भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.46

7.46.1

बलरामकृतं वसन्तमालतीपुरीकर्षणम्
अथ कृष्णे भगवति पुरीं द्वारावतीं गते ॥
प्रद्युम्नः सैनिकैः सार्द्धं नदं कामदुघं ययौ

7.46.2

शतयोजनविस्तीर्णा गंधर्वाणां मनोहरा ॥
वसंतमालति नाम्ना हेमरत्‍नमयी पुरी

7.46.3

लवंगलतिकाजालै-रेलाकाश्मीरदेशकैः ॥
जातीफलादिजावित्री-श्रीखंडपारिजातकैः

7.46.4

मत्तालिनादिता भृंगैः शब्दिता चित्रपक्षिभिः ॥
गंधर्वै राजिता भव्यैर्नागैर्भोगवती यथा

7.46.5

पतंगो नाम तत्रैव गंधर्वेशो महाबलः ॥
करोति राज्यं सुकृती शक्रवद्‌बलपौरुषम्

7.46.6

श्रुत्वा प्रद्युम्नमायातं दिग्जयार्थं विनिर्गतम् ॥
गंधर्वैरुद्‌भटैर्युक्तो युद्धं कर्तुं मनो दधे

7.46.7

रथाश्वगजवीरैश्च गंधर्वैर्दशकोटिभिः ॥
पतंग आगतो योद्धुं प्रद्युम्नस्यापि संमुखे

7.46.8

गंधर्वैर्यदुभिः सार्द्धं घोरं युद्धं बभूव ह ॥
भल्लैर्गदाभिः परिघैर्मुद्‌गरैस्तोमरर्ष्टिभिः

7.46.9

बाणांधकारे संजाते पतंगोऽतिरथो बली ॥
धनुष्टंकारयन् प्राप्तो जगर्ज घनवद्‌बली

7.46.10

गदो गदां समादाय बलदेवानुजो बली ॥
तद्‌बलं पोथयामास वज्रेणेंद्रो यथा गिरिन्

7.46.11

गदस्य गदया केचिद्‌गंधर्वाः पतिता रणे ॥
रथाश्चूर्णीकृताः सर्वे मातंगा भिन्नमस्तकाः

7.46.12

अश्वारूढाः केऽपि वीराः पतिता रणमूर्द्धनि ॥
अधोमुखा ऊर्ध्वमुखा गंधर्वाश्छिन्नबाहवः

7.46.13

क्षणमात्रेण तत्सैन्ये रुधिराणां नदी ह्यभूत् ॥
प्रमथा हरमालार्थं शिरांसि जगृहुर्मृधे

7.46.14

सिंहारूढा भद्रकाली डाकिनी शतसंवृता ॥
कपालेनापि रुधिरं पिबंति दृश्यते मृधे

7.46.15

एवं युद्धे गदकृते गन्धर्वाणां पलायताम् ॥
गंधर्वेशस्तदा प्राप्तो हस्तिलक्षबलान्वितः

7.46.16

गदं तताड गदया पतंगो हृदि मैथिल ॥
गदोऽपि तं स्वगदया पतंगं हृदि चौजसा

7.46.17

तयोश्च गदया युद्धं बभूव घटिकाद्वयम् ॥
विस्फुलिंगान् क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः

7.46.18

लक्षभारमयीं गुर्वीं गदामादाय सत्वरम् ॥
गदं तताड शिरसि पतंगो रणदुर्मदः

7.46.19

गदाप्रहारेण गदः क्षणं मूर्छामवाप ह ॥
एवं कृते घोरमृधे पतंगेन महात्मना

7.46.20

तदैव द्वारकापुर्य्यास्तेजः संघट्टमागतम् ॥
ददृशुर्यादवाः सर्वे कोटिमार्तंडसन्निभम्

7.46.21

तस्मिंस्तेजसि गौरांगो बलदेवो महाबलः ॥
आविर्बभूव सहसा भगवान् भक्तवत्सलः

7.46.22

गंधर्वाणां बलं सर्वं समाकृष्य हलेन वै ॥
तताड मुसलं क्रुद्धो बलो नीलांबरो बली

7.46.23

रथान् गजांस्तुरंगांश्च वीराः शस्त्रभृतां वराः ॥
निपेतुर्युगपत्सर्वे चूर्णिताश्चोपला इव

7.46.24

पतंगो विरथस्तस्माद्‌भीतभीतः पुरीं ययौ ॥
पुनर्योद्धुं यादवैश्च सेनाव्यूहं चकार ह

7.46.25

शतयोजनविस्तीर्णां गंधर्वाणां महापुरीम् ॥
वसंतमालतीं सर्वामुद्विदार्य हलेन वै

7.46.26

विचकर्ष बलः क्रुद्धो नदे कामदुघे नृप ॥
हाहाकारस्तदैवासीन्नगर्यां पतित्तैर्गृहे

7.46.27

तिर्यक्पोतमिवाघूर्णां नगरी वीक्ष्य सत्वरम् ॥
पतंगः सर्वगंधर्वैर्हषितः सन्कृतांजलिः

7.46.28

खचिद्धेमसुवर्णानां मुक्तातोरणशालिनाम् ॥
दशयोजनविस्तीर्णीकृतानां विश्वकर्मणा

7.46.29

कामगानां पताकाभिर्युतानां कुंभकोटिभिः ॥
सहस्रार्कप्रकाशानां विमानानां द्विलक्षकम्

7.46.30

चतुर्लक्षं गवां चैव तुरंगाणां दशार्बुदम् ॥
एलालवंगकाश्मीरजातीफलफलैः सह

7.46.31

सुधाफलानां दिव्यानां कोटिशो भाजनानि च ॥
नीत्वा बलिं समादाय दत्वा नत्वा प्रधर्षितः

7.46.32

कृताञ्जलिः प्राह बलं बलभद्रप्रसादवित् ॥
पतंग उवाच -
राम राम महावीर्य न जाने तव विक्रमम् ॥
यस्यैकमूर्ध्नि तिलकं दृश्यते भूमिमंडलम्

7.46.33

देवाधिदेव भगवन् कामपाल नमोऽस्तु ते ॥
नमोऽनंताय शेषाय साक्षाद्‌रामाय ते नमः

7.46.34

जयजयाच्युत देव परात्पर
स्वयमनंतदिगंतगतश्रुते ॥
सुरमुनींद्रफणींद्रवराय ते
मुसलिने बलिनै हलिने नमः

7.46.35

श्रीनारद उवाच -
एवं स्तुतः पतंगेन बलभद्रो महाबलः ॥
प्रसन्नचेता गंधर्वं मा भैष्टेत्यभयं ददौ

7.46.36

स्थापयित्वा बले कार्ष्णिं प्रणतं यादवेश्वरः ॥
यादवैः प्रस्तुतः शीघ्रं पुरीं द्वारावतीं ययौ

7.46.46

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
वसंतमालतीकर्षणं नाम षट्‍चत्वारिंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc