भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.221

1.221.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्राद्धानुष्ठानं नामविंशाधिकद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 221
ब्रहामोवाच ।
धर्मसारमहं वक्ष्ये संक्षेपाच्छुणु शङ्कर ।
भुक्तिमुक्तिप्रदं सूक्ष्मं सर्वपापविनाशनम्

1.221.2

श्रुतं धर्मं बलं धैर्यं सुखमुत्साहमेव च ।
शोको हरति वै नॄणां तस्माच्छोकं परित्यजेत्

1.221.3

कर्मदाराः कर्मलोकाः कर्मसम्बन्धिबान्धवाः ।
कर्माणि प्रेरयन्तीह पुरुषं सुखदुः खयोः

1.221.4

दानमे परो धर्मो दानात्सर्वमवाप्यते ।
दानाःत्स्वर्गश्च राज्यञ्च दद्याद्दनं ततो नरः

1.221.5

एकतो दानमेवाहुः समग्रवरदक्षिणम् ।
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्

1.221.6

तपसा ब्रह्मचर्येण यज्ञैः स्नानेन वा पुनः ।
धर्मस्य नाशका ये च ते वै निरयगामिनः

1.221.7

ये च होमजपस्नानदेवतार्चनतत्पराः ।
सत्यक्षमादयायुक्तास्ते नराः स्वर्गगामिनः

1.221.8

न दाता सुखदुः खानां न च हर्तास्ति कश्चन ।
भुञ्जते स्वकृतान्येव दुः खानि च सुखानि च

1.221.9

धर्मार्थं जीवितं येषां दुर्गाण्यतितरन्ति ते ।
सन्तुष्टः को न शक्नोति फलमूलैश्च वर्तितुम्

1.221.10

सर्व एव हि सौख्येन सङ्कटान्यवगाहते ।
इदमेव हि लोभस्य कार्यं स्या दतिदुष्करम्

1.221.11

लोभात्क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्तते ।
लोभान्मोहश्च माया च मानो मत्सर एव च

1.221.12

रागद्वेषानृतक्रोधलोममोहमदोज्झितः ।
यः स शान्तः परं लोकं याति पापविवर्जितः

1.221.13

देवता मुनयो नागा गन्धर्वा गुह्यका हर ।
धार्मिकं पूजयन्तीह न धनाढ्यं न कामिनम्

1.221.14

अनन्तबलवीर्येण प्रज्ञया पौरुषेण वा ।
अलभ्यं लभते मर्त्यस्तत्र का परिवेदना

1.221.15

सर्वसत्त्वदयालुत्वं सर्वेन्द्रियविनिग्रहः ।
सर्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम्

1.221.16

पश्यन्निवाग्रतो मृत्युं यो धर्मं नाचरेन्नरः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्

1.221.17

भ्रूणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।
भूमिं सर्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते

1.221.18

न गोदानात्परं दानं किञ्चिदस्तीति मे मतिः ।
या गौर्न्यायार्जिता दत्ता कृत्स्नं तारयते कुलम्

1.221.19

नान्नदानात्परं दानं किञ्चिदस्ति वृषध्वज ! ।
अन्नेन धार्यते सर्वं चराचरमिदं जगत्

1.221.20

कन्यादानं वृषोत्सर्गस्तीर्थसेवा श्रुतं तथा ।
हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः

1.221.21

अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।
अन्नात्प्राणा बलं तेजश्चान्नाद्वीर्यं धृतिः स्मृतिः

1.221.22

कूपवापीतडागादीनारामांश्चैव कारयेत् ।
त्रिसप्तकुलमुद्धृत्य विष्णुलोके महीयते

1.221.23

साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते ।
कालेन तीर्थं फलति सद्यः साधुसमागमः

1.221.24

सत्यं दमस्तपः शौचं सन्तोषश्च क्षमार्जवम् ।
ज्ञानं शमो दया दानमेष धर्मः सनातनः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc