गरुड़ पुराण · अध्याय 1.11
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमो ऽध्यायः
श्रीगरुडमहापुराणम्- 11
हरिरुवाचं ।
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि ।
जीवमुत्क्षिप्य मूर्धन्यं नाभ्यां व्योम्निनिवेशयेत्
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः ।
यमित्यनेन बीजेन तच्च सर्व विनाशयेत्
लमित्यनेन बीजेन प्लावयेत्सचराचरम् ।
वमित्यनेन बीजेन चिन्तयेदमृतं ततः
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः ।
अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत्
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः ।
द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम्
षडङ्गेन ततः कुर्यात्साक्षाद्येन हरिर्भवेत् ।
दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठन्दले न्यसेत्
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः ।
हृच्छिरसि शिखावर्ंमवक्क्राक्ष्युदहपृष्ठतः
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत् ।
पद्माकारौ करौ कृत्वा मध्ये ऽङ्गुष्ठं निवेशयेत्
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम् ।
क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत्
ततो मूर्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा ।
नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात्
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम्
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः ।
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत्
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ ।
नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत् ।
हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम् ।
आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत्
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम् ।
अनन्तं विन्सेत्पश्चात्पूर्वकायोन्नतं स्थितम्
ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम् ।
सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्धकर्णिकम्
ध्यात्वा वेदादिना पश्चात्सूर्यसोमानलात्मनाम् ।
मण्डलानि क्रमादेवमुपर्युपरि चिन्तयेत्
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः ।
विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम्
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् ।
मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः ।
मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः ।
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत्
सुदर्शनं सहस्रारं दक्षिणे द्वारि विन्यसेत् ।
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा
द्वार्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् ।
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत्
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम् ।
ततो ऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत्
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत् ।
ऊर्घ्वं ब्रिह्म तथानन्तमधश्च परिचिन्तयेत्
सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः ।
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी
वन्दनी हृदयासक्तात्सार्धं दक्षिणतोन्नता ।
ऊर्धाङ्गुण्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनः
सव्यस्य तस्य चाङ्गुष्ठो यः स उद्धः प्रकीर्तितः ।
तिस्रः साधारणा ह्येता मूर्तिभेदेन कल्पिताः
कनिष्ठादिप्रमोकेण अष्टौ मुद्रा यथाक्रमम् ।
अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत्
अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम् ।
मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम्
सव्यहस्तं तथोत्तानं कृत्वोर्धं भ्रामयेच्छनैः ।
नवमीयं स्मृता मुद्रा वराहाभिमता सदा
मुष्टिद्वयमथोत्तानमृज्वैकैकेन मोचयेत् ।
उत्कुञ्चयेत्सर्वमुक्ता अङ्गमुद्रेयमुच्यते
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः ।
दशानां लोकपालानां मुद्राश्च क्रमयोगतः
सुरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च ।
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम्
प्रणवस्तत्सदित्येतद् हुं क्षैं भूरिति मन्त्रकाः ।
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट्
सितारुणहरिद्राभा नीलश्यामल्लोहिताः ।
मेघाग्निमदुपिङ्गाभा वर्णतो नवनामकाः
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम् ।
षं चं फं षं गदादेवी वं लं मं क्षं च शङ्खकम्
घं ढं भं हं भवेच्छ्रीश्च गं जं वं शं च पुष्टिका ।
घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत्
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च ।
इत्यङ्गानियथायोगं देवदेवस्य वै दशा
गरुडो ऽम्बुजसंकाशो गदा चैवासिताकृतिः ।
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा
पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः ।
चक्रं सूर्यसहस्राभं श्रीवत्सः कुन्दसन्निभः
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः ।
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0