भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.37

7.37.1

हरिश्मश्रु दैत्यवधम्
श्रीनारद उवाच -
महानाभं मृतं श्रुत्वा सेनां वीक्ष्य पलायिताम् ॥
दैत्यस्तिमिंगिलारूढो हरिश्मश्रुः समाययौ

7.37.2

हरिश्मश्रुस्तदा दैत्यो रुषा प्रस्फुरिताधरः ॥
उवाच परुषं वाक्यं यादवानां च शृण्वताम्

7.37.3

हरिश्मश्रुरुवाच -
यूयं सर्वेऽपि मे शक्त्या मनुष्याः स्वल्पविक्रमाः ॥
शस्त्रैर्जयंतो दीना वै पौरुषं किं भवादृशे

7.37.4

भवतां बलवान् कोऽपि विना शस्त्रं मया सह ॥
करोतु मल्लयुद्धं वै पौरुषं येन दृश्यते

7.37.5

श्रीनारद उवाच -
इत्थं दैत्यवचः श्रुत्वा दृष्ट्वा तत्प्रोद्‌भटं वपुः ॥
सर्वे बभूवुस्ते तूष्णीं प्रशंसंतः परस्परम्

7.37.6

सर्वेषां पश्यतां भानुः सत्यभामात्मजो बली ॥
त्यक्त्वा शस्त्राणी सहसा तस्थौ कृष्णं स्मरन् रणे

7.37.7

तिमिंगिलात्समुत्तीर्य हरिश्मश्रुर्महाबलः ॥
तस्थौ तत्संमुखे राजन् भुजमास्फोट्य यत्‍नतः

7.37.8

भुजाभ्यां च भुजौ बद्ध्वा नोदनां चक्रतुर्बलात् ॥
दंतैर्गजाविव वने प्रहरन्तौ परस्परम्

7.37.9

नोदयामास तं भानुं स दैत्यः शतयोजनम् ॥
भुजाभ्यां राजराजेद्र सिंहः सिंहमिवौजसा

7.37.10

ततः पुनः कृष्णसुतो हरिश्मश्रुं महासुरम् ॥
नोदयामास सहसा सहस्रं योजनं बलात्

7.37.11

कन्धरे स्वभुजां कृत्वा कटौ च विनिधाय तम् ॥
भानुं जानौ संगृहीत्वा पातयामास दैत्यराट्

7.37.12

भानुस्तं पृष्ठदेशेऽपि सन्निधाय भुजौजसा ॥
गृहीत्वा जंघयोर्दैत्यं पातयामास भूतले

7.37.13

अथ तौ पुनरुत्थाय भुजवास्फोट्य तस्थतुः ॥
त्वरं तौ बलिनौ राजन्सुपर्णफणिनाविव

7.37.14

दैत्यो भुजौजसा नीत्वा भानुं श्रीकृष्णनन्दनम् ॥
चिक्षेप धृत्वा चरणावाकाशे लक्षयोजनम्

7.37.15

आकाशात्पतितो भानुः किंचिद्व्याकुलमानसः ॥
प्रह्लाद इव शैलांगाद्‌रक्षिता कृपया हरेः

7.37.16

हरिश्मश्रुं संगृहीत्वा दीर्घश्मश्रौ हरेः सुतः ॥
भ्रामयित्वाथ चिक्षेप व्योम्नि तं लक्षयोजनम्

7.37.17

आकाशात्पतितः सोऽपि किंचिद्व्याकुलमानसः ॥
मुखे कृत्वा स्वकं कूर्चं मुष्टिना तं तताड ह

7.37.18

मुष्टामुष्टि रणं राजन् बभूव घटिकाद्वयम् ॥
निष्पिष्टांगो हरिश्मश्रुर्ग्रावाणं भानुमूर्द्धनि

7.37.19

चिक्षेप च महावेगाद्‌रक्ताक्षः क्रोधमूर्च्छितः ॥
भानुर्द्रुमं संगृहीत्वा प्राक्षिपत्तस्य मस्तके

7.37.20

सोऽपि द्रुमं संगृहीत्वा प्राहिणोद्‌भानुमूर्द्धनि ॥
हरिश्मश्रुर्महादैत्यो रक्ताक्षः क्रोधमूर्च्छितः

7.37.21

गजं गृहीत्वा शुण्डायां तेन भानुं तताड ह ॥
भानुश्चान्यं गजं नीत्वा गृहीत्वा तद्‌गजं करे

7.37.22

हरिश्मश्रुं महादैत्यं गजेनाभ्यहनद्‍दृढम् ॥
चीत्कारमथ कुर्वंतं गजं नीत्वा निपात्य तम्

7.37.23

तस्य दन्तौ समुत्पाट्य ताभ्यां भानुं तताड ह ॥
भानुमाकाशवागाह कूर्चे मृत्युः किलास्य च

7.37.24

वरेण शिवदत्तेन प्रोज्झितोऽयं महासुरः ॥
इति श्रुत्वा वचो भानुर्धावन् क्रोधप्रपूरितः

7.37.25

संगृहीत्वा भुजाभ्यां तं पादयोः प्रणदन्मुहुः ॥
भ्रामयित्वा महाराज सर्वेषां पश्यतां सताम्

7.37.26

पातयामास भूपृष्ठे कमण्डलुमिवार्भकः ॥
मुखात्कूर्चं समुन्नीय समुत्पाट्य करौजसा

7.37.27

तताड मुष्टिना मूर्ध्नि हरिश्मश्रुं महासुरम् ॥
तदा मृत्युं गते दैत्ये हरिश्मश्रौ नृपेश्वरः

7.37.28

देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥
अभूज्जयजयरावो ननृतुर्देवनायकाः

7.37.29

प्रसन्ना दिविजा राजन्पुष्पवर्षं प्रचक्रिरे ॥
इत्थं श्रीकृष्णपुत्राणां विक्रमः परमाद्‌भुतः

7.37.30

मया ते कथितः पुण्यः किं भूयः श्रोतुमिच्छसि

7.37.37

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
हरिश्मश्रुदैत्यवधो नाम सप्तत्रिंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc