भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.104

1.104.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्र्युत्तरशततमो ऽध्यायः
श्रागरुडमहापुराणम्- 104
याज्ञवल्क्य उवाच ।
नरकात्पताकोद्भूतात्क्षयात्पापस्य कमणः ।
ब्रह्महा श्वा खरोष्ट्रः स्याद्भेको यकः सुराप्यपि

1.104.2

स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः ।
क्षयरोगी श्यावदन्तः कुनखी शिपिविष्टकः

1.104.3

ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशेर्भवेत् ।
अन्नहर्ता मयावी स्यान्मूको वागपहारकः

1.104.4

धान्यहार्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलाहारी तैलपायी पूतिवक्त्रस्तु सूचकः

1.104.5

ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः ।
रत्नहृद्धीनजातः स्यात्पत्रशाकहरः शिखी

1.104.6

गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत् ।
फलं कपिः पशून्हृत्वा त्वजा काकः पयस्तथा

1.104.7

मांसं गृध्रः पटं श्वित्री चीरी लवणहारकः ।
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात्

1.104.8

जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ।
ततो निष्कलुषीभूता कुले महति योगिनः

1.104.9

जायन्ते लक्षणोपेता धनधान्यसमन्विताः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc