भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.31

7.31.1

मन्मथदेशविजयम्
श्रीनारद ऊचुः -
इत्थं तु रम्यकं खंडं जित्वा कार्ष्णिर्महाबलः ॥
सुमेरोः पूर्वदिग्भागे केतुमालं जगाम ह

7.31.2

तस्य सीमागिरिः साक्षान्माल्यवान्नाम मैथिल ॥
चतुर्नाम्नी यत्र गंगा महापातकनाशिनी

7.31.3

गिरेर्माल्यावतः पार्श्वे पुरी मन्मथशालिनी ॥
रत्‍नप्राकारसौधेश्च देवधानीव शोभिता

7.31.4

यत्र वै पुरुषा राजन्कामदेवसमप्रभाः ॥
शारदेन्दीवरश्यामाः पद्मपत्रनिभेक्षणाः

7.31.5

पीतांबरधरा नार्यः पुष्पहारमनोहराः ॥
क्रीडंति कंदुकैर्यत्र कामिन्यो नवयौवनाः

7.31.6

यद्देहामोदपवनो मत्तालिकुलनादितः ॥
गंधीकरोति भूभागं समन्ताच्छतयोजनाम्

7.31.7

तत्पुरीवासिनो लोका निर्गतास्ते बहुश्रुतः ॥
जगुर्यशः श्रीमुरारेः प्रद्युम्नस्यापि शृण्वताः

7.31.8

केतुमालवासिन ऊचुः -
आसीत्तु शेषशयनो जगदार्त्तिहारी
साक्षात्प्रधानपुरुषेश्वर आदिदेवः ॥
यः प्रार्थितः सुरवरैर्भुवनावनाय
तस्मै नमो भगवते पुरुषोत्तमाय

7.31.9

जातो गतः पितृगृहात्पितरौ विमोक्ष्य
नंदालयं शिशुतनुः स तु नंदपत्‍न्या ॥
संलालितः सघृणया बहुमंगलश्रीः
प्राणप्रहारमकरोत्किल पूतनायाः

7.31.10

बालो बभञ्ज शकटं शयनं प्रकुर्व-
न्दैत्यं निपात्य महदद्‌भुतकं च पृष्ठे ॥
मात्रे प्रदर्श्य निजरूपमलंकृतोऽभू-
द्‌गर्गेण संकथितसुंदरभाग्यलक्ष्मीः

7.31.11

संलालितो व्रजजनैर्नवनीतचौरः
श्यामो मनोहरवपुर्मृदुलः स बालः ॥
भित्वा जघास दधिपात्रमतीव दध्नो
वृक्षौ बभंज जननीलघुदामबद्धः

7.31.12

वृंदावने स विचरन् सह वत्सगोपै-
र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः ॥
सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां
दैत्यं ददार स बकं तृणवत्तटिन्याम्

7.31.13

संधारयंश्च शिशुभिर्बहुवत्ससंघान्
वेणुं क्वणन्मदनमोहनवेषभृद्यः ॥
गोपानघासुरमुखे प्रहिताञ्जुगोप
गोगोपवत्सपवपुः स चकार सद्यः

7.31.14

क्षेत्रज्ञ आत्मपुरुषो भगवाननंतः
पूर्णः प्रधानपुरुषेश्वर आदिदेवः ॥
धृत्वा वपुः स विहरन्व्रजबालकेषु
सम्मोहयन्विधिमजो विचचार कृष्णः

7.31.15

चिक्षेप धेनुकमसौ बलिनं बलेन
ताले प्रगृह्य सहसा फणिकालियाख्यम् ॥
बभ्राम वह्निमपिबद्दनुजं प्रलंबं
सद्यो जघान स बली दृढमुष्टिना च

7.31.16

संचारयन्व्रजवधूर्मधुरं क्वणन् यो
वेणुं वने व्रजवधूनिजगीतकीर्तिः ॥
दिव्यांबराणि स जहार वरांगनानां
विप्रांगनाभिरभितः कृतभक्तभोजः

7.31.17

देवे च वर्षति पशून्कृपया रिरक्षु-
र्गोवर्धनं प्रकृतबाल इवोच्छिलींध्रम् ॥
बिभ्रद्‌गिरिं स गजराडिव कंजमेक-
हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत्

7.31.18

नन्दं जुगोप वरुणात्स्वजनाय लोकं
दिव्यं परं च तमसो दिवि दर्शयित्वा ॥
श्रीरासमण्डलगतो व्रजसुन्दरीणां
रेमे पुलिन्दतटिनीपुलिनेऽङ्‌गनाभिः

7.31.19

मानं हरन्मदनयौवनमानिनीना-
मंतर्दधे व्रजवधूनिजगीतकीर्तिः ॥
स्रग्वी मनोहरवपुर्विरहातुराणां
साक्षाद्धरिर्मदनमोहन आविरासीत्

7.31.20

वृन्दावने शबरराजवरांगनाभि-
र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः ॥
रेमे स्तुतः सुरवरैः स च रासरंगे
केयूरकुण्डलकिरीटविटंकवेषः

7.31.21

नंदं विमोक्ष्य फणिने प्रददौ च मोक्षं
दिव्यं मणिं स च जहार ह शंखचूडात् ॥
गोपस्तुतो वृषभरूपधरं ह्यरिष्टं
भूमौ निपात्य निजघान करेण शृङ्गे

7.31.22

कंसः परं भयमवाप च तेन केशी
संप्रेषितः सघनमेघवपुः प्रचंडः ॥
उत्सृज्य तं च तरसा पुनरापतंतं
श्रीबाहुना मुखगतेन जघान कृष्णः

7.31.23

यो नारदेन बहुवर्णितभाग्यलक्ष्मी-
र्व्योमसुरो व्यसुरकारि परेण येन ॥
अक्रूरवर्णितमहोदय आदिदेवो
गोपीजनातिविरहातुरचित्तचौरः

7.31.24

श्वाफल्कये हितकराय निजं स्वरुप-
मंतर्दधे जलचये स च दर्शयित्वा ॥
स प्राप तत्र मथुरोपवनं परेशो
गोपालकैश्च सबलो मथुरां ददर्श

7.31.25

स्वैरं चरन्मधुपुरे रजकं निकृत्य
कृष्णः प्रदाय च वरानथ वायकाय ॥
मालाकृतं समनुकंप्य चकार कुब्जा-
मृज्वीं धनुश्च सहसा नमयन्बभंज

7.31.26

द्वारि द्विपञ्च विनिहत्य नरेन्द्र मल्लौ
हत्वा प्रगृह्य विनिपात्य स रंगभूमौ ॥
कंसं हरिस्तु पितरावथ मोचयित्वा
बंधान्नृपं पुरि चकार महोग्रसेनम्

7.31.27

नंदं प्रसाद्य बहुदानकरो यदूस्ता-
नाहूय तर्प्य सुधनैश्च निवेदयित्वा ॥
विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं
कृत्वा वधं दनुजपञ्चजनस्य कृष्णः

7.31.28

गोपीजनान्समनुगृह्य स चोद्धवेना-
क्रूरेण हास्तिनपुरे त्वथ पांडुपुत्रान् ॥
कृष्णो विजित्य बलिनं च जरासुतं च
भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम्

7.31.29

निर्माय चाद्‍भुतपुरं स्थितयेऽत्र कृष्णो
निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् ॥
पुत्रेण शंबरमरिं निजघान चादाद्‌-
राज्ञे मणीं युधि विजित्य स ऋक्षराजम्

7.31.30

भामापतिः स च शिरः शतधन्वनस्तु
हृत्वा ह्युवाह सवितुश्च सुतां परेशः ॥
आवंत्यराजतनुजां स जहार कृष्णः
सत्यां स्वयंवरगृहे वृषभान्दमित्वा

7.31.31

कैकेयराजतनुजां स जहार भद्रां
श्रीलक्ष्मणामखिलभद्रपते सुतां च ॥
भौमं विजित्य सबलं युधि शस्त्रसंघै-
र्निन्ये च षोडश-सहस्रवरांगनाश्च

7.31.32

भामेच्छया सुरतरुं च सभां सुधर्मां
शक्रं विजित्य स जहार कलत्रमित्रः ॥
यो रुक्मिणं च निजघान बलेन गोष्ठ्यां
बाणस्य बाहुनिचयं शतधाच्छिनत्सः

7.31.33

तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं
संप्रेषितो निजसुतः किल शंबरारिः ॥
योऽत्रागतो भुवि विजित्य नृपान्समस्तान्
श्रीकेतुमालपतये च नमोऽस्तु तस्मै

7.31.34

श्रीनारद उवाच -
प्रसन्नः श्रीहरिः कार्ष्णिः कुंडले कटकानि च ॥
हीरान् मणीन् गजानश्वान् ददौ तेभ्यो महामनाः

7.31.35

पुर्यां मन्मथशालिन्यां व्यतिसंवत्सरो महान् ॥
प्रद्युम्नाय बलिं प्रादान्नमस्कृत्य प्रजापतिः

7.31.36

अथ कार्ष्णिर्महाबाहुर्दिव्यं कामवनं ययौ ॥
जनैरगम्यं गम्यं च प्रजापतिदुहितृभिः

7.31.37

सुंदरं मन्मथाक्रीडं वृतं कामास्त्रतेजसा ॥
नारीणां यत्र पतति व्यसुर्गर्भो न वत्सरम्

7.31.38

तदा परात्कामवनाद्विनिर्गतः
श्रीपुष्पधन्वा नृप पंचसायकः ॥
पीताम्बरश्यामतनुर्मनोहर-
स्ततान कोदंडगुणध्वनिं स्मरः

7.31.39

यद्‌बाणतो यादवपुंगवाः स्वतः
ससैनिकाः साश्वगजाः पदातिभिः ॥
निपेतुरारात्किल कामविह्वला-
स्तद्‌बाणवेगस्य न वर्णनं भवेत्

7.31.40

अथाशु कार्ष्णिर्जगदीश्वरेश्वरः
प्रलीनतां प्राप जले जलं यथा ॥
सद्यो विसिस्मुर्यदवः ससैनिका
विज्ञाय पूर्णं नृप रुक्मिणीसुतम्

7.31.31

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
मन्मथदेश विजयो नामैकत्रिंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc