भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.17

7.17.1

मागधविजयम्
श्रीनारद उवाच -
अथातो मागधञ्जेतुं प्रद्युम्नो मीनकेतनः ॥
गिरिव्रजं जगामाशु स्वसैन्यैः परिवारितः

7.17.2

श्रुत्वाऽऽगतं हरेः पुत्रं दिग्जयार्थं विशेषतः ॥
जरासंधो मागधेंद्रो महाकोपं चकार ह

7.17.3

जरासंध उवाच -
तुच्छा ये यादवाः सर्वे युधि विक्लवचेतसः ॥
तेऽद्य वै जगतीं जेतुं निर्गता गतबुद्धयः

7.17.4

मथुरां स्वपुरीं त्यक्त्वा मद्‌भयान्माधवोऽपिहि ॥
समुद्रं शरणं प्रागात्पिता चास्य दुरात्मनः

7.17.5

प्रवर्षणे रामकृष्णौ मया भस्मीकृतौ बलात् ॥
छलाद्‍दुद्रुवतुस्तौ द्वौ द्वारकायां समाश्रितौ

7.17.6

बद्ध्वा तौ चानयिष्यामि सोग्रसेनौ कुशस्थलीम् ॥
अयादवीं करिष्यामि पृथ्वीं सागरमेखलाम्

7.17.7

श्रीनारद उवाच -
इत्युक्त्वा निर्गतो राजा गिरिव्रजपुराद्‌बहिः ॥
अक्षौहिणीभिर्विंशत्या तिसृभिः संयुतो बली

7.17.8

गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखे ॥
स्रवन्मदैश्चतुर्दंतैरैरावतकुलोद्‌भवैः

7.17.9

शुण्डादण्डस्य फूत्कारैः क्षेपयद्‌भिस्तरून्बहून् ॥
बभौ गजैर्मागधेंद्रो मेघैरिंद्र इव प्रभुः

7.17.10

रथैश्च देवधिष्ण्याभैः सध्वजैरश्वनेतृभिः ॥
चामरैर्दोलितै राजंल्लोलचक्रध्वनिद्युतिः

7.17.11

तुरङ्गमैर्वायुवेगैश्चित्रवर्णैर्मदोत्कटैः ॥
सौवर्णपट्टहाराद्यैः शिखारश्म्यूर्ध्वचामरैः

7.17.12

सकंचुकैर्वीरजनैः खड्गचर्मधनुर्धरैः ॥
विद्याधरसमैः प्रागान्मागधेंद्रो महाबलः

7.17.13

धुंकारैर्दुंदुभीनां च दिशो नेदुर्धनुःस्वनैः ॥
चचाल वसुधा सैन्यै रजोभिश्छादितं नभः

7.17.14

जरासंधस्य तत्सैन्यं प्रलयाब्धिमिवोल्बणम् ॥
विस्मिता यादवाः सर्वे बभूवुर्वीक्ष्य मैथिल

7.17.15

प्रद्युम्नो भगवान्वीक्ष्य मागधेंद्रबलार्णवम् ॥
शंखं दघ्मौ दक्षिणाख्यं मा भैष्टेत्यभयं ददत्

7.17.16

ततः सांबो महाबाहुः प्रद्युम्नस्य प्रपश्यतः ॥
अक्षौहिणीनां दशभिर्युयुधे मागधेन सः

7.17.17

गजा गजैर्युयुधिरे रथिभी रथिनो मृधे ॥
हया हयैः पत्तयश्च पत्तिभिर्मैथिलेश्वर

7.17.18

बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
मागधानां यदूनां चासुराणां निर्जरैर्यथा

7.17.19

अश्वारुढाः केऽपि वीरा भल्लहस्ता इतस्ततः ॥
मर्दयंतो गजारूढाः करिकुम्भगतार्चयः

7.17.20

केचिच्छक्तीस्तडिद्वर्णा गृहीत्वा चिक्षिपुर्बलात् ॥
ताः शक्तयस्त्वरीन् भित्वा दंशितान् धरणीं गताः

7.17.21

केचिद्वीरा नदन्तः कौ रथांगानि च चिक्षुपुः ॥
चिच्छिदुर्वीरपटलं नीहारं रवयो यथा

7.17.22

भिंदिपालैर्मुद्‌गरैश्च कुठारैरसिपट्टिशैः ॥
अच्छूरिकार्ष्टिभिस्तीक्ष्णैर्निस्त्रिंशैर्युयुधुश्च खे

7.17.23

तोमरैश्च गदभिश्च बाणैश्छिन्नानि भूतले ॥
निपेतुर्वीरकरिणामश्वानां च शिरांसि च

7.17.24

कबंधास्तत्र चोत्पेतुः पातयन्तो हयान्नरान् ॥
खड्गहस्ताः प्रधावन्तः संग्रामेषु भयंकरा

7.17.25

वीरोपरि गता वीरा निपेतुश्छिन्नबाहवः ॥
हयोपरि हयाः केचिद्‌बाणैः संछिन्नकंधराः

7.17.26

विद्याधर्यश्च गंधर्व्यो वव्रिरे ह्यंबरे गतान् ॥
वीरान्पतीन्समिच्छंत्यस्तासां चाभूत्कलिर्महान्

7.17.27

क्षात्रधर्मापराः केचिद्युद्धदत्तासवो नृप ॥
न चलन्तः पदं पृष्ठे सदा संग्रामशालिनः

7.17.28

जग्मुः परं पदं ते वै भीत्वा मार्तण्डमंडलम् ॥
ननृतुः शिशुमारे वै मंडले च नटा इव

7.17.29

एवं सांबमहावीरैर्मर्दितं मागधं बलम् ॥
दुद्राव पश्यतां तेषां कृष्णभक्त्या यथाशुभम्

7.17.30

केचिद्वै वृक्णवर्माणश्छिन्नचापास्तथापरे ॥
पलायमाना धावंतस्त्यक्तखड्गर्ष्टिपाणयः

7.17.31

पलायमानं स्वबलं वीक्ष्य तन्मागधेश्वरः ॥
धनुष्टंकारयन्प्राप्तो मा भैष्टेत्यभयं ददौ

7.17.32

स्वबलं नोदयामास जरासंधो धनुर्ज्यया ॥
महामात्यः प्रेरयति ह्यंकुशेन गजं यथा

7.17.33

सांबस्तदैव सम्प्राप्तो दशभिश्चापनिर्गतैः ॥
बाणैर्विव्याध समरे मागधेंद्रं महाबलम्

7.17.34

धनुर्ज्यामब्धिकल्लोलभीमसंघर्षनादिनीम् ॥
चिच्छेद दशभिर्बाणैः सांबो जांबवीसुतः

7.17.35

धनुरन्यत्समादाय जरासंधो महाबलः ॥
धनुः सांबस्य चिच्छेद बाणैर्दशभिरग्रतः

7.17.36

चतुर्भिश्चतुरो वाहान्द्वाभ्यां केतुं रथं त्रिभिः ॥
एकेन सारथिं जघ्ने मागधेंद्रो जरासुतः

7.17.37

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
पुनरन्यं समास्थाय रथं सांबो महाबलः

7.17.38

गृहीत्वा चापमत्युग्रं सज्जं कृत्वा विधानतः ॥
तद्‌रथं चूर्णयामास सांबो बाणशतैरपि

7.17.39

रथं त्यक्त्वा जरासंधो गजमारुह्य वेगतः ॥
बभौ गजे मागधेंद्र इन्द्र ऐरावते यथा

7.17.40

चित्रपत्रविचित्रांगं कालांतकयमोपमम् ॥
सांबाय नोदयमास मत्तेभं क्रुद्धमानसः

7.17.41

गृहीत्वा सरथं सांबं शुण्डादण्डेन नागराट् ॥
कुर्वंश्चीत्कारविकलश्चिक्षेप नवयोजनम्

7.17.42

तदा कोलाहले जाते सांबसेनासु मैथिल ॥
प्रद्युम्नपार्श्वाच्च गदः प्राप्तोऽभूद्वेगतो बलम्

7.17.43

विनाशयन्नंधकारं यथार्क उदयाचलात् ॥
जरासंधस्यापि गजं मुष्टिना वसुदेवजः

7.17.44

जघान शक्रो वज्रेण यथा प्रोच्चदरीभृतम् ॥
गजो मुष्टिप्रहारेण विह्वलो धरणीं गतः

7.17.45

जगाम पञ्चतां राजंस्तदद्‌भुतमिवावभवत् ॥
जरासंधः समुत्थाय गदामादाय वेगतः

7.17.46

गदं तताड सहसा जगर्ज घनवद्‌बली ॥
तत्प्रहारेण स गदो न चचाल रणांगणात्

7.17.47

त्वरं गदां समादाय लक्षभारविनिर्मिताम् ॥
अताडयज्जरासंधं सिंहनादमथाकरोत्

7.17.48

तत्प्रहारेण व्यथितो बृहद्‌रथसुतो बली ॥
जरासंधः समुत्थाय गृहित्वा सगदं गदम्

7.17.49

चिक्षेप रोषतो राजन्नाकाशे शतयोजनम् ॥
गदोऽपि मागधं नीत्वा भ्रामयित्वा महाबलः

7.17.50

चिक्षेप गगने तं वै योजनानां सहस्रकम् ॥
आकाशात्पतितो राजा मागधो विंध्यपर्वते

7.17.51

उत्थाय युयुधे तेन गदेनापि महाबलः ॥
तदैव सांबः संप्राप्तो गृहीत्वा मागधेश्वरम्

7.17.53

भूपृष्ठे पोथयामास सिंहः सिंहमिवौजसा ॥
एकेन मुष्टिना सांबं द्वितीयेन गदं तथा ५२॥
तताड मागधो राजा जगर्जाशु रणांगणे ॥
मुष्टिप्रहारव्यथितौ गदः सांबश्च मूर्छितौ

7.17.54

हाहाकारो महानासीत्तदैवाशु रणांगणे ॥
रथेनातिपताकेन प्रद्युम्नो यादवेश्वरः

7.17.55

अक्षौहिणीयुतः प्राप्तो मा भैष्टेत्यभयं ददौ ॥
जरासंधो गदां नीत्वा लक्षभारविनिर्मिताम्

7.17.56

विवेश यदुसेनायामरण्येऽग्निरिव प्रभुः ॥
रथान्गजन्सवीरांश्च तुरङ्गान्सैंधवान्बहून्

7.17.57

पातयमास राजेंद्र पद्मानीव महागजः ॥
जरासंधस्य या सेना सापि सर्वा समागता

7.17.58

जघान निशितैर्बाणैर्यदूनां सर्वतो बलम् ॥
प्रद्युम्नो युयुधे युद्धे निर्भयो यादवेश्वरः

7.17.59

निपातयन्नरीन्बाणैर्धनुष्टङ्कारयन्मुहुः ॥
तदैव यदुपुर्यास्तु बलदेवः समागतः

7.17.60

प्रादुर्बभूव तत्रापि सर्वेषां पश्यतां सताम् ॥
समाकृष्य हलाग्रेण मागधेंद्रं महाबलम्

7.17.61

मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः ॥
शतयोजनपर्यंतं रथाश्वगजपत्तयः

7.17.62

पतिता भिन्नशिरसः सर्वे वै निधनं गताः ॥
देवदुंदुभयो नेदुर्नरदुन्दुभयस्तथा

7.17.63

बलदेवोपरि सुराः पुष्पवर्षं प्रचकिरे ॥
तदा जयजयारावो यदूनां स्वबले महान्

7.17.64

प्रद्युम्नाद्यास्ततो नेमुः कामपालं गतव्यथाः ॥
इत्थं जित्वा मागधेन्द्रं बलदेवो महाबलः

7.17.65

प्रययौ द्वारकां राजन्भगवान्भक्तवत्सलः ॥
जरासंधसुतो धीमान् सहदेव उपायनम्

7.17.66

नीत्वा पुरः शंबरारेर्गिरिदुर्गाद्विनिर्गतः ॥
अश्वार्बुदं रथानां च द्विलक्षं हस्तिनां तथा

7.17.67

ददौ षष्टिसहस्रणि नत्वा कार्ष्णिं प्रभाववित्

7.17.17

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
मागधविजयो नाम सप्तदशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc