भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.39

7.39.1

शकुनियुद्धे कृष्णागमनम्
श्रीनारद उवाच -
शकुनिः पुनरुत्थाय स्वबलं वीक्ष्य पोथितम् ॥
जग्राह स महाराज लक्षभारसमं धनुः

7.39.2

निधाय बाणं निशितं कोदण्डे चण्डविक्रमे ॥
कार्ष्णिं प्राह रणे राजञ्छकुनिर्दैत्यराड्बली

7.39.3

शकुनिरुवाच -
कर्म प्रधानं जगतीतले मह-
त्कर्मैव साक्षाद्‌गुरुरीश्वरः प्रभुः ॥
उच्चावचत्वं भवतीह कर्मणा
तेनैव राजन् विजयः पराजयः

7.39.4

गवां सहस्रेषु यथा हि वत्सकः
स्वमातरं विंदति पश्यतां सताम् ॥
तथा हि येनापि कृतं शुभाशुभं
नरेषु तिष्ठत्सु तमेव गच्छति

7.39.5

ततो विजेष्यामि दृढेन कर्मणा
रिपुं भवन्तं शपथः कृतो मया ॥
सद्यः कुरु त्वं प्रतिकारमेव त-
द्येनापि न स्याद्‌भुवि ते पराजयः

7.39.6

श्रीप्रद्युम्न उवाच -
कर्म प्रधानं यदि मन्यसे भवान्
कालं विना तर्हि फलं न विद्यते ॥
कृते च पाके यदि विघ्नता क्वचित्
सदा बलिष्ठं समयं विदुः परे

7.39.7

पाकप्रकारे सति पाकसाधनं
कदापि कर्तारमृते न जायते ॥
वदन्ति कर्तारमतः परं परे
न कर्म कालं शृणु दैत्यपुंगव

7.39.8

योगं विदुः केऽपि यदा ह्ययोगतः
कथं भवेत्कौ किल पाकसाधनम् ॥
सर्वं हि वा योगमृते वृथा भवे-
त्काले तथा कर्मणी कर्तरि स्थिते

7.39.9

योगं तथा कर्मणि कर्तरि स्थिते
काले विधिः सांख्यमृते वृथा भवेत् ॥
पाकप्रकाराद्यविचारकृद्यदा
न तर्हि पाकस्य यथा प्रसाधनम्

7.39.10

योगकर्मविधिकारकसंख्यै-
र्ब्रह्मपूरुषमृते न हि किंचित् ॥
तं नमामि परिपूर्णतमांशं
येन विश्वमखिलं विदितं खे

7.39.11

शकुनिरुवाच -
हे प्रद्युम्न महाबाहो त्वं साक्षाज्ज्ञानशेवधिः ॥
तव दर्शनमात्रेण नरो याति कृतार्थताम्

7.39.12

ये त्वसंगं समासाद्य वार्तां कुर्वन्ति नित्यशः ॥
तेषां तु महिमानं हि वक्तुं नालं चतुर्मुखः

7.39.13

श्रीनारद उवाच -
इत्युक्त्वा शकुनिर्दैत्यो मायावी दैत्यराड्बली ॥
शिक्षितं मयदैत्येन रौरवास्त्रं समादधे

7.39.14

महोरगा दंदशूका वृश्चिकाश्च विषोत्कटाः ॥
कोटिशो गरुडा बाणान्नीलकंठाः कलापिनः

7.39.15

तैर्दर्शितं बलं सर्वं फूत्कारैर्मत्ततां गतम् ॥
वीक्ष्य कार्ष्णीर्महाबुद्धिर्गरुडास्त्रं समादधे

7.39.16

कोटिशो गरुडा बाणान्नीलकंठाः कलापिनः ॥
अन्ये च पक्षिणो भीमा निर्गतास्तस्य पश्यतः

7.39.17

अग्रसन्नुरगान्युद्धे दन्दशूकान्सवृश्चिकान् ॥
तीक्ष्णतुण्डा बृहत्पक्षाः क्षणात्तेऽदृश्यतां गताः

7.39.18

दैत्योऽपि राक्षसीं मायां गांधर्वी गौह्यकीं पुनः ॥
पैशाचीं संदधे राजञ्छकुनिर्युद्धदुर्मदः

7.39.19

तद्‌बाणनिर्गता भूतास्तथा प्रेताश्च कोटिशः ॥
अंगारान्मुमुचुस्ते वै करालाः कृष्णरूपिणः

7.39.20

ज्ञात्वाथ तामसीं मायां पैशाचीं मीनकेतनः ॥
सत्त्वास्त्रं संदधे बाणे युद्धकांक्षी हरेः सुतः

7.39.21

तस्माद्विनिर्गता राजन् कोटिशो विष्णुपार्षदाः ॥
जघ्नुः पिशाचीं तां मायां पन्नगीं गरुडो यथा

7.39.22

मायां दैत्योऽपि मायावी गौह्यकीं संदधे पुनः ॥
संभूताः कोटिशो मेघा गर्जतो भीमरूपिणः

7.39.23

विष्ठां मूत्रं च रुधिरं मेदोमज्जास्थिवर्षिणः ॥
ज्ञात्वाथ गौह्यकीं मायां प्रद्युम्नो भगवान्हरिः

7.39.24

तन्नाशार्थं महाराज कोलास्त्रं संदधे त्विषौ ॥
तद्‌गणाद्यज्ञवाराहो निर्गतो घर्घरस्वनः

7.39.25

सटा विधूय वेगेन दंष्ट्रया तीक्ष्णया घनान् ॥
विदारयन्‍रणे रेजे वेणून्मत्तगजो यथा

7.39.26

दैत्योऽथ मायां गांधर्वीं चकार रणमण्डले ॥
युद्धं न दृश्यते तद्वद्धेमसौधानि कोटिशः

7.39.27

वस्त्रालंकारयुक्तानि बभूवुः पश्यतां सताम् ॥
विद्याधर्यश्च गन्धर्वा गायन्तो नृत्यतत्पराः

7.39.28

मृदङ्गतालवादित्रैर्मोहनै रागमिश्रितैः ॥
हावभावकटाक्षैश्च तोषयंत्यो जनान्नृप

7.39.29

मोहिन्यः सुन्दरी रामाः श्यामाः कमललोचनाः ॥
तासां लावण्यरागाभ्यां मोहं यातेषु वृष्णिषु

7.39.30

गांधर्वीं मोहिनीं मायां ज्ञात्वा कार्ष्णिर्महाबलः ॥
संदधे तत्प्रहारार्थे ज्ञानास्त्रं रणमण्डले

7.39.31

ज्ञानोदये तदा जाते मोहनाशो नृपेश्वर ॥
नाशं गतायां मायायां शकुनिः क्रोधमूर्च्छितः

7.39.32

राक्षसीं संदधे मायां मायावी दैत्यपुंगवः ॥
सपक्षैः पर्वतै राजन् क्षणात्तच्छादितं नभः

7.39.33

महांधकारोऽभूत्पृथ्व्यां परार्द्धं च घनैरिव ॥
दग्धवृक्षशिलास्थीनि कबंधरुधिराणि च

7.39.34

गदापरिघनिस्त्रिंशमुसलादीनि सर्वतः ॥
अंबराद्‌बभ्रमुः शैला मेघा इव विदेहराट्

7.39.35

रक्षोगणाः शूलहस्ताश्छिन्धि भिंधीति वादिनः ॥
यातुधानाश्च शतशो भक्षयन्तो द्विपान्हयान्

7.39.36

सिंहव्याघ्रवराहाश्च दृश्यंते रणमण्डले ॥
मर्दयन्तो नखैर्नागांश्चर्वयंतो वपूंषि वै

7.39.37

पलायमानं स्वबलं दृष्ट्वा कार्ष्णीर्महाबलः ॥
जेतुं तां राक्षसीं मायां नृसिंहास्त्रं समादधे

7.39.38

आविर्भूतो हरिः साक्षान्नृसिंहो रौद्ररूपधृक् ॥
स्फुरत्सटो ललज्जिह्वो नखलांगूलभूषितः

7.39.39

चलद्‌बालो भीषणास्यो हुङ्कारेणातिभीषणः ॥
सिंहनादं च कुर्वन् वै संस्थितो रणमण्डले

7.39.40

ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥
विचेलुर्दिग्गजास्तारा राजद्‌भूखंडमण्डलम्

7.39.41

गृहीत्वा ह्यंबरे शैलान्सवृक्षान्नखरः खरैः ॥
पातयामास भूपृष्ठे दैत्यानां च प्रपश्यताम्

7.39.42

रक्षोगणान्संगृहीत्वा पाटयामास वेगतः ॥
यातुधानगणान्पद्‌भ्यां स ममर्द हरिर्मृधे

7.39.43

सिंहान्व्याघ्रान्वराहांश्च संविदार्य नखैः खरैः ॥
चिक्षेप गगने विष्णुस्तत्रैवांतर्दधे पुनः

7.39.44

नाशं गतायां मायायां राक्षस्यां रुक्मिणीसुतः ॥
शंखं दघ्मौ विजयदं मौलेन्द्रं च रणांगणे

7.39.45

अभूज्जयजयारावो दुन्दुभिध्वनिमिश्रितः ॥
प्रद्युम्नस्योपरि सुराः पुष्पवर्षं प्रचक्रिरे

7.39.46

स्वमायायां निर्गतायां शकुनिर्दैत्यपुंगवः ॥
सरथः सैनिकैः सार्द्धं तत्रैवांतर्हितोऽभवत्

7.39.47

मायां चकार दैतेयीं मयदैत्यप्रदर्शिताम् ॥
हस्तिशुण्डासमां धारां वर्षतोऽतितडित्स्वनाः

7.39.48

सांवर्त्तकगणा मेघा आजग्मुः पश्यतां सताम् ॥
क्षणात्सर्वे समुद्रास्ते चण्डवातेन वेपिताः

7.39.49

क्षुभिता उर्मिसङ्घर्षावर्तैः प्लावितभूरुजाः ॥
भूमण्डलं सपदि तत्प्लावितं चात्मभिः समम्

7.39.50

दृष्ट्वाथ यादवाः सर्वे प्रापुस्तत्र भयं बहु ॥
वदन्तो रामकृष्णेति विस्मृतस्वपराक्रमाः

7.39.51

क्षणमात्रेण राजेंद्र तूष्णींभूताः पराजिताः ॥
तदा कार्ष्णिर्महाबाहुः कोदण्डे चण्डविक्रमे ॥
बाणं निधाय सहसा श्रीकृष्णास्त्रं समादधे

7.39.52

नवार्ककोटिद्युतिमन्महन्महो
वीरं जयन्मैथिल वै दिशो दश ॥
समागतं तत्र कुशस्थलीपुरः
स्वयं परं स्वार्थमिवात्मवांछितम्

7.39.53

तस्मिन्परे तेजसि नूतनांबुद-
च्छविं सुवर्णांबुजरेणुवाससम् ॥
भृंगावलीकूजितकुन्तलावलिं
स्रजं दधानं नववैजयन्तीम्

7.39.54

श्रीवत्सरत्‍नोत्तमचारुवक्षसमं
चतुर्भुजं पद्मविशालवीक्षणम् ॥
स्फुरत्किरीटं वरहारनूपुरं
लसन्नवार्कद्युतिहेमकुण्डलम्

7.39.55

विलोक्य देवं यदवोऽतिहर्षिताः
परं प्रणेमुः कृतहस्तसंपुटाः ॥
प्रचक्रिरे मैथिल पुष्पवर्षिणो-
ऽमरा जयारावमतीव सर्वतः

7.39.56

स दैत्यशकुनेः सज्जं कोदंडं प्राच्छिनद्रुषा ॥
शार्ङ्‌गमुक्तेन तच्छार्ङ्‌गी बाणेनैकेन लीलया

7.39.57

स छिन्नधन्वा शकुनिस्त्यक्त्वा युद्धं प्रधर्षितः ॥
हेतिसंहतिमानेतुं ययौ चन्द्रावतीं पुरीम्

7.39.39

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
श्रीकृष्णागमनं नामैकोनचत्वारिंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc