भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 9.3

9.3.1

निर्गुणभक्तियोगकथनम्
उग्रसेन उवाच -
श्रुतं तव मुखाद्ब्रह्मन् गुणकर्मगतिर्मया ॥
पुनरावर्तिनो लोकास्तथा संति विनिश्चताः

9.3.2

निष्कारणाद्धरेः साक्षात्सेवनाद्धाम उत्तमम् ॥
लभते दुर्लभं दिव्यं भक्तानां तच्छ्रुतं मया

9.3.3

भक्तियोगः कतिविधो वद मे वदतां वर ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः

9.3.4

श्रीव्यास उवाच -
द्वारावतीश धन्योऽसि श्रीकृष्णेष्टो हरिप्रियः ॥
पृच्छसे भक्तियोगं त्वं धन्या ते विमला मतिः

9.3.5

यं श्रुत्वा निर्मलो भूयाद्‌विश्वघात्यपि पातकी ॥
तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव

9.3.6

भक्तियोगो द्विधा राजन् सगुणश्चैव निर्गुणः ॥
सगुणः स्याद्‌बहुविधो निर्गुणश्चैकलक्षणः

9.3.7

सगुणः स्याद्‌बहुविधो गुणमार्गेण देहिनाम् ॥
तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणु तान्पृथक्

9.3.8

हिंसा दंभं च मात्सर्य्यं चाभिसंधाय भिन्नदृक् ॥
कुर्याद्‌भावं हरौ क्रोधी तामसः परिकीर्तितः

9.3.9

यश ऐश्वर्यविषयानभिसंधाय यत्‍नतः ॥
अर्चयेद्यो हरिं राजन् राजसः परिकीर्तितः

9.3.10

उद्दीश्य कर्मनिर्हारमपृथग्भाव एव हि ॥
मोक्षार्थं भजते विष्णुं स भक्तः सात्विकः स्मृतः

9.3.11

जिज्ञासुरार्तो ज्ञानी च तथाऽर्थार्थी महामते ॥
चतुर्विधा जना विष्णुं भजंते कृतमंगलाः

9.3.12

एवं बहुविधेनापि भक्तियोगेन माधवम् ॥
भजंति सनिमित्तास्ते जनाः सुकृतिनः परे

9.3.13

लक्षणं भक्तियोगस्य निर्गुणस्य तथा शृणु ॥
तद्‍गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे

9.3.14

परिपूर्णतमे साक्षात्सर्वकारणकारणे ॥
मनोगतिरविच्छिन्ना खंडिताऽहैतुकी च या

9.3.15

यथाब्धावंभसा गंगा सा भक्तिर्निर्गुणा स्मृता ॥
निर्गुणानां च भक्तानां लक्षणं शृणु मानद

9.3.16

सार्वभौमं पारमेष्ठ्यं शक्रधिष्ण्यं तथैव च ॥
रसाधिपत्यं योगर्द्धिं न वाञ्छन्ति हरेर्जनाः

9.3.17

हरिणा दीयमानं वा सालोक्यं यादवेश्वर ॥
न गृह्णंति कदाचित्ते सत्संगानंदनिर्वृताः

9.3.18

सामीप्यं ते न वांछंति भगवद्विरहातुराः ॥
संनिकृष्टे न तत्प्रेम यथा दूरतरे भवेत्

9.3.19

सारुप्यं दीयमानं वा समानत्वाभिमानिनः ॥
नैरपेक्ष्यान्न वांछंति भक्तास्तत्सेवनोत्सुकाः

9.3.20

एकत्वं चापि कैवल्यं न वांछंति कदाचन ॥
एवं चेत्तर्हि दासत्वं क्व स्वामित्वं परस्य च

9.3.21

निरपेक्षाश्च ये शांता निर्वैराः समदर्शिनः ॥
आकैवल्याल्लोकपदग्रहणं कारणं विदुः

9.3.22

नैरपेक्ष्यं महानंदं निरपेक्षा जनाः हरेः ॥
जानंति हि यथा नासा पुष्पामोदं न चक्षुषी

9.3.23

सकामाश्च तदानंदं जानंति हि कथंचन ॥
रसकर्ता तथा हस्तो रसस्वादं न वेत्ति हि

9.3.24

तस्माद्राजन्भक्तियोगं विद्धि चात्यंतिकं पदम् ॥
भक्तानां निरपेक्षाणां पद्धतिं कथयामि ते

9.3.25

स्मरणं किर्तनं विष्णोः श्रवणं पादसेवनम् ॥
अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम्

9.3.26

कुर्वंति सततं राजन् भक्तिं ये प्रेमलक्षणाम् ॥
ते भक्ता दुर्लभा भूमौ भगवद्‌भावभावनाः

9.3.27

कुर्वन्तो महतोपेक्षां दयां हीनेषु सर्वतः ॥
समानेषु तथा मैत्रीं सर्वभूतदयापराः

9.3.28

कृष्णपादाब्जमधुपाः कृष्णदर्शनलालसाः ॥
कृष्णं स्मरंति प्राणेशं यथा प्रोषितभर्तृकाः

9.3.29

श्रीकृष्णस्मरणाद्येषां रोमहर्षः प्रजायते ॥
आनंदाश्रुकलाश्चैव वैवर्ण्यं तु क्वचिद्‌भवेत्

9.3.30

श्रीकृष्ण गोविंद हरे ब्रुवन्तः श्लक्ष्णया गिरा ॥
अहर्निशं हरौ लग्नास्ते हि भागवतोत्तमाः

9.3.3

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
निर्गुणभक्तियोगवर्णनं नाम तृतीयोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc