नमः ।
ओं रो सर्वतोमुख्यै नमः
ओं अर्कासनाय नमः ।
ओं ह्रां सूर्यमूर्तये नमः ।
एतास्तु पूजयेन्मध्ये ह्रन्मन्त्राञ्छृणु शङ्कर ।
ओं हं सं खं खखोल्काय क्रां क्रीं सः स्वाहा सूर्यमूर्तये नमः ।
अनेनावाहनं कुर्यात्स्थापनं सन्निधापनम् ।
सन्निरोपनमन्त्रेण सकलीकरणं तथा
मुद्राया दर्शनं रुद्र मूलमन्त्रेण वा हर ।
तेजोरूपं रक्तवर्णं सितपद्मोपरि स्थितम् ।
एकचक्ररथारूढं द्विबाहुं धृतपङ्कजम्
एवं ध्यायेत्सदा सूर्यं मूलमन्त्रं शृणुष्व च ।
ओं ह्रां ह्रीं सः सूर्याय नमः
वारत्रयं पद्ममुद्रां बिम्बमुद्रां च दर्शयेत् ।
ओं आं हृदयाय नमः ।
ओं अर्काय शिरसे स्वाहा ।
ओं अः भूर्भुवः स्वः ज्वालिनि शिखायै वषट् ।
ओं हुं कवचाय हुं ।
ओं भां नेत्राभ्यां वौषट् ।
ओं वः अस्त्राय फडिति
आग्नेय्यामथवैशान्यां नैरृत्यामर्चयेद्धर ।
त्दृयदयादि हि वायव्यां नेत्रं चान्तः प्रपूजयेत्
दिस्वस्त्रं पूजयेद्रुद्र सोमं तु श्वेतवर्णकम् ।
दले पूर्वेर्ऽचयेद्रुद्र बुधं चामीकरप्रभम्
दक्षिणे पूजयेद्रुद्र पतिवर्णं गुरुं यजेत् ।
पश्चिमे चैव भूतेशं उत्तरे भार्गवं सितम्
रक्तमङ्गारकं चैव आग्नेये पूजयेद्धर ।
शनैश्चरं कृष्णवर्णं नैरृत्यां दिशि पूजयेत्
राहुं वायव्यदेशे तु नन्द्यावर्तनिभिं हर ।
ऐशान्यां धूम्रवर्णं तु केतुं सं परिपूजयेत्
एभिर्मन्त्रैर्महादेव तच्छृणुष्व च शङ्कर
ओं सों सोमाय नमः ।
ओं बुं बुधाय नमः ।
ओं बृं बृहस्पतये नमः ।
ओं भं भार्गवाय नमः ।
ओं अं अङ्गारकाय नमः ।
ओं शं शनैश्चराय नमः ।
ओं रं राहवे नमः ।
ओं कं केतवे नम इति
पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्याय शङ्कर ।
नैवेद्यान्ते धेनुमुद्रां दर्शयेत्साधकोत्तमः
जप्त्वा चाष्टसहस्रं तु तच्च तस्मै समर्पयेत् ।
ऐशान्यां दिशि भूतेश तेजश्चण्डं तु पूजयेत्
ओं तेजश्चंण्डाय हुं फट् स्वधा स्वाहा पौषट् ।
निर्माल्यं चार्पयेत्तस्मै ह्यर्घ्यं दद्यात्ततो हर
तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितम् ।
गन्धोदकेन संमिश्रं पुष्पधूपसमन्वितम्
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः ।
दर्घ्यं तु सूर्याय त्दृन्मन्त्रेण वृषध्वज
गणं गुरून्प्रपूज्याथ सर्वान्देवानन्प्रपूजयेत् ।
ओं गं गणपतये नमः ।
ओं अं गुरुभ्यो नमः
सूर्यस्य कथिता पूजा कृत्वैतां विष्णुलोकभाक्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0