भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.26

1.26.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पञ्चविंशो ऽध्यायः
श्रीगरूडमहापुराणम्- 26
सूत उवाच ।
अनन्तरं करन्यासः ।
विद्याकरी शुद्धिः कार्या ।
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्यात् ।
कैं कनिष्ठायै नमः ।
नैं अनामिकायै नमः ।
मैं मध्यमायै नमः ।
तैं तर्जन्यै नमः ।
अं अङ्गुष्ठायै नमः ।
लां करतलायै नमः ।
वां करपृष्ठायै नमः

1.26.2

अथ देहन्यासः ।
स्मंस्मं मणिबन्धाय नमः ।
ऐं ह्रीं श्रीं करास्फालाय नमः ।
महातेजोरूपं हुंहुङ्कारेण करास्फालनं कुर्यात्

1.26.3

ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः ।
ह्रं ह्रीं ह्रौं ङञणनमे अघोरामुखि ह्रां ह्रीं किलिकिलि विच्चे स्थौल्यक्रोशी ह्रीं ह्रीं श्रीं ऐं नमो भगवते उर्ध्ववक्त्राय नमः ।
स्फैं कुब्जिकायै पूर्ववक्त्राय नमः ।
ह्रीं श्रीं ह्रीं ङआञणनमे दक्षिणवक्त्राय नमः ।
ओं ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः ।
ओं अखोरमुखि उत्तरवक्त्राय नमः ।
ओं नमो भगवते हृदयाय नमः क्षैं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा ।
ह्रीं क्रीं ह्रीं आं ङ ञ ण नमे शिखायै वषट् ।
अघोरामुखि कवचाय हुं ।
हैं हैं ईं नेत्रत्रयाय वौषट् ।
किलिकिलि विच्चे अस्त्राय फट्

1.26.4

(1) ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः (2) ऐं ह्रीं श्रीं वायुमण्डलाय नमः ।
(3) ऐं ह्रीं श्रीं सोममण्डलाय नमः ।
(4) ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः (5) ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः ।
(6) ऐं ह्रीं श्रीं गुरुमण्डलाय नमः (7) ऐं ह्रीं श्रीं साममण्डलाय नमः(8) ऐं ह्रीं श्रीं समग्र (9)सिद्ध (10)योगीनीपीठापपीठ (11) क्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः ।
एवं मण्डलानां द्वादशकं क्रमेण पूज्यम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc