भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.1

7.1.1

मरुत्तोपाख्यानम्
श्री भगवानुवाच -
नमो भगवते तुभ्यं वासुदेवाय साक्षिणे ॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च

7.1.2

अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः

7.1.3

श्रीगर्ग उवाच -
इत्थं श्रीकृष्णचरितं मया ते कथितं मुने ॥
चतुष्पदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि

7.1.4

शौनक उवाच -
बहुलाश्वो मैथिलेंद्रः श्रीकृष्णेष्टो हरिप्रियः ॥
किं पप्रच्छाथ देवर्षिं तन्मे ब्रूहि तपोधन

7.1.5

श्रीगर्ग उवाच -
उग्रसेनं यादवेंद्रं श्रीकृष्णेन कृतं मुने ॥
श्रुत्वातिविस्मितो राजा नारदं प्राह मैथिलः

7.1.6

बहुलाश्व उवाच -
को वायं मरुतो राजा केन पुण्येन भूतले ॥
यादवेंद्रो महाबुद्धिरुग्रसेनो बभूव ह

7.1.7

यस्य श्रीकृष्णचन्द्रोऽपि सहायोऽभूद्धरिः स्वयम् ॥
तस्याहो महिमानं मे ब्रूहि देवर्षिसत्तम

7.1.8

श्रीनारद उवाच -
सूर्यवंशोद्‌भवो राजा चक्रवर्ती कृते युगे ॥
यज्ञं चकार विधिवन्मरुतो यो जगज्जितः

7.1.9

महासम्भृतसम्भारैर्हिमाद्रेः पार्श्व उत्तरे ॥
संवर्तं मुनिशार्दूलं गुरुं कृत्वा हि दीक्षितः

7.1.10

पंचयोजनविस्तीर्णः कुण्डोऽभूद्यस्य चाध्वरे ॥
योजनं ब्रह्मकुण्डस्तु गव्यूतिः पंच कुंडकाः

7.1.11

मेखलागर्तविस्तारवेदीभिर्निर्मिता दश ॥
सहस्रहस्तमुच्चाङ्‌गो यज्ञस्तंभो बभौ महान्

7.1.12

विंशद्योजनविस्तीर्णः सौवर्णो यज्ञमण्डपः ॥
वितानतोरणै रेजे कदलीषंडमण्डितः

7.1.13

ब्रह्मरुद्रादयो देवाः सगणास्तत्र चागताः ॥
ऋषयो मुनयः सर्वे तस्य यज्ञं समाययुः

7.1.14

होतारो दश लक्षाणि दश लक्षाणि दीक्षिताः ॥
अध्वर्यवः पंचलक्षमुद्‌गातारस्तथा परे

7.1.15

आहूतास्तत्र विद्वांसश्चतुर्वेदविदो द्विजाः ॥
सर्वशास्त्रार्थ तत्वज्ञाः कोटिशोऽन्ये प्रपूजिताः

7.1.16

हस्तिशुण्डासमां धारां भुक्त्वाऽऽज्यस्य हुताशनः ॥
अजिर्णं प्राप तद्यज्ञे न चित्रं विद्धि मैथिल

7.1.17

येभ्यो भागं वदन्तीह विश्वेदेवाः सभासदः ॥
तेभ्यस्तेभ्यो ददुर्वा ताः परिवेष्टार एव ते

7.1.18

केऽपि जीवास्त्रिलोक्यां तु न बभूवुर्बुभुक्षिताः ॥
सर्वे देवास्तु सोमेन ह्यजीर्णत्वमुपागताः

7.1.19

संवर्ताय ददौ राज्यं जंबूद्वीपस्य चाध्वरे ॥
गजानां हेमभाराणां नियुतानि चतुर्दश

7.1.20

शतार्बुदं हयानां तु यज्ञांते दक्षिणां नृप ॥
कोटिशो नवरत्‍नानां महार्हाणां महात्मने

7.1.21

हयानां पंचसाहस्रं गजानां शतमेव च ॥
शतभारं सुवर्णानां ब्राह्मणे ब्राह्मणे ददौ

7.1.22

जलभोजनपात्राणि हैमानि प्रस्फुरंति च ॥
भुक्त्वा तानि विसृज्याशु गतास्तुष्टा द्विजातयः

7.1.23

विप्रत्यक्तैः स्वर्णपात्रैरुच्छिष्टैर्नृप वर्जितैः ॥
हिमाद्रिपार्श्वे शैलोऽभूदद्यापि शतयोजनम्

7.1.24

मरुतस्य यथा यज्ञो न तथान्यस्य कर्हिचित् ॥
त्रिलोक्यां शृणु राजेन्द्र न भूतो न भविष्यति

7.1.25

यज्ञकुण्डाद्विनिर्गत्य परिपूर्णतमः स्वयम् ॥
आत्मानं दर्शयामास मरुताय महात्मने

7.1.26

तमालोक्य हरिं नत्वा कृतांजलिपुटो नृपः ॥
गदितुं न समर्थोऽभूद्रोमांची प्रेमविह्वलः

7.1.27

तं प्रेमपूरितं दृष्ट्वा पतितं पादयोर्नतम् ॥
उवाच भगवान्साक्षान्मेघगंभीरया गिरा

7.1.28

श्रीभगवनुवाच -
राजंस्त्वयाहं विनयेन तोषितो
निष्कारणैर्यज्ञपरैः समर्चितः ॥
वरं परं ब्रूहि महामते त्वरं
दास्यामि देवैरपि दुर्लभं दिवि

7.1.29

श्रीनारद उवाच -
श्रुत्वा तु राजा मरुतः कृतांजलिः
प्रदक्षिणीकृत्य हरिं परमेश्वरम् ॥
संपूज्य भक्त्या विशदोपचारकै-
र्नत्वा भृशं गद्‌गदया गिराब्रवीत्

7.1.30

मरुत उवाच -
न वेद्‍म्यहं त्वच्चरणारविंदतो
वरं परं श्रीपुरुषोत्तमोत्तम ॥
समेत्य गंगा तृषितातिदुर्धियः
खनंति कूपं हि यथा नरेतराः

7.1.31

तथापि याचे तव वाक्यगौरवा-
त्पादारविंदं हृदयारविंदात् ॥
कदापि मे मा व्रजतु व्रजेश्वर
मूलं चतुर्णां विदुरर्थसंपदाम्

7.1.32

श्रीभगवानुवाच -
धन्यऽस्ति राजंस्तव निर्मला मतिः
प्रलोभितस्यापि वरैर्न कामभृत् ॥
तथापि मत्तो वरयेप्सितं वरं विना
फलं भक्तसुखान्न मे सुखम्

7.1.33

मरुत उवाच -
देयं यदा मे वरमीप्सितं प्रभो
वैकुण्ठलोकं कुरुताद्धरातले ॥
रक्ष स्थितं मां निजभक्तवत्सल
तस्मिन्पुरे भक्तजनैः परैः सह

7.1.34

श्रीभगवानुवाच -
अस्मिन्मनौ देवमनोरथाब्धिं
गतेषु विंशेषु युगेषु चाष्टौ ॥
गत्वाथ नाकं धरणीं समेत्य
मया हि गोवत्सपदं करिष्यसि

7.1.35

श्रीनारद उवाच -
इत्युक्त्वा भगवान्साक्षात्तत्रैवांतरधीयत ॥
सोऽयं तु मरुतो राजा ह्युग्रसेनो बभूव ह

7.1.36

तं यज्ञं कारयामास राजसूयं हरिः स्वयम् ॥
किं दुर्लभं त्रिलोक्यां तु भक्तानां मैथिलेश्वर

7.1.37

मरुतस्यापि चरितं यः शृणोति नृपोत्तम ॥
तस्य ज्ञानं सवैराग्यं भक्तियुक्तं प्रजायते

7.1.1

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
श्रीमरुतोपाख्यानं नाम प्रथमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc