भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 9.4

9.4.1

भक्तिमाहात्म्यम्
श्रीव्यास उवाच -
खे वायौ सलिले वह्नौ मह्यां ज्योतिर्गणेषु च ॥
श्रीकृष्णदेवं पश्यंतो हर्षिताश्च पुनः पुनः

9.4.2

श्रीकृष्णो राधिकानाथः कोटिकंदर्पमोहनः ॥
तन्नेत्रगोचरो याति ब्रुवञ्छ्रीनंदनंदनः

9.4.3

सदानंदं च ते दृष्ट्वा प्रहसंति प्रहर्षिताः ॥
क्वचिद्‌वदंति धावंति नंदंति च क्वचित्तथा

9.4.4

क्वचिद्‌गायंति नृत्यंति क्वचित्तूष्णीं भवन्ति च ॥
कृष्णचंद्रस्वरूपास्ते कृतार्था वैष्णवोत्तमाः

9.4.5

तेषां दर्शनमात्रेण नरो याति कृतार्थताम् ॥
न कालो न यमस्तेषां दंडं दातुं न च क्षमः

9.4.6

गदा कौमोदकी वामे दक्षीणे च सुदर्शनम् ॥
अग्रे शार्ङ्गधनुः पश्चात्पांचजन्यो घनस्वनः

9.4.7

नंदकश्च महाखड्गः शतचन्द्रेषवः शिताः ॥
एतान्यायुधमुख्यानि तांश्च रक्षंत्यहर्निशम्

9.4.8

तथोपरि महापद्मं छायां कर्तुं पुनः पुनः ॥
गरुडः पक्षवातेन श्रमहर्ता सतामपि

9.4.9

यत्र यत्र गताः संतस्तत्र तत्र स्वयं हरिः ॥
तीर्थीकुर्वन् भूमिभागं श्रीमत्पादाब्जरेणुभिः

9.4.10

क्षणं यत्र स्थिताः संतस्तत्र तीर्थानि संति हि ॥
तत्र कोऽपि मृतः पापी याति विष्णोः परं पदम्

9.4.11

दूरात्संप्रेक्ष्य कृष्णेष्टा नाधयो व्याधयस्तथा ॥
भूतप्रेतपिशाचाश्च पलायंते दिशो दश

9.4.12

नद्यो नदाः पर्वताश्च समुद्राश्च तथापरे ॥
मार्गं ददुश्च साधुभ्योऽनपेक्षेभ्यः समंततः

9.4.13

साधूनां ज्ञाननिष्ठानां विरक्तानां महात्मनाम् ॥
अजातशत्रूणां तेषां दुर्लभं पुण्यवर्जितैः

9.4.14

यस्मिन्कुले कृष्णभक्तो जायते ब्रह्मलक्षणम् ॥
तत्कुलं विमलं विद्धि मलीमसमपि स्वतः

9.4.15

राजन् श्रीकृष्णभक्तस्तु पितॄन्दश कुलोद्‌भवान् ॥
प्रियापक्षेऽपि दश च मातृपक्षे तथा दश

9.4.16

पुरुषानुद्धरेद्‌राजन्निरयात्पापबंधनात् ॥
साधुसंबंधिनश्चान्ये भृत्या दासाः सुहृज्जनाः

9.4.17

शत्रवो भारवाहश्च तद्‌गृहे पक्षिणस्तथा ॥
पिपीलिकाश्च मशकास्तथा कीटपतङ्गकाः

9.4.18

अब्रह्मण्येऽकृष्णसारे सौवीरे कीकटे तथा ॥
म्लेच्छदेशेऽपि देवेश भक्तो लोकान्पुनाति हि

9.4.19

सांख्ययोगं विना राजंस्तीर्थधर्ममखैर्विना ॥
साधुसंसर्गिनस्तेऽपि प्रयांति हरिमन्दिरे

9.4.20

इत्थं श्रीकृष्णभक्तानां माहात्म्यं कथितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि

9.4.21

उग्रसेन उवाच -
परिपूर्णतमे साक्षाच्छ्रीकृष्णे परमात्मनि ॥
दन्तवक्त्रस्य दुष्टस्य ज्योतिर्लीनं बभूव ह

9.4.22

अहो महदिदं चित्रं सायूज्यं महतामपि ॥
योग्यं स्याद्विप्रमुख्येंद्र कथं चान्येन शत्रुणा

9.4.23

श्रीव्यास उवाच -
ममाहमिति वैषम्यं भूतानां त्रिगुणात्मनाम् ॥
क्रोधाद्यैर्वर्तते राजन्न हरौ परमात्मनि

9.4.24

हरौ केनापि भावेन मनो लग्नं करोति यः ॥
याति तद्‌रूपतां सोऽपि भृंगिणः कीटको यथा

9.4.25

स्नेहं कामं भयं क्रोधमैक्यं सौहृदमेव च ॥
कृत्वा तन्मयतां यांति सांख्ययोगं विना जनाः

9.4.26

स्नेहान्नंदयशोदाद्या वसुदेवादयोऽपरे ॥
कालाद्‌गोप्यो हरिं प्राप्ता न तु ब्रह्मतया नृप

9.4.27

तद्‌रूपगुणमाधुर्यभावसंलग्नमानसाः ॥
भयात्कंसस्तव सुतस्तत्सायूज्यं जगाम ह

9.4.28

क्रोधादयं दंतवक्त्रः शिशुपालादयोऽपरे ॥
ऐक्याच्च यादवा यूयं सौहृदाच्च वयं तथा

9.4.29

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥
अहर्निशं हि स्मरणं भवेच्छत्रोर्न कर्हिचित्

9.4.30

शत्रुभावं हरौ तस्मात्कुर्वंति दनुजादयः

9.4.4

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
भक्तिमाहात्म्यं नाम चतुर्थोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc