भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.168

1.168.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातरक्तनि सप्तषष्ट्याधिकशततमोध्यायः
श्रीगरुडमहापुराणम्- 168
निदानं समाप्तम् ।
धन्वन्तरिरुवाच ।
सर्वरोगहरं सिद्धं योगसारं वदाम्यहम् ।
शृणु सुश्रुतं संक्षेपात्प्राणिनां जीवहेतवे

1.168.2

कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात् ।
चिन्ताव्यवयव्यायामभयशोकप्रजागरात्

1.168.3

उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात् ।
वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये

1.168.4

उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात् ।
तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात्

1.168.5

विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये ।
ग्रीष्मकालेर्ऽद्धरात्रे ऽपि पित्तं कुप्यति देहिनः

1.168.6

स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् ।
नवान्नपिच्छिलानूपमांसादेः सेवनादपि

1.168.7

अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः ।
कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति

1.168.8

देहपारुष्यसंकोचतोदविष्टम्भकादयः ।
तथा च सुप्ता रोमहर्षस्तम्भनशोषणम्

1.168.9

श्यामत्वमङ्गविश्लेषबलमायासवर्धनम् ।
वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत्

1.168.10

दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः ।
कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः

1.168.11

हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः ।
देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम्

1.168.12

स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम् ।
कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम्

1.168.13

हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम् ।
सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम्

1.168.14

दोषधातुमलाधारो देहिनां देह उच्यते ।
तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः

1.168.15

वसासृङ्मांसमेदो ऽस्थिमज्जाशुक्राणि धातवः ।
वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः

1.168.16

वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली ।
पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम्

1.168.17

मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः ।
गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम्

1.168.18

कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः ।
कटुतिक्तकषायाश्च कोपयन्ति समीरणम्

1.168.19

कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् ।
एत एव विपर्यस्ताः शमायैषां प्रयोजिताः ।
भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः

1.168.20

चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः ।
अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम्

1.168.21

दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः ।
पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः

1.168.22

रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमम् ।
रसपाकान्तरस्थायि सर्वद्रव्याश्रयं द्रुतम्

1.168.23

शीतोष्णं लवणं वीर्यमथ वा शक्तिरिष्यते ।
रसानां द्विविधः पाको कटुरेव च

1.168.24

भिषग्भेषजरोगार्तपरिचारकसम्पदः ।
चिकित्साङ्गानिचत्वारि विपरीतान्यसिद्धये

1.168.25

देशकालवयोवह्निसाम्यप्रकृतिभेषजम् ।
देहसत्त्वबलव्याधीन्बुद्ध्वा कर्म समाचरेत्

1.168.26

बहूदकनगो ऽनूपः कफमारुतकोपवान् ।
जाङ्गलो ऽपरशाखी च रक्तपित्तगदोत्तरः ॥ गर्प्_1,168.25*1 ॥
संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः ।
बाल आ षोडशान्मध्यः सप्ततेर्वृद्ध उच्यते

1.168.27

कफपित्तानिलाः प्रायो यथाक्रममुदीरिताः ।
क्षाराग्निशस्त्ररहिता क्षीणे प्रवयसि क्रियाः

1.168.28

कृशस्य वृंहणं कार्यंस्थूलदेहस्य कर्षणम् ।
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः

1.168.29

स्थैर्यव्यायामसन्तोषैर्बोद्धव्यं यत्नतो बलम् ।
अविकारी महोत्साहो महासाहसिको नरः

1.168.30

पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि ।
श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते

1.168.31

गर्भिण्याः श्लैष्मिकैर्भक्ष्यैः श्लैष्मिको जायते नरः ।
वातलैः पित्तलैस्तद्वत्समधातुर्हिताशनात्

1.168.32

कृशो रूक्षो ऽल्पकेशश्च चलचित्तो नरः स्थितः ।
बहुवाक्यरतः स्वप्नेवातप्रकृतिको नरः

1.168.33

अकालपलितो गौरः प्रस्वेदी कोपनो बुधः ।
स्वप्ने ऽपि दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते

1.168.34

स्थिरचित्तः स्वरः सूक्ष्मः प्रसन्नः स्निग्धमूर्धजः ।
स्वप्ने जलशिलालोकी श्लेष्म प्रकृतिको नरः

1.168.35

संमिश्रलक्षणैर्ज्ञेयो द्वित्रिदोषान्वयो नरः ।
दोषस्येतरसद्भावे ऽप्यधिका प्रकृतिः स्मृताः

1.168.36

मन्दस्तीक्ष्णो ऽथ विषमः समश्चैति चतुर्विधाः ।
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरो ऽनलः

1.168.37

समस्य पालनं कार्यं विषमे वातनिग्रहः ।
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम्

1.168.38

प्रभवः सर्वरोगाणामजीर्णं चाग्निनाशनम् ।
आमाम्लरसविष्टम्भ लक्षणन्तच्चतुर्विधम्

1.168.39

आमाद्विषूचिका चैव हृदालस्यादयस्तथा ।
वचालवणतोयेन छर्दनं तत्र कारयेत्

1.168.40

शुक्राभावो भ्रमो मूर्छा तर्षो ऽम्लात्संप्रवर्तते ।
अपक्वं तत्र शीताम्बुपानं वातनिषेवणम्

1.168.41

गात्रभङ्गं शिरोजाड्यं भक्तदोषादयो गदान् ।
तस्मिन्स्वापो दिवा कार्योलङ्घनं च विवर्जनम्

1.168.42

शूलगुल्मौ च विण्मूत्रस्थानविष्टम्भसूचकौ ।
विधेयं स्वेदनं तत्र पानीयं लवणोदकम्

1.168.43

आममम्लं च विष्टब्धं कफपित्तानिलैः क्रमात् ।
आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः

1.168.44

दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णविनाशनम् ।
अहितान्नै रोगराशिरहितान्नं ततस्त्यजेत्

1.168.45

उष्णाम्बु वानुपानं च माक्षिकैः पाचनं भवेत् ।
करीरदधिमत्स्यैश्च प्रायः क्षीरं विरुध्यते

1.168.46

बिल्वः शोणा च गम्भारी पाटला गणिकारिका ।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत्

1.168.47

शालपर्णो पृश्रिपर्णो बृहतीद्वयगोक्षुरम् ।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्

1.168.48

उभयं दशसूलं स्यात्सन्निपातज्वरापहम् ।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते

1.168.49

एतैस्तैलानि सर्पोषि प्रलेपादलकां जयेत् ।
क्वाथाच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम्

1.168.50

स्नेहञ्च तत्समं क्षीरं कल्कश्च स्नेहपादकः ।
संवर्तितौषधैः पाको बस्तौ पाने भवेत्समः ।
खरो ऽभ्यङ्गे मृदुर्नस्ये पाको ऽपि संप्रकल्पयेत्

1.168.51

स्थूलदेहन्द्रियाश्चिन्त्या प्रकृतिर्या त्वधिष्ठिता ।
आरोग्यमिति तं विद्यादायुष्मन्तमुपाचरेत्

1.168.52

यो गृह्णातीन्द्रियैरर्थान्विपरीतान्स मृत्युभाक् ।
भिषङ्मित्रगुरुद्वेषी प्रियारातिश्च यो भवेत्

1.168.53

गुल्फजानुललाटं च हनुर्गण्डस्तथैव च ।
भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून्

1.168.54

वामाक्षिमज्जनं जिह्वा श्यामा नासा विकारिणी ।
कृष्णौ स्थानच्युतौ चोष्ठौ कृष्णास्यं यस्यतं त्यजेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc