भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.140

1.140.1

इति श्रीगारुडे महुपाराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नामैकोनचत्वारिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 140
हरिरुवाच ।
जनमेजयः पुरोश्चाभून्नमस्युर्जनमेजयात् ।
तस्य पुत्रश्चाभयदः सुद्युश्चाभयदादभूत्

1.140.2

सुद्योर्बहुगतिः पुत्रः संजातिस्तस्य चात्मजः ।
वत्सजातिश्च सञ्जातेः रौद्राश्वश्च तदात्मजः

1.140.3

ऋतेयुः स्थण्डिलेयुश्च कक्षेयुश्च कृतेयुकः ।
जलेयुः सन्ततेयुश्च रोद्राश्वस्य सुता वराः

1.140.4

रतिनार ऋतेयोश्च तस्य प्रतिरथः सुतः ।
तस्य मेधातिथिः पुत्रस्तत्पुत्रश्चैनिलः स्मृतः

1.140.5

ऐनिलस्य तु दुष्यन्तो भरतस्तस्य चात्मजः ।
शकुन्तलायां संजज्ञे वितथो भरतादभूत्

1.140.6

वितथस्य सुतो मन्युर्मन्योश्चैव नरः स्मृतः ।
नरस्य संकृतिः पुत्रो गर्गो वै संकृतेः सुतः

1.140.7

गर्गादमन्युः पुत्रो वै शिनिः पुत्रो व्यजायत ।
मन्युपुत्रान्महावीर्यात्सुतो ऽभवदुरुक्षयः

1.140.8

उरुक्षयात्त्रय्यारुणिर्व्यूहक्षत्राच्च मन्युजात् ।
सुहोत्रस्तस्य हस्ती च अजमीढद्विमीढकौ

1.140.9

हस्तिनः पुरुमीढश्च कण्वो ऽभूदजमीढतः ।
कण्वान्मेधातिथिर्जज्ञे यतः काण्वायना द्विजाः

1.140.10

अजमीढाद्वृहदिषुस्तत्पुत्रश्च बृहद्धनुः ।
बृहत्कर्मा तस्य पुत्रस्तस्य पुत्रो जयद्रथः

1.140.11

जयद्रथाद्विश्वजिच्च सेनजिच्च तदात्मजः ।
रुचिराश्वः सेनजितः पृथुसेनस्तदात्मजः

1.140.12

पारस्तु पृथुसेनस्य पाराद्द्वीपो ऽभवन्नृपः ।
नृपस्य सृमरः पुत्रः सुकृतिश्च पृथोः सुतः

1.140.13

विभ्राजः सुकृतेः पुत्रो विभ्राजादश्वहो ऽभवत् ।
कृत्यां तस्माद्ब्रह्मदत्तो विष्वक्सेनस्तदात्मजः

1.140.14

यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात् ।
धतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः

1.140.15

दृढनेमेः सुपार्श्वो ऽभूत् सुपार्श्वात्सन्नतिस्तथा ।
कृस्तु सन्नतेः पुत्रः कृतादुग्रायुधो ऽभवत्

1.140.16

उग्रायुधाच्च क्षेम्यौऽभूत्सुधीरस्तु तदात्मजः ।
पुरञ्जयः सुधीराच्च तस्य पुत्रो विदूरथः

1.140.17

अजमीढान्नलिन्याञ्च नीलो नाम नृपो ऽभवत् ।
नीलाच्छान्तिरभूत्पुत्रः सुशान्तिस्तस्य चात्मजः

1.140.18

सुशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतो ऽभवत् ।
अर्कस्य चैव हर्यश्वो हर्यश्वान्मुकुलो ऽभवत्

1.140.19

यवीनरो बृहद्भानुः कम्पिल्लः सृञ्जयस्तथा ।
पाञ्चालान्मुकुलाज्जज्ञे शरद्वान्वैष्णवो महान्

1.140.20

दिवोदासो द्वितीयो ऽस्य ह्यहल्यायां शरद्वतः ।
शतानन्दो ऽभवत्पुत्रस्तस्य सत्यधृतिः सतः

1.140.21

कृपः कृपी सत्यधृतेरुर्वश्यां वीर्यहानितः ।
द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम्

1.140.22

दिवोदासान्मित्रयुश्च मित्रयोश्च्यवनो ऽभवत् ।
सुदासश्च्यवनाज्जज्ञे सौदासस्तस्य जात्मजः

1.140.23

सहदेवस्तस्य पुत्रः सहदेवात्तु सोमकः ।
जन्तुस्तु सोमकाज्जज्ञे पृषतश्चापरो महान्

1.140.24

पृषताद्द्रुपदो जज्ञे धृष्टद्युम्नस्ततो ऽभवत् ।
धृष्टद्युम्नाद्धृष्टकेतुरृक्षो ऽभूतजमीढतः

1.140.25

ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत् ।
सुधनुश्च पीक्षिच्च जह्नुश्चैव कुरोः सुताः

1.140.26

सुधनुषः सुहोत्रो ऽभूच्च्यवनो ऽभूत्सुहोत्रतः ।
च्यवनात्कृतको जज्ञे तथोपरिचरो वसुः

1.140.27

बृहद्रथश्च प्रत्यग्रः सत्याद्याश्च वसोः सुताः ।
बृहद्रथात्कुशाग्रश्च कुशाग्रादृषभो ऽभवत्

1.140.28

ऋषभात्पुष्पवांस्तस्माज्जज्ञे सत्यहितो नृपः ।
सत्यहितात्सुधन्वाभूज्जह्रुश्चव सुधन्वनः

1.140.29

बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः ।
सहदेवाच्च च सोमापिः सोमापेः श्रुतवान्सुतः

1.140.30

भीमसेनोग्रसेनौ च श्रुतसेनो ऽपराजितः ।
जनमेजयस्तथान्यो ऽभूज्जह्नोस्तु सुरथो ऽभवत्

1.140.31

विदूरथस्तु सुरथात्सार्वभौमो विदूरथात् ।
जयसेनः सार्वभौमादावधीतस्तदात्मजः

1.140.32

अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः ।
अक्रोधनस्यातिथिश्च ऋक्षो ऽभूदतिथेः सुतः

1.140.33

ऋक्षाच्च भीमसेनो ऽभूद्दिलीपो भीमसेनतः ।
प्रतीपो ऽभूद्दिलीपाच्च देवापिस्तु प्रतीपतः

1.140.34

शन्तनुश्चैव बाह्लीकस्त्रयस्ते भ्रातरो नृपाः ।
बाह्लीकात्सोमदत्तो ऽभूद्भूरिर्भूरिश्रवास्ततः

1.140.35

शलश्च शन्तनोर्भोष्मो गङ्गायां धार्मिको महान् ।
चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शन्तनोः

1.140.36

भार्ये विचित्रवीर्यस्य त्वम्बिकाम्बालिके तयोः ।
धृराष्ट्रं च पाण्डुञ्च तद्दास्यां विदुरन्तथा

1.140.37

व्यास उत्पादयामास गान्धागी धृतराष्ट्रतः ।
शतपुत्रं दुर्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे

1.140.38

प्रतिबिन्ध्यः श्रुतसोमः श्रुतकीर्तिस्तथार्जुनात् ।
शतानीकः श्रुतकर्मा द्रौपद्यां पञ्च वै क्रमात्

1.140.39

यौधेयी च हिडिम्बा च कौशी चैव सुभद्रिका ।
विजया वै रेणुमती पञ्चभ्यस्तु सुताः क्रमात्

1.140.40

देवको घचोत्कचश्च ह्यभिमन्युश्च सर्वगः ।
सुहोत्रो निरमित्रश्च परीक्षिदभिमन्युजः

1.140.41

जनमेजयो ऽस्य ततो भविष्यांश्च नृपाञ्छृणु

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc