भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.184

1.184.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्र्यशीत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 184
हरिरुवाच ।
रजनीकदलीक्षारलेपः सिध्मविनाशनः ।
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ।
उष्णोदकेन संपीय कटिशूलविनाशनम्

1.184.2

अभया नवनीतञ्च शर्करापिप्पलीयुतम् ।
पानादर्शोहरं स्याच्च नात्र कार्या विचारणा

1.184.3

आटरूषकपत्रेण घृतं मृद्वग्निना पचेत् ।
चूर्णं कृत्वा तु लेपो ऽयं अर्शरोगहरः परः

1.184.4

गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम् ।
अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत्

1.184.5

लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् ।
यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत्

1.184.6

चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च ।
सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः ।
अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव

1.184.7

तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत् ।
तेनैव सह तैलेन अग्निदग्धः सुखी भवेत्

1.184.8

लज्जालोः शरपुङ्खाया लेपः साज्यो ऽग्निनाशनः ।
ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट्

1.184.9

करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम् ।
मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम्

1.184.10

हस्ते बध्वा नाशयेच्च अर्शांस्येव न संशयः ।
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षणम्

1.184.11

ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेत् ।
त्रिफलायास्तु चूर्णं हि साज्यं कुष्ठविनाशनम्

1.184.12

आज्यं पुनर्नवाबिल्वैः पिप्पलीभि साधितम् ।
हरेद्धक्कां श्वासकासौ पीतं स्त्रीणाञ्च गर्भकृत्

1.184.13

भक्षयेद्वा नरीबीजं पयसाज्येन पाचितम् ।
घृतशर्करया युक्तं शुक्रः स्यादक्षयस्ततः

1.184.14

विडङ्गं मधुकं पाठां मांसीं सर्जरसं तथा ।
रहिद्रां त्रिफलाञ्चैव मपामार्गं मनः शिलाम्

1.184.15

उदुम्बरं धातकीञ्च तिलतैलेन पषेयेत् ।
योनिं लिङ्गं च म्रक्षेत स्त्रीपुसोः स्यात्प्रियं मिथः

1.184.16

नमस्ते ईशवरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति ।
योनिलङ्गस्य तैलेन शङ्कर म्लक्षणात्ततः

1.184.17

पुनर्नवामृता दूर्वा कनकञ्चैन्द्रवारुणी ।
बीजे नैषां जातिकाया रसेन रसमर्दनम्

1.184.18

मूषाय मध्यगं कृत्वा रसं मारणमीरितम् ।
मध्वाज्यसहितं दुग्धं वलीपलितनाशनम्

1.184.19

मध्वाज्यं गुडताम्रञ्च कारवेल्लरसस्तथा ।
दहनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु

1.184.20

पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम् ।
लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत्

1.184.21

धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर ।
समाधावुपविष्टन्तु गगनस्थो न पश्यति

1.184.22

वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते ।
शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति ।
विस्मयं कुरुते चैव वृषवन्नात्र संशयः

1.184.23

रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम् ।
ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत्

1.184.24

चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत् ।
तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत् ।
चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत्

1.184.25

कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत् ।
युद्धे विजयते सो ऽपि महाशूरश्च जायते

1.184.26

दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् ।
तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा

1.184.27

कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा ।
वसातैलसमायुक्तमेकत्र तन्नियोजयेत् ।
आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम्

1.184.28

कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च ।
मूषिकस्य वसास्थीनि शिशुमारवसा तथा ।
एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे

1.184.29

लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ।
तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम्

1.184.30

कमलादिहरंपितं मुखरोगहरं तथा ।
जातीमूलं तक्रपीतं कोलमूलं त्वजीर्णनुत्

1.184.31

सतक्रं कुशमलं वा मर्कटी मूलमेव वा ।
काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत्

1.184.32

तथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् ।
सुरभिकामूलपा नाद्वा तन्नाशो भवेच्छिव

1.184.33

शिरोरोगहरं लेपाद्गुञ्जाचूर्णं सकाञ्जिकम् ।
बला चातिबला यष्टी शर्करा मधुसंयुता

1.184.34

वन्ध्यागर्भकरी पीता नात्र कार्या विचारणा ।
श्वेतापराजितामूलं पिप्पलीशुण्ठिकायुतम्

1.184.35

परिपिष्टं शिरोलेपाच्छिरः शूलविनाशनम् ।
निर्गुण्डिकाशिखां पीत्वा गण्डमालां विनाशयेत्

1.184.36

केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् ।
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत्

1.184.37

मातुलङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।
वातपित्तजशूलानि हन्ति वै पानयोगतः ।
शुण्ठी सौवर्चलं हिङ्गु पीतं हृदयरोगनुत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc