भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.148

1.148.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरनिदानादिकं नाम सप्तचत्वारिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 148
धन्वन्तरिरुवाच ।
अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः

1.148.2

कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरति सेवितैः ।
कुपितं पैत्तिकैः पित्तं द्रवं रक्तञ्च मूर्छति

1.148.3

तैर्मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् ।
पित्तरक्तस्य विकृतेः संसर्गाद्दषणादपि

1.148.4

गन्धवर्णानुवृत्तेषु रक्तेन व्यपदिश्यते ।
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च सः

1.148.5

शिरोगुरुत्वमरुचिः शीतेच्छा धूमको ऽम्लकः ।
छर्धितश्छर्दिबै भत्स्यं कासः श्वासो भ्रमः क्लमः

1.148.6

लोहितो न हितो मत्स्यगन्धास्यात्वञ्च विज्वरे ।
रक्तहारिद्रहरितवर्णता नयनादिषु

1.148.7

नीललोहित पीतानां वर्णानामविवेचनम् ।
स्वप्ने इन्मादधर्मित्वं भवत्यस्मिन्भविष्यति

1.148.8

उर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते

1.148.9

ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधितम् ।
बह्वौषधानि पित्तस्य विरेको हि वरौषधम्

1.148.10

अनुबन्धी कफो यत्र तत्र तस्यापि शुद्धिकृत् ।
कषायाः स्वादवो यस्य विशुद्धौ श्लेष्मला हिताः

1.148.11

कटुतिक्तकषाया वा ये निसर्गात्कफावहाः ।
अधो याप्यञ्च नायुष्मांस्तत्प्रच्छर्दनसाधकम्

1.148.12

अल्पौषधञ्च पित्तस्य वमनं नावमौषधम् ।
अनुबन्धि बलं यस्य शान्तपित्तनरस्य च

1.148.13

कषायश्च हितस्तस्य मधुरा एव केवलम् ।
कफमारुतसंस्पृष्टमसाध्यमुपनामनम्

1.148.14

असह्यं प्रतिलोमत्वादसाध्यादौषधस्य च ।
न हि संशोधनं किञ्चिदस्य च प्रतिलोमिनः

1.148.15

शोधनं प्रतिलोमञ्च रक्तपित्ते ऽभिसर्जितम् ।
एवमेवोपशमनं संशोधनमिहेष्यते

1.148.16

संसृष्टेषु हि दोषेषु सर्वथा छर्दनं हितम् ।
तत्र दोषो ऽत्र गमनं शिवास्त्र इव लक्ष्यते

1.148.17

उपद्रवाश्च विकृतिं फलतस्तेषु साधितम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc