गरुड़ पुराण · अध्याय 1.239
श्रीगरुडमहापुराणम्- 239
ब्रह्मोवाच ।
ब्रह्मगीतां प्रवक्ष्यामि यज्ज्ञात्वा मुच्यते भवान् ।
अहंब्रह्मास्मि वाक्योत्थज्ञानान्मोक्षो भवेन्नणाम्
वाक्यज्ञानं भवेज्ज्ञानादहंब्रह्म पदार्थयोः ।
पदद्वयार्थौ द्विविधौ वाच्यौ लक्ष्यौ स्मतौ बुधैः
वाक्यवाच्यश्च शबलो लक्ष्यः शुद्वः प्रकीर्तितः ।
प्राणपिण्डात्मकोः यनचेतसामतुलं न यतु?
तथा वेदैरवाग्रूपमहंशब्देन सेव्यते ।
प्रत्यग्रूनं त्वद्वितीयमहंशब्देन मन्यते
अव्ययानन्दचैतन्यं परोक्षसहितं परम् ।
प्राणपिण्डात्मको योथ स द्वितीयविभागकः
पारोक्ष्येप्रेक्षणो ह्यत्र भागो लक्ष्येत वाहमा ।
तथा ब्रह्मपदेनैव प्राणपिण्डात्मकारणाम्
निष्ठा परोक्षता चेति परित्यागेन वक्ष्यते ।
अद्वयानन्दचैतन्यं प्रत्यग्ब्रह्मपदेन तु
अद्वयानन्दचैतन्यं लक्षयित्वा स्थितस्य च ।
ब्रह्माहमस्म्यहं ब्रह्म चाहंब्रह्मपदार्थयोः
अहंब्रह्मास्मिवाक्याच्च स्वनुभूतिफलार्थकम् ।
ऐक्यज्ञानं तु हि भवेद्वेदान्ताद्दूरतो ध्रुवम्
ज्ञानादज्ञानकार्यस्य निवृत्त्या मुक्तिरैक्यतः
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मगीतासारवर्णनं नामैकोनचत्वारिंशदुत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 239
श्रीभगवानुवाच ।
सन्नपि ब्रह्म तस्मात्खं मरुत्खाच्च ततो ऽनलः
अग्नेरापस्ततः पृथ्वी प्रपञ्चाकृतिसूतिका ।
ततः सप्तदशं लिङ्गं पञ्चकर्मेन्द्रियाणि च
वाक्पाणिपादं पायुश्चाप्युपस्थमथ धीन्द्रियम् ।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात्पञ्च वायवः
प्राणोपानः समानश्च व्यानस्तूदान एव च ।
मनोन्तः करणं धीश्च स्यान्मनः संशयात्मकम्
बुद्धिर्निश्चयरूपा तु एतत्सूक्ष्मस्वरूपकम् ।
हिरण्यगर्भमात्मीयसूत्रं तत्कार्यालिङ्गकम्
पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः ।
पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत
लोकप्रसिद्धं स्थूलाख्यं शरीरं चरणादिमत् ।
पञ्चीकृतानि भूतानि तत्कार्यं तत्स्थमेव च
सर्वं शरीरजातं च प्राणिनां स्थूलमीरितम् ।
त्रिधाह्रि परमात्मस्थं शरीरं प्रोच्यते बुधैः
देहद्वयाभिगामी च त्वमथो जीव एकतः ।
स्वभेदवाक्याद्ब्रह्मैव प्रविष्टं देहयोर्द्वयोः
जलार्क्ववद्वदरवज्जीवः प्राणादिधारणः ।
जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः
जाग्रत्स्वप्नसुषुप्त्याख्यैर्व्यातिरिक्तश्च निर्गुणः ।
निर्गातावयवोसंगो नित्यशुद्धस्वभावकः
परमात्मैव यज्जाग्रत्स्वप्नाद्यैर्यस्त्रिधा मतः ।
अन्तः करणराशेश्चैवान्तः करणःस्थितः
जाग्रत्स्वप्नसुषुप्तीश्च पश्यतो विकृतिः सदा ।
फलक्रियाकारकयोर्जाग्रदादीन्वदाम्यहम्
इन्द्रियैरथ विज्ञानं जाग्रत्स्थानमुदीरितम् ।
जाग्रत्संस्कारसंभूतप्रत्ययो विषयार्थिनः
स्वप्नं सुषुप्तिः करणोपसंघाते धियः (प) स्थित (ति) ।
ब्रह्मणः कारणावस्थायां स्थितिः कालकात्मना
क्रमतोक्रमतो जीवो जाग्रदादि स पश्यति ।
समाध्यारंभकाले तु पूर्वमेवावधारयेत्
मुमुक्षावथ संजाते अन्तः करणकेवले ।
विलापयेत्क्षेत्रजातं तत्क्षेत्रं परिशेषयेत्
पञ्चीकृतेभ्यो भूतेभ्यो भाण्डादि व्यतिरिक्तकम् ।
यथा मृदो घटो भिन्नो नास्ति तत्कार्यतस्तथा
पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः ।
शंसंति व्यतिरेकेण शिष्टाः सूक्ष्मशरीरकम्
अपञ्चीकृतभूतेभ्यो न लिङ्गं व्यतिरिक्तकम् ।
पृथ्व्याधारं विना नास्ति विना नास्ति च तेन सा
तेजश्च वायुना नास्ति वायुः खेन विना न हि ।
यद्ब्रह्मणा च खं नास्ति शुद्ध ब्रह्म विना च खम्
शुद्धभावस्तदा जाग्रत्स्वप्नादीनामसंभवः ।
जीवत्ववर्जितः प्राप्तात्मचैतन्यानुरूपतः
नित्यं शुद्धं बुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम् ।
तत्त्वंपदान्तौ शिष्टौ च तत्कारो ब्रह्मवाचकः
उकारश्च अकारश्च मकारोयमृगद्वयः ।
ब्रह्माहमस्म्यहं ब्रह्मज्ञानमज्ञानवर्धनम्
अयमात्मा परं ज्योतिश्चिन्नामानन्दरूपकः ।
सत्यं ज्ञानमनतं हि त्वमसीति श्रुतीरितम्
अहं ब्रह्मास्मि निर्लेपमहं ब्रह्मास्मि सर्वगम् ।
योसावादित्यपुरुषसोसावहमनादिमत् ।
गीतासारोर्ऽजुनायोक्तो येन ब्रह्मणि वै लयः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0