भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.158

1.158.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेतिसारनिदान नाम सप्तञ्चाशदुत्तरशतमो ऽध्यायः
श्रीगरुडमहापुराणम्- 158
धन्वन्तरिरुवाच ।
अथातो मूत्रघातस्य निदानं शृणु सुश्रुत ।
बस्तिबस्तिशिरोमेढ्रकटीवृषणपायु च

1.158.2

एकसंवहनाः प्रोक्ता गुदास्थिविवराश्रयाः ।
अधोमुखो ऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः

1.158.3

पार्श्वेभ्यः पूर्यते श्लक्ष्णै (सूक्ष्मैः) स्यन्दमानैरनारतम् ।
तैस्तैरेव प्रविश्यैवन्दोषान्कुवन्ति विंशतिम्

1.158.4

मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत् ।
बस्तिवङ्क्षणमेढ्रार्तियुक्तोल्पाल्पं मुहुर्मुहुः

1.158.5

मूत्राण्यावातजे कृच्छ्रपीत्ते पीतं सदाहरुक् ।
रक्तं वा कफजो बस्तिमेढ्रगौरवशोथवान्

1.158.6

सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः ।
यदा वायुर्मुखं बस्तेर्व्यावर्त्य पारिशोषयन्

1.158.7

मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात् ।
संजायते ऽश्मरी घोरा पित्तं गोरिव रोचना

1.158.8

श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम् ।
बस्त्याध्मानं तदासन्नदेशोहि परितो ऽतिरुक्

1.158.9

बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरो ऽरुचिः ।
सामान्यलिङ्गं रुङ्नाभिसीवनीबस्तिमूर्धसु

1.158.10

विस्तीर्णवा सं मूत्रं स्यात्तथा मार्गनिरोधने ।
बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम्

1.158.11

तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत् ।
तत्र बाताभिसृत्यार्तोदन्तान् खादति वेपते

1.158.12

गृह्णाति मेहनं नाभिं पीडयत्यतिलक्षणम् ।
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः

1.158.13

श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव ।
पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान्

1.158.14

भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरा ।
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः

1.158.15

अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता ।
एता भवन्ति बालनां तेषामेव च भूयसाम्

1.158.16

आशयोपचयाल्पत्वाद्गहणाहरणे सुखी ।
सुक्राश्मरी तु महती जायते शुक्रधारणात्

1.158.17

स्थानच्युतमभुक्तं वा अण्डयोरन्तरे ऽनिलः ।
शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी

1.158.18

बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी ।
तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते

1.158.19

पीडिते ज्वरकासे ऽस्मिन्नश्मर्येव च शर्करा ।
असौ वा वायुना भिन्ना सा त्वस्मिन्नमुलोमगे

1.158.20

निरेति सह मूत्रेण प्रतिलोमे विपच्यते ।
मूत्रसंधारणं कुर्यात्क्रुद्धो बस्तेर्मुखे मरुत्

1.158.21

मूत्रसङ्गं रुजं कण्डूं कदाचिच्च सुवामतः ।
प्रच्छाद्य बस्तिमुद्धृत्य गर्मान्तं स्थूलविप्लुताम्

1.158.22

करोति तत्र रुग्दाहं स्पन्दनोद्वेष्टनानि च ।
बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते

1.158.23

धारावरोधश्चाप्येष वातबस्तिरिति स्मृतः ।
दुस्तरो दुस्तरतरो द्वितीयः प्रबलो ऽनिलः

1.158.24

शकृप्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः ।
अष्ठीलाभं घनं ग्रन्थिं करोत्यच (ब) लमुन्नतम्

1.158.25

वाताष्ठीलेति सात्मानं विष्णूत्रानिल (ति) सर्गकृत् ।
विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथोनिलः

1.158.26

आबध्य मूत्रं भ्रमति संस्तम्भोद्वेष्टगौरवम् ।
मूत्रमल्पाल्पमथवा विमुञ्चति सकृत्सकृत्

1.158.27

वातकुण्डलिकेत्येव मूत्रं तु विधृते ऽचिरम् ।
न निरेति निरुद्धं वा मूत्रातीतं तदल्परुक्

1.158.28

विधारणात्प्रतिहतं वातादावर्तितं यदा ।
नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा

1.158.29

कुर्यात्तीव्ररुगाध्मानमशक्तिं मलसंग्रहम् ।
तन्मूत्रं जाठरच्छिद्रवैगुण्येनानिलेन वा

1.158.30

आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वा मले ।
स्थित्वा प्लवेच्छनैः पश्चात्सरुजं वाथवारुजम्

1.158.31

मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः ।
अन्तर्वस्ति मुखे तृष्णा स्थिराल्पं सहसा भवेत्

1.158.32

अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ।
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम्

1.158.33

स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते ।
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते

1.158.34

रूक्षदुर्बलयोर्वातेनोदावर्तं शकृद्यदा ।
मूत्रस्रोतो ऽनुपर्येति संसृष्टं शकृता तदा

1.158.35

मूत्रबिन्दुं तुल्यगन्धं स्याद्विघातं तमादिशेत् ।
पित्तव्यायामतीक्ष्णाम्लभोजनाध्मानकादिभिः

1.158.36

प्रवृद्धवायुना मूत्रे वस्तिस्थे चैव दाहकृत् ।
मूत्रं वर्तयते पूर्वं सरक्तं रक्तमेव वा

1.158.37

उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम् ।
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ

1.158.38

मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ।
पित्तं कफो द्वादपि वा संहन्येतेनिलेनचेत्

1.158.39

कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ।
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्

1.158.40

शुष्कं समस्तवर्णं वा मूत्रसादं वदन्तितम् ।
इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc