गरुड़ पुराण · अध्याय 1.105
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 105
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति
तस्माद्यत्नेन कर्तव्यं प्रायश्चित्तं विशुद्धये ।
एवमस्यान्तरात्मा च लोकश्चैव प्रसदिति
लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः ।
प्रायश्चित्तमकुर्वाणाः पश्चात्तापविवर्जिताः
नरकान्यान्ति पापा वै महारौरवरौरवान् ।
तामिस्त्रं लोहशङ्कुं च पूतिगन्धसमाकुलम्
हंसाभं लोहितोदं च सञ्जीवननदीपथम् ।
महानिलयकाकोलमन्धतामिस्त्रवापनम्
अवीचिं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः ।
ब्रह्महा मद्यपः स्तेयी संयोगी गुरुतल्पगः
गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे ।
निषिद्धभक्षणं जिह्मक्रियाचरणमेव च
रजस्वलामुखास्वादः सुरापानसमानि तु ।
अश्वरत्नादिहरणं सुवर्णस्तेयसंमितम्
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु तथा स्त्रीषु गुरुतल्पसमं स्मृतम्
पितुः स्वसारं मातुश्च मातुलानीं स्नुषाम पि ।
मातुः सपत्नीं भगिनीमाचार्यतनयां तथा
आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ।
छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा
गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया ।
अनाहिताग्नितापण्यविक्रयः परिवेदनम्
भृत्याचाध्ययनादानं भृतकाध्या पनन्तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया
सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता ।
नास्तिक्यं व्रतलोपश्च शूल्यं गोश्वेव विक्रयः
पितृमातृसुहृत्त्यागस्तडागारामविक्रयः ।
कन्यायादूषण चैव परिविन्दकयाजनम्
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ।
आत्मनोर्ऽथे क्रियारम्भो मद्यपस्त्रीनिषेवणम्
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ।
असच्छास्त्राभिगमनं भार्यात्मपरिवि क्रयः
उपपापानि चोक्तानि प्रायश्चित्तं निबोधत ।
शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन्
ब्रह्महा द्वादश समा मितभुक् शुद्धिमाप्नुयात् ।
लोमभ्यः स्वाहेति च वा लोमप्रभृति वै तनुम्
मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम् ।
शुद्धिः स्याद्ब्राह्मणत्राणात्कृत्वैवं शुद्धिरेव च
निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतो ऽपि वा ।
अरण्ये नियतो जुप्त्वा त्रिः कृत्वो वेदसंहिताम्
सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत् ।
यागस्थक्षत्त्रविड्घात् चरेद्ब्रह्महणो व्रतम्
गर्भहा वा यथावर्णं तथात्रेयीनिषू (सू) दनम् ।
चरेद्ब्रतमहत्वापि घातनार्थमुपागतः
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत् ।
सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः
अग्निवर्णं घृतं वापि चीरवास जटी भवेत् ।
व्रतं ब्रह्महणः कुर्यात्पुनः संस्कारमर्हति
रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा ।
पतिलोकपरिभ्रष्टा गृध्री स्यात्सूकरी शुनी
स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा ।
कर्मणः ख्यापनं कृत्वा हतस्तेन भवेच्छुचिः
आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः ।
शयने सार्धमायस्या योषिता निभृतं स्वपेत्
उच्छेद्य लिङ्गं वृषणं नैरृत्यामुत्सृजोद्दिशि ।
प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः
चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम् ।
पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः
गोष्ठेशयो गो ऽनुगामी गोप्रदानेन शुध्यति ।
उपपातकशुद्धिः स्याच्चान्द्रायणव्रतेन च
पयसा वापि मासेन पराकेणापि वा पुनः ।
ऋषभैकं सहस्रं गा दद्यात्क्षत्त्रवधे पुमान्
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ।
वैश्यहाब्दं च (ब्दांश्च) रेदेतद्दद्याद्वैकशतं गवाम्
षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश ।
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत्
मार्जारगोधानकुलपशुमण्डूकघातनात् ।
पिबेत्क्षीरं त्र्यहं पापी कृच्छ्रं वाप्यधिकं चरेत्
गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम् ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् ।
अवकीर्णो भवेद्गत्त्वा ब्रह्मचारी च योषितम्
गर्दभं पशुमालभ्य नैरृतं च विशुध्यति ।
मधुमांसाशने कार्यं कृच्छ्रं शेषव्रतानि च
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियेत् प्रहितो यदि ।
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति
रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत् ।
क्रियमाणोपकारे च मृते विप्रे न पातकम्
महापापोपपापाभ्यां योभिशस्तो मृषा परम् ।
अब्भक्षो मासमासीत स जापी नियतन्द्रियः
अनियुक्तो भ्रातृभार्यां गच्छंश्चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भवेत्
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती ।
गायत्त्रीजप्यनिरतो मुच्यते ऽसत्प्रतिग्रहात्
त्रिः कृच्छ्रमाचरेद्व्रात्ययाजको ऽपि चरन्नपि ।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतान्
प्राणायामत्रयं कुर्यात्खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम्
गुरुन्त्वं कृत्य हुङ्कृत्य विप्रं निर्जित्य वाद तः ।
प्रसाद्य तं च मुनयस्ततो ह्युपवसेद्दिनम्
विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने ।
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः
प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः ।
गर्भत्यागो भर्तृनिन्दा स्त्रीणां पतनकारणम्
एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत् ।
विख्यातदोषः कुर्वीत गुरोरनुमतं व्रतम्
असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् ।
त्रिरात्रोपोषणो जप्त्वा ब्रह्महा त्वघमर्षणम्
अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम् ।
लोमभ्यः स्वाहेति ऋचा दिवसं मारुताशनः
जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः ।
त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ।
सहस्रशीर्षाजप्येन मुच्यते गुरुतल्पगः
प्राणायामशतं कुर्यात्सर्वपापापनुक्त्ये ।
ओङ्काराभियुतं सोमसलिलप्रशनाच्छुचिः
कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः ।
अज्ञानकृतपापस्य नाशः सन्ध्यात्रये कृते
रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः ।
वेदाभ्यासरतं शान्तं पञ्चयज्ञक्रियापरम्
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः ।
जप्त्वा सहस्रगायत्त्रीं शुचिर्ब्रह्महणादृते
ब्रह्मचर्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता ।
अहिंसा स्तेयमाधुर्ये दमश्चैते यमाः स्मृताः
स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः ।
तपो ऽक्रोधो गुरोर्भक्तिः शौचं च नियमाः स्मृताः
पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम् ।
जग्ध्वा परेह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत्
पृथक् सान्तपनैर्द्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रो ऽयं महासान्तपनः स्मृतः
पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहाभ्यस्तैः पर्ण कृच्छ्र उदाहृतः
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चकन पादकृच्छ्र उदाहृतः
यथा कथञ्चित्त्रिगुणः प्रजापत्यो ऽयमुच्यते ।
अयमेवातिकृच्छ्रः स्यात्पाणिपूर्णाम्बुभोजनात्
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासैश्च पराकः समुदाहृतः
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
एकैकमुपवासश्च कृच्छ्रः सौम्यो ऽयमुच्यते
एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः
तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसंमितान् ।
एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत्
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम्
कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् ।
पवित्राणि जपेत्पिण्डान् गायत्त्र्या चाभिमन्त्रयेत्
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु ।
धर्मार्थो यश्चरेदेतच्चन्द्रस्यैति सलोकताम्
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0