भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.7

7.7.1

गुर्जराष्ट्र तथा चेदिदेश जयम्
श्रीनारद उवाच -
प्रद्युम्नोऽथ महावीर्यो जित्वा माहिष्मतीपतिम् ॥
विकर्षन्महतीं सेनां गुर्जराजं समाययौ

7.7.2

गुर्जरस्याधिपं वीरमृष्यं नाम महाबलम् ॥
जग्राह सेनया कार्ष्णिस्तुंडयाहिं यथाविरट्

7.7.3

सद्यस्तस्माद्‌बलिं नीत्वा यादवेंद्रो महाबलः ॥
विकर्षन्महतीं सेनां चेदिदेशांस्ततो ययौ

7.7.4

दमघोषश्चेदिराजो वसुदेवस्वसुः पतिः ॥
शिशुपालस्तस्य पुत्रः कृष्णशत्रुः प्रकीर्तितः

7.7.5

आभीयाय महाबुद्धिर्दमघोषं महाबलम् ॥
नत्वा प्राह महाबुद्धिमुद्धवो बुद्धिसत्तमः

7.7.6

उद्धव उवाच -
राजन्देहि बलिं तस्मा उग्रसेनाय भूभृते ॥
विजित्य नृपतीन् योऽसौ राजसूयं करिष्यति

7.7.7

श्रीनाराद उवाच -
इत्थं निशम्य वचनं दमघोषसुतः खलः ॥
स्फुरदोष्ठो मन्युपरः प्राहेदं सदसि त्वरम्

7.7.8

शिशुपाल उवाच -
दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥
विधेः कालात्मकस्यापि प्राजापत्ये भवेत्कलिः

7.7.9

क्व राजहंसः काकः क्व क्व मूर्खः क्व च पंडितः ॥
भृत्या विजेष्यन्ति नृपं चक्रवर्तिनमीश्वरम्

7.7.10

ययातिशापाद्यदवो भ्रष्टराज्यपदाः स्मृताः ॥
राज्यं स्वल्पं जलं प्राप्य प्रोच्छलंत्यापगा इव

7.7.11

अवंशसंभवो राजा मूर्खपुत्रो हि पंडितः ॥
निर्धनश्च धनं प्राप्य तृणवन्मन्यते जगत्

7.7.12

उग्रसेनः कतिदिनै राजत्वं समुपागतः ॥
मंत्रिणा वासुदेवेन पूजितः स बलान्नृपः

7.7.13

तस्य मंत्री वासुदेवो जरासंधभयाद्‍द्रुतम् ॥
मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः

7.7.14

आभीरस्यापि नन्दस्य पूर्वं पुत्रः प्रकीर्तितः ॥
वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः

7.7.15

वसुदेवाद्‌गौरवर्णादयं श्यामः कुतोऽभवत् ॥
पितामहोऽपि गौरश्च दुःखहास्यमिदं वचः

7.7.16

प्रद्युम्नं तत्सुतं जित्वा सबलं यादवैः सह ॥
कुशस्थलीं गमिष्यामि महीं कर्तुमयादवीम्

7.7.17

श्रीनारद उवाच -
इत्युक्त्वा धनुरादाय तूणौ चाक्षयसायकौ ॥
गंतुमभ्युद्यतं वीक्ष्य चेदिराजस्तमब्रवीत्

7.7.18

दमघोष उवाच -
शृणु पुत्र प्रवक्ष्यामि क्रोधं मा कुरु मा कुरु ॥
अकस्मादाचरेत्कार्यं न सिद्धिं विंदते ह्यसौ

7.7.19

धर्मार्थकाममोक्षाणां साधनं न क्षमासमम् ॥
तस्मात्साम प्रकर्तव्यं साम्नो न सदृशं सुखम्

7.7.20

दानेन राजते साम दानं सत्क्रियया पुनः ॥
सत्क्रियापि तथा योग्यं गुणं संप्रेक्ष्य राजते

7.7.21

यादवाश्चेदिपाश्चैव ज्ञातिसंबंधिनः स्मृताः ॥
चेदिपानां च वृष्णीनां कलिं नेच्छामि तत्वतः

7.7.22

श्रीनारद उवाच -
शिशुपालो बोधितोऽपि दमघोषेण धीमता ॥
नोवाच किञ्चिद्विमनास्तूष्णिंभूतो महाखलः

7.7.23

श्रुतिश्रवाश्चेदिपराजराज्ञी
स्वसा शुभा शूरसुतस्य राजन् ॥
समेत्य पुत्रं शिशुपालसंज्ञं
प्रत्याह सम्यग्विनयान्विता सा

7.7.24

श्रुतिश्रवा उवाच -
मा पुत्र खेदं कुरुतात्कदाचि-
न्माभूत्कलिश्चेदिपयादवानाम् ॥
ते मातुलोऽयं किल शूरसूनु-
र्भ्राता च ते तत्सुत एव कृष्णः ॥

7.7.25

तस्यात्मजा येऽत्र समागतास्ते
प्रद्युम्नमुख्याः शतशो महांतः ॥
संपूजनीयाश्च मया भवद्‌भिः
संलालनीया न हि युद्धयोग्याः

7.7.26

अहं गमिष्यामि सहार्द्रचित्ता
नेतुं त्वया तात समागतांस्तान् ॥
द्र्ष्टुं चिरोत्कण्ठमना महोत्सवै-
र्नैतादृशोऽयं समयः कदाचित्

7.7.27

शिशुपाल उवाच -
मम शत्रू रामकृष्णौ यदवः शत्रवश्च मे ॥
घातयिष्यामि तान्सर्वान् यैरहं तु तिरस्कृतः

7.7.28

पुरा वै कुंडिनपुरे याभ्यां मे हेलनं कृतम् ॥
विवाहो वरितो मे वै रामकृष्णावरी मम

7.7.29

यदि तेषां यादवानां युवां पक्षं करिष्यथः ॥
तदा त्वां सह पित्रा च निगृह्य निगडैर्दृढैः

7.7.30

कारागारे कारयामि कंसः स्वपितरौ यथा ॥
अन्यथा चेद्‌वधिष्यामि शपथो मे तु दुर्घटः

7.7.31

श्रीनारद उवाच -
तद्वचः परुषं श्रुत्वा तूष्णीं यातेऽथ चेदिपे ॥
तद्वचः स्वबलं प्राप्य प्राह सर्वं यथोदितम्

7.7.32

वाहिनी ध्वजिनी चैव प्रतिमाक्षौहिणीयुता ॥
चतुर्धा शिशुपालस्य सेना युक्ता बभूव ह

7.7.33

बहुलाश्व उवाच -
वाहिन्याद्याश्च या सेनास्तत्संख्यां वद मे प्रभो ॥
ऋषयो हि प्रजानंति भूतं भव्यं भवत्परम्

7.7.34

श्रीनारद उवाच -
शतं द्विपानां रथिनां सहस्रं शतसंयुतम् ॥
अयुतं तुरगाणां च पत्तीनां लक्षमेव च

7.7.35

सेनाया लक्षणं स्वल्पं द्विगुणं चतुरंगिणी ॥
चतुःशतं द्विपानां च रथानामयुतं तथा

7.7.36

चतुर्लक्षं हयानां च पत्तीनामेककोटयः ॥
लोहकंचुकसंयुक्ताः समर्थबलवाहनाः

7.7.37

शस्त्रास्त्रज्ञा यत्र शूरा वाहिनी सा बुधैः स्मृता ॥
वाहिन्या द्विगुणीभुता ध्वजिनी सा प्रकीर्तिता

7.7.38

ध्वजिन्या द्विगुणी ज्ञेया पृतनां कथिता पुरा ॥
ससाहसोऽपि शूरः स्यात्सामंतः शतशूरभृत्

7.7.39

सामन्तानां शतं बिभ्रत्स गजी कथितो मृधे ॥
समरे सारथिं चाश्वान् रथं रक्षेद्‌रथी च यः

7.7.40

सेनां रक्षिति यो बाणैः कथ्यते स महारथी ॥
स्वसेनां रक्षयञ्शत्रून्सूदयन् रणमंडले

7.7.41

योऽक्षौहिण्या समं युद्ध्येत्सदा सोऽतिरथी स्मृतः

7.7.7

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
गुर्जरराष्ट्राचेदिदेशगमनं नाम सप्तमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc