भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.200

1.200.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनवत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 200
भैरव उवाच ।
वक्ष्ये वायुजयं देवि जया जयविदेशकम् ।
वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम्

1.200.2

वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् ।
ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत्

1.200.3

महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः ।
कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम्

1.200.4

वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः ।
उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि

1.200.5

वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम् ।
संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने

1.200.6

यदा च संक्रमेद्वायुरर्धार्धप्रहरे स्थितः ।
स्वास्थ्याहानिस्तदा ज्ञेया वायुर्भ्रमति देहिषु

1.200.7

दक्षिणे च पुटे वायुर्हितो भोजनमैथुने ।
खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः

1.200.8

वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितम् ।
वायुर्वहति तत्रस्थः प्रश्रो भूतस्य शोभनः

1.200.9

माहेन्द्रे वारुणे वाते को ऽपि दोषो न जायते ।
अनावृष्टिर्दक्षवाहे वृष्टिः स्याद्वामवाहके

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc