भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.111

1.111.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे दशोत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 111
सूत उवाच ।
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ।
सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत्

1.111.2

राज्यं पालयते नित्यं सत्यधर्मपरायणः ।
निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत्

1.111.3

पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारण्ये न यथाङ्गारकारकः

1.111.4

दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते ।
परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत्

1.111.5

नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः ।
एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते

1.111.6

तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन् ।
पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम्

1.111.7

आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः ।
प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः

1.111.8

ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत् ।
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम्

1.111.9

सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम्

1.111.10

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे ।
आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित्

1.111.11

निः शङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या ।
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन

1.111.12

मातृवत्परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः

1.111.13

एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः ।
यदेषां सर्वकार्येषु वचो न प्रतिहन्यते

1.111.14

एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम् ।
रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये

1.111.15

ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते ।
स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते

1.111.16

असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम् ।
किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः

1.111.17

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः

1.111.18

त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः

1.111.19

अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः ।
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति

1.111.20

यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः ।
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि

1.111.21

येनार्जितास्त्रयो ऽप्यो ऽप्येते पुत्रा भृत्याश्च बान्धवाः ।
जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा

1.111.22

लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च ।
सहि नश्यति वै राजा इह लोके परत्र च

1.111.23

मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः ।
समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत्

1.111.24

धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः ।
प्रविश्य वदनं राहोः किं नोदति पुनः शशी

1.111.25

धिग्धिक् शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव ।
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः

1.111.26

गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान् ।
धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः

1.111.27

कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः ।
स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम्

1.111.28

चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत् ।
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि

1.111.29

लीलां करोति यो राजा भृत्यस्वजनगर्वितः ।
शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते

1.111.30

हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः ।
विना दोषेण यो भृत्यान्राजाधमण शास्ति च ।
लीलासुखानि भोग्यानि त्यजेदिह महीपतिः

1.111.31

सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः

1.111.32

उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः ।
षड्विधो यस्य उत्साहस्तस्य देवो ऽपि शङ्कते

1.111.33

उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते ।
दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc