गरुड़ पुराण · अध्याय 1.21
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषादिहरमन्त्रबृन्दनिरूपणं नाम विंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 21
सूत उवाच ।
पञ्चवत्क्रार्चनं वक्ष्ये पृथ ग्यद्भुक्तिमुक्तिदम् ।
ओं भूर्विष्णवे आदिभूताय सर्वाधाराय मूर्तये स्वाहा
सद्योजातस्य चाह्वानमनेन प्रथमं चरेत् ।
ओं हां सद्योजातायैव कला ह्यष्टौ प्रकीर्तिताः
सिद्धिरृद्धिर्धृतिर्लक्ष्मीर्मेधा कान्तिः स्वधा स्थितिः (8) ।
ओं हीं वामदेवायैव कलास्तस्य त्रयोदश
रजा रक्षा रतिः पाल्या कान्ति स्तृष्णा मतिः क्रिया ।
कामा बुद्धिश्च रात्रिश्च त्रासनी मोहिनी तथा (13)
मनोन्मनी अघोरा च तथा मोहा क्षुधा कलाः ।
निद्रा मृत्युश्च माया च (8)अष्टसंख्या भयङ्कर
ओं हैं तत्पुरुषायैव (षाय) निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिर्न केवला
ओं हौं ईशानाय नमो निश्चला च निरञ्जना ।
शशिनी चाङ्गना चैव मरीचिर्ज्वालिनी तथा
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0