गरुड़ पुराण · अध्याय 1.224
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे युगधर्मकथनं नाम त्रयोविंशत्यधिकद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 224
सूत उवाच ।
चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः ।
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी
उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः ।
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम्
भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा ।
विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः
विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम् ।
वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः
विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः ।
विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक् ।
शेते ऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे
सुप्त्वा वर्षसहस्रं स जगद्भूयो ऽसृजद्धरिः ।
अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक
पूर्णे संवत्सरशते संहृत्य सकलं जगत् ।
ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः
ये गता ब्रह्मणः स्थानं ते ऽपि यान्ति परं पदम् ।
अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज ।
शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते
अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः ।
पूर्णे ब्रह्मायुषि गते भिद्यते ऽम्भसि लीयते
एवं सा जगदाधारा तोये चोर्वो प्रलीयते ।
आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते
वायुः खे खञ्च भूतादौ विशते च तदा महान् ।
महान्प्रपद्यते ऽव्यक्तं प्रकृतिः पुरुषे परे
शतवर्षं हरिः शेते सृजत्यथ दिनगमे ।
अव्यक्तादिक्रमेणैव व्यक्तीभूतं चराचरम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0