गरुड़ पुराण · अध्याय 1.233
इति श्रीगारुडे महापुराणे कुलामृतस्तोत्रं नाम द्वात्रिंशदुत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 233
सूत उवाच ।
स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम् ।
दामोदरं प्रपन्नो ऽस्मि किन्नो मृत्युः करिष्यति
शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम् ।
अधो ऽक्षजं प्रपन्नोस्मि किन्नो मृत्युः करिष्यति
वराहं वामनं विष्णुं नारसिंहं जनार्दनम् ।
माधवं च प्रपन्नो ऽस्मि किन्नो मृत्युः करिष्यति
पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम् ।
लोकनाथं प्रपन्नो ऽस्मि किन्नो मृत्युः करिष्यति
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नो ऽस्मि किन्नो मृत्युः करिष्यति
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।
विश्वरूपं प्रपन्नो ऽस्मि किन्नो मूत्युः करिष्यति
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनुः ।
अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्तिदुर्लभम्
मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह
इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः
हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयम् ।
विचिन्त्य सूर्यादतिराजमानं मृत्युं स योगि जितवांस्तथैव
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0