भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.161

1.161.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रधिगुल्मनिदान नाम षष्ट्युत्तरशततमोध्यायः
श्रीगरुडमहापुराणम्- 161
धन्वन्तरिरुवाच ।
उदराणां निदानञ्च वक्ष्ये सुश्रुत तच्छृणु ।
रोगाः सर्वे ऽपि मन्दाग्नौ सुतरामुदराणि तु

1.161.2

अनीर्णामयाश्चाप्यन्ये जायन्ते मलसंचयात् ।
ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी?

1.161.3

प्राणानपानान्संदूष्य कुर्युस्तान्मांससन्धिगान् ।
आध्माप्य कुक्षिमुदरमष्टधा ते च भेदतः

1.161.4

पृथग्दोषैः समस्तौश्च प्लीहवङ्क्षक्षतोदकैः ।
तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः

1.161.5

नष्टचेष्टबलाहाराः कृतप्रध्मात् कुक्षयः ।
पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम्

1.161.6

क्षुन्नाशो ऽरुचिवत्सर्वं सविदाहञ्च पच्यते ।
जीर्णान्नं यो न जानाति सो ऽपथ्यं सेवतेनरः

1.161.7

क्षीयते बलमङ्गस्य श्वसित्यल्पो ऽविचेष्टितः ।
विषयावृत्तिबुद्धिश्च शोकशोषादयो ऽपिच

1.161.8

रुग्बस्तिसन्धौ सततं लघ्वल्पभोजनैरपि ।
जराजीर्णो बलभ्रंशो भवेज्जठररोगिणः

1.161.9

स्वतन्त्रतन्द्रालसता मलसर्गो ऽल्पवह्निता ।
दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवे

1.161.10

सर्वत्र तोये मरणं शोचनं तत्र निष्फलम् ।
गवाक्षवच्छिराजालैरुदरं गुड्गुडायते

1.161.11

नाभिमन्त्रश्च विष्टभ्य वेगं कृत्वा प्रणश्यति ।
मारुते हृत्कटीनाभिपायुवङ्क्षणवेदनाः

1.161.12

सशब्दो निः सरेद्वायुर्वहते मूत्रमल्पकम् ।
नातिमात्रं भवेल्लौल्यं नरस्य विरसं मुखम्

1.161.13

तत्रवातोदरे शोथः पाणिपान्मुखकुक्षिषु ।
कुर्क्षिपार्श्वोदरकटीपृष्ठरुक्पर्वभदनम्

1.161.14

शुष्ककासाङ्गमर्दाधोगुरुतामलसंग्रहः ।
श्यामारुणत्वगादित्वं मुखे च रसवद्धिता

1.161.15

सतोदभेदमुदरं नीलकृष्णशिराततम् ।
आध्मातमुदरे शब्दमद्भुतं वा करोति सः

1.161.16

वायुश्चात्र सरुक्च्छब्दं विधत्ते सर्वथा गतिम् ।
पित्तोदरे ज्वरो मूर्छा दाहित्वं कटुकास्यता

1.161.17

भ्रमोतिसारः पीतत्वं त्वगादावुदरं हरित् ।
पीतताम्रशिरादित्वं सस्वेदं सोष्म दह्यते

1.161.18

धूमायते मृदुस्पर्शं क्षैप्रपाकं प्रदूयते ।
श्लेष्मोदरेषु सदनं स्वेदश्वयथुगौरवम्

1.161.19

निद्रा क्लेशो ऽरुचिः श्वासः काशः शुक्लत्वगादिता ।
उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतम्

1.161.20

नीरातिवृद्धौ कठिनं शीतस्पर्शं गुरु स्थिरम् ।
त्रिदोषकोपने तैस्तैस्त्रिदोषजीनैतर्मलैः

1.161.21

सर्वदूषणदुष्टाश्च सरक्ताः सञ्चिता मलाः ।
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम्

1.161.22

कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् ।
वर्धते तच्च सुतरां शीतवातप्रदर्शने

1.161.23

अत्यशनाच्च संक्षोभाद्यानपानादिचेष्ठितैः ।
अविहितैश्च पानाद्यैर्वमनव्याधिकर्षणैः

1.161.24

वामपार्श्वास्थितः प्लीहा त्युतस्थानो विवर्धते ।
शोणिताद्वा रसादिभ्यो विवृद्धो जनयेद्व्यथाम्

1.161.25

सो ऽष्ठीला चातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्? ।
क्रमेण वर्धमानश्च कुक्षौ व्याततिमाहरेत्

1.161.26

श्वासकासपिपासास्यवैरस्याध्मानकज्वरैः ।
पाण्डुत्वमूर्छाछर्दित्वग्दाहमोहैश्च संयुतः

1.161.27

अरुणाभं विचित्राभं नीलहारिद्रराजितम् ।
उदावर्तेन चानाहमोहतृड्द्गहनज्वरैः

1.161.28

गौरवारुचिकाठिन्यैर्विघातभ्रमसंक्रमात् ।
प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम्

1.161.29

पक्वे भूते यकृति च सदा बद्धमलो गुदे ।
दुर्नामभिरुदावर्तैरन्यैर्वा पीडितो भवेत्

1.161.30

वर्चः पित्तकफान्बद्धान्करोति कुपितो ऽनिलः ।
अपानो जठरे तेन संरुद्धो ज्वररुक्करः

1.161.31

काशश्वासोरुसद्गनं शिरोरुङ्नाभिपार्श्वरुक् ।
मलासंगो ऽरुचिश्छर्दिरुदरे मलमारुतः

1.161.32

स्थिरनीलारुणशिराजालैरुदरमावृतम् ।
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते

1.161.33

अस्थ्यादिशल्यै रन्यैश्च विद्धे चैवोदरे तथा ।
पच्यते यकृतादिश्च तच्छिद्रैश्च सरन्बहिः

1.161.34

आम एव गुदाहेति ततो ऽल्पाल्पः शकृद्रसः ।
स स्याद्विकृतगन्धो ऽपि पिच्छिलः पीतलोहितः

1.161.35

शेषश्चापूर्य जठरं घोरमारभते ततः ।
वर्धते तदधो नाभेराशु चैति जलात्मताम्

1.161.36

उद्रिक्ते दोषरूपे च व्याप्ते च श्वासतृट्भ्रमैः ।
छिद्रोदरमिदं प्राहुः परिस्त्रावीति चापरे

1.161.37

प्रवृत्तस्नेहपानादेः सहसापथ्यसेविनः ।
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य च

1.161.38

रुद्धः स्वमार्गादनिलः कफश्च जलमूर्छितः ।
वर्धते तु तदेवाम्बु तन्मात्राद्विन्दुराशितः

1.161.39

तत्कोपादुदरं तृष्णागुदस्नुतिरुजान्वितम् ।
काशश्वासारुचियुतं नानावर्णाशिराततम्

1.161.40

तोयपूर्णान्मृदुस्पर्शात्सदृशक्षोभवेपथु ।
बकोदरं स्थिरंस्निग्धं नाडीमावृत्य जायते

1.161.41

उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः ।
पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि

1.161.42

स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः ।
तदेवोदरमापूर्य कुर्यादुदरामयम्

1.161.43

गुरूदरं स्थितं वृत्तमाहतञ्च न शब्दकृत् ।
हीनबलं तथा घोरं नाड्यां स्पृष्टञ्च सपति

1.161.44

शिरान्तर्धानमुदरे सर्वलक्षणमुच्यते ।
वातपित्तकफप्लीहसन्निपातोदकोदरम्

1.161.45

पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम् ।
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc