भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.155

1.155.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आम्लपित्तनिदाना नाम चतुः पञ्चाशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 155
धन्वन्तरिरुवाच ।
वक्ष्ये मदात्ययादेश्च निदानं मुनिभाषितम् ।
तीक्ष्णाम्लरूक्षसूक्ष्माम्लव्यवायासुकरं लघु

1.155.2

विकाशि विशदं मद्यं मेदसो ऽस्माद्विपर्ययः ।
तीक्ष्णोदयाश्च दिव्युक्ताश्चित्तोपप्लविनो गुणाः

1.155.3

जीवितान्ताः प्रजायन्ते विषेणोत्कर्षवर्तिना ।
तीक्ष्णादिभिर्गुणैर्मद्यं मान्द्यदीनोजसो गुणान्

1.155.4

दशभिर्गुणैः संक्षोम्यं चेतो नयति चाक्रियम् ।
आद्ये मदे द्वितीये ऽपि प्रम (मो) दायतने स्थितः

1.155.5

दुर्विकल्पहतो मूढः सुखमित्यभिमुच्यते ।
मध्यमोत्तमयोः सन्धिं प्राप्य राजासनो मदः

1.155.6

निरङ्कुश इव व्यालो न किञ्चिन्नाचरेत्ततः ।
इयं भूमिरवाच्यानां दौः शीलस्येदमास्पदम्

1.155.7

एको ऽयं बहुमार्गायाः दुर्गर् (म) तेर्दर्शकः परम् ।
निश्चेष्टः सन्नवाक्शेते तृतीये ऽत्र मदे स्थितः

1.155.8

मरणादपि पापात्मा गतः पापतरां दशाम् ।
धर्माधर्मं सुखं दुः खं मानानर्थं हिताहितम्

1.155.9

न वेद शीकमोहार्तं शोष (क) मोहादिसंयुतः ।
सोन्मादभ्रममूर्छायां सापस्मारः पतत्यधः

1.155.10

नाति माद्यन्ति बलिनः कृताहारा महाशनाः ।
वातात्पित्तात्कफात्सर्वैर्भवेद्रोगो मदात्ययः

1.155.11

सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा ।
विभेदं प्रसभं तृष्णा सौम्यो ग्लानिर्ज्वरो ऽरुचिः

1.155.12

पुरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः ।
स्वेदो ऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः

1.155.13

स्वप्नेनेवाभिभवति न चोक्तश्च स भाषतेः ।
पित्ताद्दाहज्वरः स्वेदो मोहो नित्यं च विभ्रमः

1.155.14

श्लेष्मणश्छर्दिर्हृल्लासो निद्रा चोदरगौरवम् ।
सर्वजे सर्वलिङ्गत्वं ज्ञात्वा मद्यं पिबेत्तु यः

1.155.15

सहसा रुचिरं चान्यतरध्वंसकशोषिणौ ।
भवेतां?मारुतात्कष्टाद्भवेत्त स्य विशेषतः

1.155.16

ध्वंसकश्लेष्मनिष्ठिवाः कण्ठशोषो ऽतिनिद्रता ।
शब्दासहत्वं तच्चित्तविक्षेपो ऽङ्गे हि वातरुक्

1.155.17

हृत्कण्ठरोगः संमोहः श्वासतृष्णावमिज्वराः ।
निवर्तेद्यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्

1.155.18

विकारैः क्लिश्यते जातु न स शरीरमानसः ।
रजोमोहहिताहारपास्य स्युस्त्रयो गदाः

1.155.19

वसासृक्क्लेदनावाहिस्रोतोरोधः सुद्भवाः ।
मदमूर्छापसंन्यासा यथोत्तरबलोद्भवाः

1.155.20

मदो ऽत्र दोषैः सर्वैस्तु रक्तमद्यविषैरपि ।
शक्त्यानन्त्याद्गताभासश्चलश्छलितवेष्टितः

1.155.21

रूक्षश्यामारुणतनुर्मद्ये वातोद्भवे भवेत् ।
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः

1.155.22

स्वप्ने ऽसम्बद्धवाक्यादिः कफाद्ध्यानपरो हि सः ।
सर्वोत्थसन्निपातेन रक्तस्तम्भाङ्गदूषणम्

1.155.23

पित्तलिङ्गत्वमाद्येन विकृतेहा स्वराज्ञता ।
विसत्कम्पोतिनिद्रा च सर्वेभ्यो ऽभ्यधिकं श्रमः

1.155.24

लक्षयेल्लक्षणोत्कर्षाद्वातादीञ्छोणितादिषु ।
अरुणं नीलकृष्णं वा सम्प्रविश्यन्विशेत्तमः

1.155.25

शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः ।
कासः श्यावारुणा च्छाया मूर्छायां मारुतात्मकः

1.155.26

पित्तेन रक्तं पीतं वा नभः पश्यन्विशेत्तमः ।
विबुध्येत च सस्वेदो दाहतृष्णोपपीडितः

1.155.27

भिन्नवत्पीतनीलाभो रक्तनीलाकुलेक्षणः ।
कफेन मेघसंकाशं पश्यत्याकाशमाविशेत्

1.155.28

तमश्चिराच्च बुध्ये हृदुरः सुप्रसेकवान् ।
गुरुभिस्तिमितै (रै) रङ्गे राजधर्मावबन्धान् (वत्)

1.155.29

सर्वाकृतिस्त्रिभिर्देषैरपस्मार इवापरः ।
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः

1.155.30

दोषैस्तु मदमूर्छायां कृतवेगेषु देहिनाम् ।
स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्निवा

1.155.31

वाग्देहमनसां चेष्टामाक्षिप्यातिबलाबलाः ।
ससन्यासं निपतिताः प्राणाघातनसंश्रयाः

1.155.32

भवन्ति तेन पुरुषाः काष्ठभूता मृतोपमाः ।
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते

1.155.33

अगाधे ग्राहबहुले सलिलौघ इवार्णवे ।
संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्

1.155.34

मदमानरोषतोष प्रवृत्तिभिरितस्ततः ।
युक्तायुक्तं च समं युक्तिं युङ्क्ते न मद्येन

1.155.35

बलकासदेशपात्रं प्रकृतिसहतामथवा वयांसि? ।
प्रविभज्ज्यात्तनुरूपं पिबति ततः पिबत्यमृत

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc