भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.142

1.142.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भविष्य राजवंश दृ नामैकचत्वारिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 142
ब्रह्मोवाच ।
विंशादीन्पालयामास ह्यवतीर्णो हरिः प्रभुः ।
दैत्यधर्मस्य नाशार्थं वेदधर्मादिगुप्तये

1.142.2

मत्स्यादिकस्वरूपेण त्ववतारं करोत्यजः ।
मत्स्यो भूत्वा हयग्रीवं दैत्यं हत्वाजिकण्टकम्

1.142.3

वेदानानीय मन्वादीन्पालयामास केशवः ।
मन्दरं धारयामास कूर्मो भूत्वा हिताय च

1.142.4

क्षीरोदमथने वै द्यो देवो धन्वन्तरिर्ह्यर्भूत् ।
बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः

1.142.5

आयुर्वेदमथाष्टाङ्गं सुश्रुताय स उक्तवान् ।
अमृतं पाययामास स्त्रीरूपी च सुरान्हरिः

1.142.6

अवतीर्णो वराहो ऽथ हिरण्याक्षं जघान ह ।
पृथिवीं धारयामास पालयामास देवताः

1.142.7

नरसिंहो ऽवर्तोर्णो ऽथ हिरण्यकशिपुंरिपुम् ।
दैत्यान्निहतवान्वेदधर्मादीनभ्यपालयत्

1.142.8

ततः परशुरामो ऽभूज्जमदग्नेर्जगत्प्रभुः ।
त्रिः सप्तकृत्वः पृथिवीं चक्रे निः क्षत्त्रियां हरिः

1.142.9

कार्तवीर्यं जघानाजौ कश्यपाय महीं ददौ ।
यागं कृत्वा महाबाहुर्महेन्द्रे पर्वते स्थितः

1.142.10

ततो रामो भविष्णुश्च चतुर्धा दुष्टर्मदनः ।
पुत्रो दशरथाज्जज्ञे रामश्च भरतो ऽनुजः

1.142.11

लक्ष्मणश्चाथ शत्रुघ्नो रामभार्या च जानकी ।
रामश्च पितृसत्यार्थं मातृभ्यो हितमाचरन्

1.142.12

शृङ्गवेरं चित्रकूटं दण्डकारण्यमागतः ।
नासां शूर्पणखायाश्च च्छित्त्वाथ खरदूषणम्

1.142.13

हत्वा स राक्षसं सीतापहारिरजनीचरम् ।
रावणं चानुजं तस्य लङ्कापुर्यां विभीषणम्

1.142.14

रक्षोराज्ये च संस्थाप्य सुग्रीवनुमन्मुखैः ।
आरुह्य पुष्पकं सार्धं सीतया पतिभक्तया

1.142.15

लक्ष्मणेनानुकूलेन ह्ययोध्यां स्वपुरीं गतः ।
राज्यं चकार देवादीन्पालयामास स प्रजाः

1.142.16

धर्मसंरक्षणं चक्रे ह्यश्वमेधादिकान्क्रतून् ।
सा महीपतिना रेमे रामेणैव यथासुखम्

1.142.17

रावणस्य गृहे सीता स्थिता भेजे न रावणम् ।
कर्मणा मनसा वाचा सा गता राघवं सदा

1.142.18

पतिव्रता तु सा सीता ह्यनसूया यथैव तु ।
पतिव्रताया माहात्म्यं शृणु त्वं कथयाम्यहम्

1.142.19

कौशिको ब्राह्मणः कुष्ठी प्रतिष्ठाने ऽभवत्पुरा ।
तं तथा व्याधितं भार्या पतिं देवमिवार्चयत्

1.142.20

निर्भर्त्सितापि भर्तारं तममन्यत दैवतम् ।
भर्त्रोक्ता सानयद्वेश्यां शुल्कमादाय चाधिकम्

1.142.21

पथि सूले तदा प्रोतमचौरं चौरशङ्कया ।
माण्डव्यमतिदुः खार्तमन्धकारे ऽथ स द्विजः

1.142.22

पत्नीस्कन्धसमारूढश्चालयामास कौशिकः ।
पादावमर्शणत्क्रुद्धो माण्डव्यस्तमुवाच ह

1.142.23

सूर्योदये मृतिस्तस्य येनाहं चालितः पदा ।
तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति

1.142.24

ततः सूर्योदयाभावाद भवत्सततं निशा ।
बहून्यब्दप्रमाणानि ततो देवा भयं ययुः

1.142.25

ब्रह्माणं शरणं जग्मुस्तामूचे पद्मसम्भवः ।
प्रशाम्यते तेजसैव तपस्तेजस्त्वनेन वै

1.142.26

पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः ।
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा

1.142.27

तस्मात्पतिव्रतामत्रेरनसूयां तपस्विनीम् ।
प्रसादयत वै पत्नीं भानोरुदयकाम्यया

1.142.28

तैः सा प्रसादिता गत्वा ह्यनसूया पतिव्रता ।
कृत्वादित्योदयं सा च तं भर्तारमजीवयत् ।
पतिव्रतानसूयायाः सीताभूदधिका किल

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc