भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.165

1.165.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कुष्ठरोगनिदान नाम चतुः षष्ट्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 165
धन्वन्तरिरुवाच ।
क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः ।
बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः

1.165.2

नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ।
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः

1.165.3

बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ।
द्विधा ते कोष्ठपिडिकाः कण्डूगण्डान्प्रकुर्वते

1.165.4

कुष्ठैकहेतवो ऽन्तर्जाः श्लेष्मजा बाह्यसम्भवाः ।
मधुरान्नगुडक्षीरदधिमत्स्यनवौदनैः

1.165.5

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः

1.165.6

रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते

1.165.7

अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ।
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते

1.165.8

हृल्लासमास्यश्रवणमविपाकमरोचकम् ।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्

1.165.9

रक्तवाहिशिरास्थानरक्तजा जन्तवो ऽणवः ।
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः

1.165.10

केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः ।
षट्ते कुष्ठैककर्माणः सहसौरसमातरः

1.165.11

पक्वाशये पुरीषोत्था जायन्ते ऽथोविसर्पिणः ।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः

1.165.12

तदास्योद्गारनिः श्वामविड्गन्धानुविधायिनः ।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः

1.165.13

ते पञ्चनाम्ना क्रिमयः ककेरुकमकेरुकाः ।
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि

1.165.14

वङ्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।
रोमहर्षाग्निसदनं गुदकण्डूंर्विमार्गगाः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc