भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.10

7.10.1

यादवगणानां करूषदेशगमनम्
श्रीनारद उवाच -
मनुतीर्थे ततः स्नात्वा प्रद्युम्नो यदुभिः सह ॥
प्रययौ कौंकणान्देशान्दुंदुभीन्नादयन्मुहुः

7.10.2

कौंकणस्थोऽथ मेधावी गदायुद्धविशारदः ॥
एकाकी मल्लयुद्धेन परीक्षन्नाययौ बलम्

7.10.3

प्रद्युम्नं सबलं प्राह शृणु मे यादवेश्वर ॥
गदायुद्धं देहि मह्यं मद्‌बलं नाशय प्रभो

7.10.4

प्रद्युम्न उवाच -
एकतो ह्येकतो वीरा बलवंतो महीतले ॥
मानं मा कुरु हे मल्ल विष्णुमायातिदुर्गमा

7.10.5

वयं तु बहवो वीरास्त्वमेकाकी समागतः ॥
अधमोऽयं महामल्ल दृश्यते याहि सांप्रतम्

7.10.6

मल्ल उवाच -
यदा युद्धं न कुरुत भवंतो बलशालिनः ॥
मत्पादोऽधोऽत्र निर्यांतु तदा यास्यामि सांप्रतम्

7.10.7

श्रीनारद उवाच -
एवं वदति मल्ले वै सर्वे यादवपुंगवाः ॥
बभूवुः क्रोधसंयुक्ताः पश्यतस्तस्य मैथिल

7.10.8

गदो गदां समादाय बलदेवानुजो बली ॥
तस्थौ सोऽपि गदां नीत्वा सर्वेषां पश्यतां नृप

7.10.9

गदां वरिष्ठां चिक्षेप गदाय स महाबलः ॥
गदोपरि गदां नीत्वा स्वगदां प्राक्षिपद्‍गदः

7.10.10

गदस्य गदया सोऽपि ताडितः पतितो भुवि ॥
मृधेच्छां न चकाराशु ह्युद्‌वमन् रुधिरं मुखात्

7.10.11

कोंकणस्थोऽथ मेधावी नत्वा प्राह हरेः सुतम् ॥
परीक्षार्थं च भवतामेतत्कार्यं मया कृतम्

7.10.12

त्वमेव भगवान्साक्षात्कुतोऽहं प्राकृतो जनः ॥
क्षमस्व मेऽपराधं भो त्वामहं शरणं गतः

7.10.13

श्रीनारद उवाच -
इत्युक्त्वाथ बलिं दत्वा नमस्कृत्य हरेः सुतम् ॥
कोंकणस्थः पुरीं प्रागान्मेधावी क्षत्रियोत्तमः

7.10.14

कुटकाधिपतिं मौलिं मृगयायां विनिर्गतम् ॥
जग्राह स महाबाहुः सांबो जांबवतीसुतः

7.10.15

कार्ष्णिस्तस्माद्‌बलिं नीत्वा दंडकाख्यं वनं ययौ ॥
मुनीनामाश्रमान्पश्यन्स्वसैन्यपरिवारितः

7.10.16

निर्विंध्यां च पयोष्णीं च तापीं स्नात्वा हरेः सुतः ॥
शूर्पारकं महाक्षेत्रमार्यां द्वैपायनीं ततः

7.10.17

ऋष्यमूकं ततः पश्यन्प्रवर्षणगिरिं गतः ॥
पर्जन्यो भगवान्साक्षान्नित्यदा यत्र वर्षति

7.10.18

गोकर्णाख्यं शिवक्षेत्रं दृष्ट्वा कार्ष्णिः स्वसैन्यकैः ॥
त्रिगर्तान्केरलान् देशान् ययौ जेतुं महाबलः

7.10.19

अम्बष्ठः केरलाधीशः श्रुत्वा वार्तां तु मन्मुखात् ॥
ददौ तस्मै बलिं शीघ्रं प्रद्युम्नाय महात्मने

7.10.20

कृष्णां वेणीं तदोत्तीर्य तैलंगान् विषयान् ययौ ॥
सैन्यपादरजोवृंदैरंधीकुर्वन्नभःस्थलम्

7.10.21

तैलंगस्याधिपो राजा विशालाक्षः प्रकीर्तितः ॥
पुरस्योपवने रेमे सुंदरीगणसंवृतः

7.10.22

मृदंगाद्यैश्च वादित्रैर्मधुरध्वनिसंकुलैः ॥
परैरप्सरसां रागैर्गीयमानो द्युराडिव

7.10.23

तं प्राह सुंदरी रामा राज्ञी मंदारमालिनी ॥
रजोव्याप्तं नभो वीक्ष्य शुष्यद्‌बिंबाधरा परा

7.10.24

मंदारमालिन्युवाच -
राजन्न जानासि सदा विहारा-
दहर्निशं कामविशाललोलः ॥
अहं न जानामि कदापि दुःखं
मुखालकालिभ्रमरास्तवेषा

7.10.25

द्वारावतीशाध्वरनागवल्ली-
चयं समुत्थाप्य दिशो जयार्थम् ॥
विजित्य सर्वान्नृप चेदिपान्स
समागतोऽसौ यदुराजराजः

7.10.26

धुंकारशब्दं नृणु दुंदुभीनां
चित्कारफूत्कारयुतं द्विपानाम् ॥
कोदंडटंकारमयं पराणां
कल्पांतसारस्वतनादकारम्

7.10.27

त्वरं बलिं प्रेषय शंबरारये
प्रधावतीः पश्य नरेन्द्र सुंदरीः ॥
च्यूतप्रसूनाः श्रमवारिवर्षणी-
र्वनप्रवेशास्फुटकेशमंडनाः

7.10.28

पत्‍नीवाक्यं ततः श्रुत्वा विशालाक्षोऽतिहर्षितः ॥
प्रद्युम्नसम्मुखे सोऽपि बलिं नीत्वा समाययौ

7.10.29

तेन सम्पूजितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥
स्नात्वा पंपासरस्तीर्थे महाराष्ट्रं ततो ययौ

7.10.30

महाराष्ट्राधिपो राजा विमलो नाम वैष्णवः ॥
भक्त्या परमया कार्ष्णिं पूजयामास सर्वतः

7.10.31

तथा हि कर्णाटपतिः सहस्रजि-
त्स्वतः समानीय बलिं महात्मने ॥
सम्पूजयामास शुभार्थहेतवे
श्रीशंबरारिं जगतः प्रभुं परम्

7.10.32

प्रद्युम्नो भगवान्साक्षाद्यादवैः सह मैथिल ॥
करूषान् विषयान्प्रागाज्जेतुं योगीव देहजान्

7.10.33

महारंगपुरे तत्र वृद्धशर्मा महामतिः ॥
भर्ताथ श्रुतदेवाया वसुदेवस्वसुर्नृप

7.10.34

तस्य पुत्रो दंतवक्त्रः कृष्णशत्रुः प्रकीर्तितः ॥
शिशुपाल इव क्रुद्धो योद्धुं चक्रे मनः स्वयम्

7.10.35

मात्रा पित्रा वारितोऽपि दैत्यो दैत्याननुव्रतः ॥
यादवान् घातयिष्यामि कोऽयमित्थं चकार ह

7.10.36

आदाय स गदां गुर्वीं लक्षभारविनिर्मिताम् ॥
एकाकी प्रययौ योद्धुं प्रद्युम्नबलसम्मुखे

7.10.37

दंतवक्त्रः कृष्णवर्णं कज्जलाद्रिसमप्रभम् ॥
ललज्जिह्वं घोररूपं तालवृक्षदशोच्छ्रितम्

7.10.38

किरीटकुण्डलधरं हेमवर्णविभूषितम् ॥
किंकिणीजालसंयुक्तं चलच्चरणनूपुरम्

7.10.39

कंपयन्तं भुवं वेगात्पातयन्तं गिरीन्द्रुमान् ॥
घातयंतं स्वगदया कृतांतमिव दुर्जनान्

7.10.40

तं दृष्ट्वा यादवाः सर्वे भयं प्रापुर्मृधांगणे ॥
आगते दंतवक्त्रे च महान्कोलाहलो ह्यभूत्

7.10.41

प्रद्युम्नः प्रेषयामास तस्योपरि महद्‌बलम् ॥
अष्टादशाक्षौहिणीनां धनुष्टंकारयन् मुहुः

7.10.42

बाणैः परश्वधैः राजञ्छतघ्नीभीर्भृशुंडिभिः ॥
तं तेडुर्यादवाः सर्वे सर्वतोऽद्रिं यथा गजाः

7.10.43

दंतवक्रः स्वगदया करींद्रानुत्कटान्बहून् ॥
पातयामास राजेंद्र भिन्नकुंभस्थलान् मृधे

7.10.44

कांश्चित्पादेषु चोन्नीय किंकिणीजालनादितान् ॥
सशृङ्खलान्सनीडांस्ताँल्लोलघंटारणत्स्वनान्

7.10.45

वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥
शूंडादंडेषु कांश्चिद्वै गृहीत्वा दैत्यपुंगवः

7.10.46

भ्रामयित्वा गजान्दिक्षु नदतः प्राक्षिपद्‌रुषा ॥
कांश्चिद्‌गजान्वंशयोश्च कक्षयोरुभयोरपि

7.10.47

पद्‍भ्यामाक्रम्य शुशुभे दैत्यः कालाग्निरुद्रवत् ॥
रथान्ससूतान्साश्वांश्च सध्वजान्समहारथान् ॥
चिक्षेप गगने वीरः पद्मानीव प्रभञ्जनः

7.10.48

तुरगांश्च पदातीश्च प्राक्षिपद्‌गगने बलात् ॥
अधोमुखा ऊर्ध्वमुखा राजपुत्रा महाबलाः

7.10.49

सशत्रा रत्‍नकेयुरसंयुक्तास्तारका इव ॥
आकाशात्प्रपतंतस्ते वमंतो रुधिरं मुखात्

7.10.50

बलं विलोडयामास गदया दैत्यपुंगवः ॥
दंष्ट्रया प्रलयाब्धिं श्रीवराह इव मैथिल

7.10.10

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कोंकणकुटकत्रिगर्तकेरलतैलंगमहाराष्ट्रकर्णाटविजये कारूषदेशगमनं नाम दशमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc