भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 8

8.1

ब्रह्मणः कृष्णस्वरूपदर्शनम् -
श्रीनारद उवाच -
अदृष्ट्वा वत्सकानेत्य वत्सपान् पुलिने हरिः ।
उभौ विचिन्वन् विपिने मेने कर्म विधेः कृतम्

8.2

ततो गवां गोपिकानां मुदं कर्तुं स लीलया ।
सर्वं तु विश्वकृच्चक्रे ह्यात्मानमुभयायितम्

8.3

यावद्‌वत्सपवत्सानां वपुः पाणिपदादिकान् ।
यावद्यष्टिविषाणादीन् यावच्छीलगुणादिकान्

8.4

यावद् भूषणवस्त्रादीन् तावच्छ्रीहरिणा स्वतः ।
सर्वं विष्णुमयं विश्वमिति वाक्यं प्रदर्शितम्

8.5

आत्मवत्सानात्मगोपैश्चारयन् क्रीडया हरिः ।
प्राविशन्नन्दनगरमस्तंगिरिगते रवौ

8.6

तत्तद्‌गोष्ठे पृथङ्नीत्वा तत्तद्‌वत्सान् प्रवेश्य च ।
कृष्णोऽभवत्तत्तदात्मा तत्तद्‌गेहं प्रविष्टमान्

8.7

श्रुत्वा वंशीरवं गोप्यः सम्भ्रमाच्छीघ्रमुत्थिताः ।
पयांसि पाययामासुः लालयित्वा सुतान् पृथक्

8.8

स्वान् स्वान् वत्सान् तथा गावो रम्भमाणान्निरीक्ष्य च ।
लिहन्त्यो जिह्वयाङ्गानि पयांसि च ह्यपाययन्

8.9

अभवन्मातरः सर्वा गोप्यो गावो हरेरहो ।
अतिस्नेहञ्च ववृधे पूर्वतो हि चतुर्गुणम्

8.10

स्वपुत्रा लालयित्वा तु मज्जनोन्मर्दनादिभिः ।
पश्चाद्‌गोप्यश्च कृष्णस्य दर्शनं कर्तुमाययुः

8.11

अनेकानां तु बालानामुद्‌वाहाः कृष्णरूपिणाम् ।
बभूवुस्ता व्रजे वध्वो रताः कृष्णे तु कोटिशः

8.12

वत्सपालमिषेणापि स्वात्मानं ह्यात्मना हरेः ।
पालितो वत्सरश्चैको बभूव व्रजमण्डले

8.13

सरामश्चैकदा वत्सान् चारण्यं चारयन् ययौ ।
हायनापूरणीष्वत्र पञ्चपासु च रात्रिषु

8.14

तत्रापि दूराच्चरतश्च गावो
वत्सानुपव्रज्य गिरेश्च शृङ्‌गात् ।
लिहन्ति चाङ्‌गानि विलोकयन्त्यो
ह्यपाययंस्ता अमृतानि सद्यः

8.15

गोवर्धनादधो वत्सान् पीतदुग्धान् विलोक्य च ।
स्नेहावृत्ताः स्थिता गाश्च गोपाला ददृशुर्नृप

8.16

ततः क्रोधेन महता पर्वतादवतीर्य च ।
ताडनार्थे स्वपुत्राणामाजग्मुः कृच्छ्रतो द्रुतम्

8.17

यदाऽऽगता समीपे तु पुत्राणां गोपनायकाः ।
स्वान्स्वान् सुतान् तदोन्नीय ह्यङ्के कृत्वा मिलन्ति वै

8.18

यथा युवानो वृद्धाश्च स्नेहादश्रुपरिप्लुताः ।
स्वान्स्वान् पौत्रान् गृहीत्वा तु ह्युपविष्टा मिलन्ति हि

8.19

एवं प्रेमपरान् सर्वान् दृष्ट्वा सङ्कर्षणो बलः ।
बहुप्रकारं सन्देहं कृत्वा मनसि सोऽब्रवीत्

8.20

अहो किं वत्सरात्प्राप्तो न ज्ञातोऽपि व्रजे मया ।
अतिस्नेहस्तु सर्वेषां वर्धते च दिने दिने

8.21

मेयं माया समायाता देवगंधर्वरक्षसाम् ।
नान्या मे मोहिनी माया विना कृष्णस्य साम्प्रतम्

8.22

एवं विचार्य रामस्तु लोचने स्वे न्यमीलयत् ।
भूतं भव्यं भविष्यच्च दिव्याक्षाभ्यां ददर्श ह

8.23

सर्वान् वत्सांस्तथा गोपान् वंशीवेत्रविभूषितान् ।
बर्हिपक्षधरान् श्यामान् भृग्वङ्‌घ्रि कृतकौतुकान्

8.24

जालकानां मणीनाञ्च गुञ्जानां स्रग्भिरेव च ।
पद्मानां कुमुदानाञ्च ह्येषां स्रग्भिर्विभूषितान्

8.25

उष्णीषैर्मुकुटैर्दिव्यैः कुण्डलैरलकैर्वृतान् ।
आनन्दवर्षान् कुर्वाणान् शरत्पद्मदृशैरपि

8.26

कोटिकन्दर्पलावण्यान् नासामौक्तिकशोभितान् ।
शिखाभूषणसंयुक्तान् पाणिभूषणभूषितान्

8.27

द्विभुजान् पीतवस्त्रैश्च काञ्चीकटकनूपुरैः ।
प्रभातरविकोटीनां शोभाभिः शोभितान् शुभान्

8.28

उत्तरे गिरिराजस्य यमुनायाश्च दक्षिणे ।
आचष्ट वृन्दकारण्ये सर्वान् कृष्णं हलायुधः

8.29

ज्ञात्वा कृष्णकृतं कर्म तथा विधिकृतं बलः ।
पुनर्वत्सान् वत्सपाँश्च पश्यन् कृष्णमुवाच ह

8.30

ब्रह्मानन्तो धर्म इन्द्रः शिवश्च
सेवन्ते तं भक्तियुक्ताः सदैते ।
स्वात्मारामः पूर्णकामः परेशः
स्रष्टुं शक्तः कोटिशोऽण्डानि यः खे

8.31

श्रीनारद उवाच -
एवं ब्रुवति श्रीरामे तावत् तत्रागतो विधिः ।
ददर्श कृष्णं रामञ्च वत्सकैर्वत्सपैः समम्

8.32

अहो कृष्णेन चानीता यत्र सर्वे धृता मया ।
इति ब्रुवन् ययौ स्थाने तत्र सर्वान् ददर्श सः

8.33

दृष्ट्वा प्रसुप्तान् सर्वांस्तु स आगत्य व्रजे पुनः ।
वत्सपालैर्हरिं वीक्ष्य मनसि प्राह विस्मितः

8.34

अहो विचित्रं ते सर्वे कुत्र स्थानात्समागताः ।
क्रीडन्तो पूर्ववच्चात्र साकं कृष्णेन क्रीडनैः

8.35

मत्त्रुटिर्वत्सरश्चैको व्यतीतोऽभून्महीतले ।
सर्वे प्रसन्नतां प्राप्ता न ज्ञातः केनचित्क्वचित्

8.36

एवं संमोहयन् ब्रह्मा मोहनं विश्वमोहनम् ।
स्वमाययान्धकारेण स्वगात्रं नैव दृष्टवान्

8.37

वत्सपालापहरणात्किमभूज्जगतः पतेः ।
अहो खद्योतवद्वेधा श्रीकृष्णरविसम्मुखे

8.38

एवं विमुह्यति सति जडीभूते च ब्रह्मणि ।
स्वमायां कृपयाऽऽकृष्य कृष्णः स्वं दर्शनं ददौ

8.39

एवं तत्र सकृद्‌ब्रह्मा गोवत्सान् गोपदारकान् ।
सर्वानाचष्ट श्रीकृष्णं भक्त्या विज्ञानलोचनैः

8.40

ददर्शाथ विधिस्तत्र बहिरन्तः शरीरतः ।
स्वात्मना सहितं राजन् सर्वं विष्णुमयं जगत्

8.41

एवं विलोक्य ब्रह्मा तु जडो भूत्वा स्थिरोऽभवत् ।
वृन्दावद्‌वृन्दकारण्ये प्रदृश्येत यथा तथा

8.42

स्वात्मनो महिमां द्रष्टुं ह्यनीशेऽपि च ब्रह्मणि ।
चच्छाद सपदि ज्ञात्वा मायाजवनिकां हरिः

8.43

ततः प्रलब्धनयनः स्रष्टा सुप्त इवोत्थितः ।
उन्मील्य नयने कृच्छ्राद्ददर्शेदं सहात्मना

8.44

समाहितस्तत्र भूत्वा सद्योऽपश्यद्दिशो दश ।
श्रीमद्‌वृन्दावनं रम्यं वासन्तीलतिकान्वितम्

8.45

शार्दूलबालकैर्यत्र क्रीडन्ति मृगबालकाः ।
श्येनैः कपोता नकुलैः सर्पा वैरविवर्जिताः

8.46

ततश्च वृंदकारण्ये सपाणिकवलं विधिः ।
वत्सान् सखीन् विचिन्वन्तमेकं कृष्णं ददर्श सः

8.47

दृष्ट्वा गोपालवेषेण गुप्तं गोलोकवल्लभम् ।
ज्ञात्वा साक्षात् हरिं ब्रह्मा भीतोऽभूत्स्वकृतेन च

8.48

तं प्रसादयितुं राजन् ज्वलन्तं सर्वतो दिशम् ।
लज्जयावाङ्‌मुखो भूत्वा ह्यवतीर्य स्ववाहनात्

8.49

शनैरुपससारेशं प्रसीदेति वदन् नमन् ।
स्रवद्‌वर्षाश्रुदत्तार्घः स पपाताथ दण्डवत्

8.50

उत्थाप्याश्वास्य तं कृष्णः प्रियः प्रिय इव स्पृशन् ।
सुरान् सुभुवि दूरस्थानालुलोक सुधाऽऽर्द्रदृक्

8.51

ततो जयजयेत्युच्चैः स्तुवतां नमतां समम् ।
तद्दयादृष्टदृष्टानां सानन्दः सम्भ्रमोऽभवत्

8.52

दृष्ट्वा हरिं तत्र समास्थितो विधि-
र्ननाम तं भक्तिमनाः कृताञ्जलिः ।
स्तुतिं चकाराशु स दण्डवल्लुठन्
प्रहृष्टरोमा भुवि गद्‍गदाक्षरः

8.8

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
ब्रह्मणः श्रीकृष्णदर्शनवर्णनं नाम अष्टमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc