भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.26

7.26.1

किंपुरुषखण्ड विजयम्
श्रीनारद उवाच -
अथ कार्ष्णिं परान्देशान्दिव्यद्रुमलताकुलान् ॥
सहस्रपत्रवद्‌भिश्च सरोभिः शोभितान् ययौ

7.26.2

अक्षौहीणीशतयुतः प्रद्युम्नश्चण्डविक्रमः ॥
यक्षैर्दिष्टेन मार्गेण खण्डं किंपुरुषं ययौ

7.26.3

रंगवल्लीपुरं यत्र हेमकूटगिरेरधः ॥
तस्य किंपुरुषा उचुः शंबरारेश्च शृण्वतः

7.26.4

किंपुरुषा ऊचुः -
अहोऽतिधन्या मथुरापुरी वरा
बभूव यस्यां परमेश्वरो हरिः ॥
अहोऽतिधन्यं सततं यदोः कुलं
जातो हि यस्मिन्नखिलांडपालकः

7.26.5

धन्यं च तच्छूरसुतस्य मन्दिरं
गोलोकनाथेन मनोहरं कृतम् ॥
धन्यं परं माथुरमंडलं सुरैः
सुदुर्लभं यत्र चचार माधवः

7.26.6

महावनं धन्यतमं मनोहरं
पितुर्गृहाद्यत्र गतो हरिः शिशुः ॥
चचार कृष्णः शिशुना बलेन हि
यशोदया दुग्धमुखः सुलालितः

7.26.7

वृंदावनं पुण्यतमं परात्पर-
श्रीकृष्णपादांबुजरेणुराजितम् ॥
गाः पालयन् यत्र चचार बलो
गोपालबालैः सबलः स्वयं हरिः

7.26.8

यो दानलीलां किल मानलीलां
श्रीरासलीलां व्रजसुन्दरीभिः ॥
वृन्दावने यत्र चचार कृष्णो
यस्यापि गायन्ति यशस्त्रिलोकाः

7.26.9

अहोऽतिधन्या वृषभानुनंदिनी
लीलावती सा निजलोकशालिनी ॥
चचार कृष्णेन कलिन्दनन्दिनी-
तटे मिलिन्दध्वनिसंकुले वने

7.26.10

अहोऽतिधन्याऽस्ति कलिन्दनंदिनी
श्रीकृष्णवामांससमुद्‌भवा या ॥
तटे मिलिन्दध्वनिसंकुले वटे
तत्स्पर्शनाद्याति नरः कृतार्थताम्

7.26.11

समुद्‌भवो यो हरिवक्षसो गिरि-
र्गोवर्द्धनो नाम गिरींद्रराजराट् ॥
विराजते स व्रजमंडले परो
यद्दर्शनाञ्जन्म पुनर्न विद्यते

7.26.12

अहोऽतिधन्या यदुमण्डलीभि-
र्विराजते भूमितले मनोहरा ॥
वैकुण्ठलीलाधिकृता कुशस्थली
यथा तडिद्‌भिर्जलदावलिर्दिवि

7.26.13

यत्रैव साक्षात्पुरुषः परेश्वरो
धृत्वा चतुर्व्यूहमलं विराजते ॥
यस्तूग्रसेनाय ददौ नृपेशतां
कृष्णाय तस्मै हरये नमो नमः

7.26.14

प्रणोदितस्तेन नृपेण धीमता
जगद्विजेतुं मकरध्वजो महान् ॥
कृत्वाथ तद्दर्शनमद्य दुर्लभं
वयं कृतार्था हि भवेम सर्वतः

7.26.15

श्रीनारद उवाच -
इत्थं हरिर्नृपयशो विशदैश्चरित्रै-
रुद्यत्त्रिलोकमलं विशदीचकार ॥
पूर्णेंदुरश्मिमिलितैस्तरलैः स्फुरद्‌भिः
प्रोद्यद्‌भिरुद्‌गज इवामलसिंधुदुग्धम्

7.26.16

इत्थं यशः स्वममलं नृप शंबरारिः
श्रुत्वातिहर्षिततनुः प्रददौ धनानि ॥
केयुरहारनवरत्‍नमनोहराणि
तेभ्यः किरीटमणिकुण्डलकंकणानि

7.26.17

रङ्गवल्लीपुराधीशः सुबाहुश्चन्द्रवंशजः ॥
नत्वा बलिं ददौ सोऽपि प्रद्युम्नाय महात्मने

7.26.18

तस्मै प्रसन्नो भगवान् प्रद्युम्नो मीनकेतनः ॥
दत्वा चूडामणिं दिव्यं पप्रच्छेदं महामनाः

7.26.19

श्रीप्रद्युम्न उवाच -
रङ्गवल्लीपुरस्यापि नाम केन प्रकाशितम् ॥
एतद्‍ब्रूहि सुबाहो मे श्रुतं पूर्वं त्वया किल

7.26.20

सुबाहुरुवाच -
देवासुरैः पुरा राजन्मथितः क्षीरसागरः ॥
विनिर्गतानि मथनाद्‌रत्‍नानि च चतुर्दश

7.26.21

निःसृतं कलशं तस्मात्सुधापूर्णं मनोहरम् ॥
तं ददर्श हरिः साक्षान्नेत्राभ्यां पुष्करेक्षणः

7.26.22

तन्नेत्रहर्षबिन्दुश्च कलशे निपपात ह ॥
तस्माद्‍वृक्षः समुद्‍भुतस्तुलसीति प्रकथ्यते

7.26.23

रङ्गवल्लीति तन्नाम चकार मधुसूदनः ॥
अत्र किंपुरुषे खंडे हेमकूटगिरेरधः

7.26.24

तस्याश्च रङ्गवल्याः कौ स्थापनां स चकार ह ॥
रङ्गवल्लीमहावृक्षः सदात्रैव विराजते

7.26.25

तन्नाम्ना प्रसिद्धमभूद्‌रंगवल्लीपुरं त्विदम् ॥
अत्र नित्यं हि हनुमानार्ष्टिषेणेन रागिणा

7.26.26

दर्शनार्थं समायाति महात्मा रामपूजकः ॥
श्रीनारद उवाच -
इति श्रुत्वा शम्बरारी रङ्गवल्लीं मनोहरम्

7.26.27

दृष्ट्वा प्रदक्षिणीकृत्य देशानन्याञ्जगाम ह ॥
हेमकूटतटीभूतं वनं प्राप्तं भयङ्करम्

7.26.28

झिल्लीझंकारसंयुक्तं सिंहचित्रकनादितम् ॥
वन्यैः करींद्रैः संयुक्तं शिवोलूकरुतावृतम्

7.26.29

कीचकाश्वत्थमन्दार-वटभूर्जसमाकुलम् ॥
कृष्णाहरीतकीवल्ली-बदरैः सघनं वनम्

7.26.30

तस्माद्विनिर्गतः सर्पो दशयोजनलंबितः ॥
अग्रसद्‌गजवृंदानि फूत्कारं कारयन्मुहुः

7.26.31

हाहाकारे तदा जाते सेनायां मैथिलेश्वर ॥
प्रचंडगरलैर्वातैर्भस्मीभूते दिशांतरे

7.26.32

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ॥
चंद्रभानुर्बृहद्‌भानुरतिभानुस्तथाऽष्टमः

7.26.33

श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ॥
एते जघ्नुः शरैस्तीक्ष्णैः सर्पं रौद्रं मदोत्कटम्

7.26.34

बाणैः संभिन्नसर्वांगः पतितो धरणीतले ॥
सर्परूपं विहायाशु गंधर्वोऽभूत्स्फुरद्द्युति

7.26.35

नत्वा श्रीकृष्णपुत्रांस्तान् द्योतयन् मंडलं दिशाम् ॥
पुष्पैर्वर्षत्सु देवेषु विमानेन दिवं ययौ

7.26.36

बहुलाश्व उवाच -
गंधर्वोऽयं तु कः पूर्वं केन पापेन सर्पताम् ॥
प्राप्तः कथं वद मुने त्वं परावरवित्तमः

7.26.37

श्रीनारद उवाच -
आर्ष्टिषेणस्य यो भ्राता सुमतिर्नाम सुन्दरः ॥
रामायणं हनुमता पठितुं स समागतः

7.26.38

हेमकूटे हनुमतः कुर्वतो रामसेवनम् ॥
प्रातःकालात्समारभ्य घटिकाश्च चतुर्दश

7.26.39

सलक्ष्मणं रामचंद्रं ध्यायतो जानकीपतिम् ॥
फूत्कारैः सर्पवत्तस्य ध्यानभंगं चकार ह

7.26.40

तदा क्रुद्धो महावीरो हनुमान् वानरेश्वरः ॥
शापं ददौ सुमतये त्वं सर्पो भव दुर्मते

7.26.41

तदैव तस्य चरणौ नत्वा प्राह कृतांजलिः ॥
हे देव पाहि पाहीति दीनं मां शरणं गतम्

7.26.42

अथ प्रसन्नो भगवान्सुमतिं प्राह धर्मवित् ॥
द्वापारांते शरैस्तीक्ष्णैर्हरिपुत्रधनुश्च्युतैः ॥
भिन्नदेहः स्वां प्रकृतिं यास्यसि त्वं न संशयः

7.26.43

गंधर्वः सुमतिर्नाम विमुक्तोऽभूद्‌विदेहराट् ॥
सतां शापोऽपि वरवद्‌वरो मोक्षार्थदः किमु

7.26.44

अथ कार्ष्णिर्महाबाहुश्चैत्रदेशान्मनोहरान् ॥
वसन्तमाधवीवृंदैः शोभीतान्स जगाम ह

7.26.45

सहस्रदलपद्मानां षट्‍पदध्वनिशालिनाम् ॥
पतन्ति रेणवो यत्र सरःस्वाबीरचूर्णवत्

7.26.46

एलालवंगलतिका क्षुण्णाः सैन्याङ्‌घ्रिभिः पथि ॥
तेन भृङ्गावली रेजे करिकर्णप्रताडिता

7.26.47

यत्र वै पुरुषा राजन्नागायुतसमा बले ॥
वलीपलितदौर्गंध्यस्वेदक्लमविवर्जिताः

7.26.48

त्रेतायुगसमाः कालो वर्तते यत्र नित्यशः ॥
आयुश्चायुतवर्षाणां दिव्यौषधिनदीगुणैः

7.26.49

पीयूषतुल्यं तोयं च हेमभूमिर्विराजते ॥
मुक्ताविद्रुमवैडूर्य-रत्‍नोत्पत्तिश्च यत्र वै

7.26.50

सुंदर्यः प्रमदा रामा नित्ययौवनभूषिताः ॥
स्फुरंत्युपवनेष्वारात्सौदामिन्यो घनेष्विव

7.26.51

यत्र वै नगरी रम्या वसंततिलका शुभा ॥
शृङ्‌गारतिलको नाम राजा यत्र महाबलः

7.26.52

जैत्रान् वीरान् समाहूय गजमारुह्य दंशितः ॥
योद्धुं विनिर्ययौ यश्च प्रद्युम्नस्यापि संमुखे

7.26.53

सांबः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥
विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः

7.26.54

जांबवत्याः सुता ह्येते चक्रुर्नाराचदुर्दिनम् ॥
पलायितेषु चैतेषु बाणैर्भिन्नेषु मैथिल

7.26.55

बाणांधकारे संजाते महान्कोलाहलो ह्यभूत् ॥
तदा शृङ्गारतिलको गजारूढो महाबलः

7.26.56

त्रिशूलेन तद साम्बं हृदि विव्याध रोषतः ।
अन्यान्संपातयामास शरैः कोदंडनिर्गतैः

7.26.57

एकाकी विचरन् युद्धे वने वैश्वानरो यथा ॥
तदा गदः समागत्य तद्‌गजं सुमदोत्कटम्

7.26.58

शुंडादंडे संगृहीत्वा पातयामास भूतले ॥
दूरे प्रपतितः शीघ्रं शृङ्गारतिलको नृपः

7.26.59

सद्यो भयातुरो भूत्वा युद्धे बद्धांजलिः स्वतः ॥
तुरंगाणामर्बुदं च रथानां लक्षमेव च

7.26.60

गजानामयुतं राजा प्रद्युम्नाय बलिं ददौ ॥
इत्थं किंपुरुषं खंडं जित्वा कार्ष्णिर्महाबलः

7.26.61

निषाददर्शितैर्मार्गैर्हरिवर्षं ततो ययौ

7.26.26

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
किंपुरुषखण्डविजयो नाम षड्‌विंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc